OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 15, 2017

श्रीनगरे मतदानं केवलं द्वे प्रतिशतम्।
श्रीनगरं - जम्मुकाश्मीरस्य श्रीनगरं लोकसभामण्डले सम्पन्ने उपनिर्वाचनम् अनुबन्ध्य ३८मतदानकेन्द्रेषु प्रवृत्तायां पुनर्मतदानप्रक्रियायां केवलं द्वे प्रतिशतं मतदानमेव संवृत्तम्। प्रस्तुतदिने बद्गाम् जनपदे विघटनवादिभिः हट्टतालं प्रख्यापितमासीत् इत्यतः अतीव सुरक्षासन्नााहेनैव पुनर्मतदानम् आयोजितम्।
     रविवासरे संवृत्ते उपनिर्वाचने अक्रमासक्तं जननिवहं प्रति सुरक्षासेनया कृते भुषुण्डिप्रयोगे अष्टौ जनाः हताः। अत एव पुनर्मतदानम् आयोजितम्। तस्मिन् दिने ७.१४ प्रतिशतम् आसीत् मतदानम्।

जादवाय आवेदनं समर्पितुं भारतम्। अपराधपत्रस्य प्रतिलिपिः अन्विच्छत्।
नवदेहली>भारतस्य चारत्वेन पाक्किस्थानेन गृहीत्वा मृत्युदण्डनाय निर्णीताय कुलभूषण जादवाय दीयमान दण्डनं न्यूनीकर्तुं नूतनयुक्तिसमर्थनं पत्रं  समर्पितुं भारतं निर्णयं कुर्वदस्ति। पाक् विदेशकार्य निर्देशकेन डेह्मिना जान्जुवेन सह भारत स्थानपतिना गौतं बंबावालया कृतायां संगोष्ठ्याम् जातः अयं निर्णयः । तदर्थं जादवस्य अपराधपत्रस्य प्रतिलिपिः भारतेन वाञ्छिता। कुलभूषण जादवं मेलितुं भारतस्य नयतन्त्र कार्यकतॄणां कृते अनुमतिः दातव्या इति गौतं बंबावाला अवदत्। त्रयोदशवारं भारतेन एतदेव आवश्यं निवेदितमासीत्। किन्तु सर्वदा पाक्किस्थानेन निराकृतम्। चारप्रवर्तने गृहीतं जनं मिलितुं अनुमतिः न ददातीति पाक्किस्थानेन व्यक्तीकृतम्। किन्तु अन्ताराष्ट्रिय नियमानुसारं तदर्थं अवकाशः अस्तीति गौतं बंबावालया उक्तम्।

 पोड़्याड़तः षट् लक्षजनान् निष्कासयितुं किं जोड़् उन्। विश्वं चिन्तायाम्।
सोल्>उत्तरकोरियायाः आस्थानात् पोड़्याड़तः षट् लक्षजनान् संवाह्य अन्यत्र नेतुं  एकाधिपतिना किं जोड़् उन् आज्ञापितम्। लोकराष्ट्रानि चिन्ताकुलानि। जनान् किमर्थं निष्कासयति इत्येतस्मिन् व्यक्तता नास्ति। षष्टाय आणवायुधपरीक्षणाय सज्जं भवति  उत्तरकोरिया राज्यम्। तदेव जनानां निष्कासनस्य हेतुः अस्तीति ऊहकल्पनाः प्रचरन्ति। उत्तरकोरियां प्रति अमेरिका प्रतिषेधं न्यवेदयत्। अतः किं जोड़् उन् युद्धाय सुसज्जन्नस्तीति प्रतिवेदनानि सन्ति।

नयरेखा: अड्गीकृता:  साम्पत्तिकनयप्रख्यापनसम्मेलनं समाप्तम् ।।।          
 नवदिल्ली >१८ नयरेखा: अड्गीकृत्य  लोकसभायां साम्पत्तिक-नयप्रख्यापन-सम्मेलनस्य द्वितीय,घट्ट: परिसमाप्त: । करपरिष्कारे चरित्रे एव अतिबृहत्  इत्यड्गीकृता  भारवाहकसेवननिकुति: ( जी एस् टी)  तत्सम्बद्धा: ४ नयरेखाश्च एषु  अन्तर्भवन्ति । अहोरात्रं प्रवर्तनं कृत्वैव जी एस् टी नयरेखा: लोकसभया अड्गीकृता:।


पार्श्ववत्कृतानां कृतेप्रवर्तमानस्य आयोगस्य संविधानपदवी 
नवदिल्ली >पार्श्ववत्कृतानां कृते प्रवर्तमानसमित्या: (कमीशन्) नयरेखाड्गीकाराय संविधानपदवी दत्ता इति सर्वकाराणामभिमानार्ह:। एतदर्थं हुकुमदेव: उमाभारती आदय: ओ बी सी  अड्गत्वेन राजमाना: नेतार: प्रधानमन्त्रिणं नरेन्द्रमोदिनं सन्दर्श्य कृतज्ञतां सूचितवन्त:। यन्त्रवाहननियमभेदगति:, यन्त्रागारनियमभेदगति: आदिनयरेखाश्च   याथार्थ्या: अभवन् ।सर्वकारसम्बद्धा: सम्पूर्णसाम्पत्तिकप्रवर्तनक्रमा:अपि आगामिसाम्पत्तिकवर्षारम्भात्पूर्वमेव मार्च् ३१ आभ्यन्तरे पूर्तीकर्तुं च शक्ता:। विकसनपद्धतीनां चालनाय विहितं धनं पूर्णंतया विनिमातुं  मन्त्रालयै: शक्यते । अस्मिन् वर्षे  साम्पत्तिकनयरेखापि पूर्वमेव अवतारिता । रेल् बजट् सामान्यबजट् च योजयित्वा अवतारिता । कार्यक्रमाणाम् पूर्तीकरणाय उभेपि सभे अधिकसमयं प्रवर्तिते। प्रधानमन्त्रिण: धनमन्त्रिण: च नेतृत्वमेव अभिमानस्यैतस्य पृष्ठत: इति सभाकार्यमन्त्री अनन्तकुमार: उक्तवान् । सभे राष्ट्रपति: सम्बोधितवान्। २४ नयरेखा: लोकसभायाम् अवतारिता: तासु २३ अड्गीकृताश्च । राज्यसभायां तथा १४ च । एयर् इन्डिया कर्मकरं शिवसेना एम् पी मर्दितवानिति घटना सभायां कोलाहलाय अभवत् । विमानशाला: एम् पीं रोधं कल्पितवत्य: इति च चर्चा अभवत्  ।व्योमयानमन्त्रालयाय क्षमापणं विलिख्य प्रश्न: परिहृत: । इलक्ट्रोणिक् निर्वाचनयन्त्रं प्रति आरोपणं च प्रतिपक्षेण सभयो: आवर्तितम् ।केरलस्य सी पी एम् अक्रमश्च चर्चाविषय: अभवत् ।