OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 27, 2017

पञ्चपञ्चाशत् कि. मी दीर्घा समुद्रसेतु: चैनायाम् अद्भुतं विकिरति; मध्ये कृत्रिमद्वीपा: तुरङ्कानि च।
 बेय्जिङ्> अद्भुतनिर्मितिरिति विशेषार्ह: लोकेपि अतिदीर्घतम:  समुद्रसेतु:  अस्मिन् वर्षे  अन्तिमे गतागताय उद्घाटयिष्यति। Y आकृतौ निर्मीयमानसेतु: होङ्कोङ्ङस्य  लन्तावु द्वीपादारभ्य मक्कावु पर्यन्तं तथा सुहायिपर्यन्तं च द्विधा विभज्य  मार्गं  पूर्तीकृत्य निर्मित:  भवति । चैनया एव ५५ (पञ्चपञ्चाशत्) कि.मी दीर्घ: सेतु: निर्मित: ।आधुनिकलोके सप्त महाद्भुतेषु  एक:इत्येव  गार्डियन् दिनपत्रिकया सेतुनिर्मिति: परामृष्टा। झंझावातं  समुद्रवीचीन् वा प्रतिरुध्य स्थातुं क्षम: एव तन्त्रज्ञानशाखाया: अद्भुतमित्यपि चैना  प्रस्तौति। पञ्चपञ्चाशत् (५५) कि मी सेतो: अध: द्वौ कृत्रिमद्वीपौ निर्मितौ। एतौ द्वीपौ परस्परं बन्धित्वा  समुद्रस्याध:  द्वे तुरङ्के एतस्य भागत्वेन तिष्ठत:। महानौकानां गमनसौकर्याय एष: तुरङ्ग:अत्र अन्तर्भावित:। समुद्रस्याध: षट् दशांशम् सप्त( ६.७) कि मी तुरङ्कस्य तथा सेतो: द्वाविंशति दशांशम् नव (२२.९) भागस्य केवलं  निर्माणाय चतुर्लक्षं टण् स्टील् एव निर्मिवन्त:।