OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 22, 2017

गूढसङ्ख्या नावश्यकी ;  अङ्गुलीमुद्राङ्कितसमपत्राणि आगच्छन्ति ।।।
          वाषिङ्टण् >  ए टी एम् गूढसङ्ख्या विस्मृतेति इत:परं खेद: मास्तु ---  गूढसङ्ख्यानां सुरक्षासङ्केतानां च स्थाने अङ्गुलीमुद्रया निक्षेपस्वीकारादि-कार्यकरणसमर्थानि समपत्राणि आगतानि। अमरीकीयया मास्टर् कार्ड् कार्यशालया एतादृशजैवचालकीयसमपत्राणां परीक्षणोपयोग: दक्षिणाफ्रिकायां कृत:। इतोपि कृतपरीक्षणे  समाप्ते वर्षान्ते एतत् विज्ञानं समपत्रे बहिरानेतुमेव कार्यशालाया: उद्देश:। अधिकसुरक्षया साकं सरलसक्रियोपयोग: साध्य:  इति एतेषां समपत्राणां  सौकर्यमिति मास्टर् कार्ड् सुरक्षाकार्यदर्शिना भारतवंशजेन अजयभल्लेनोक्तम्। वित्तकोशात् समपत्रस्वीकारावसरे उपयोक्तु: अङ्गुलीमुद्रापि रेखाङ्किता भवेत्। एतत् समपत्रे सूक्ष्मसङ्ख्याफलकरूपेण संरक्ष्यते। साधारणसमपत्रवत्  ए टी एम् , पी ओ एस् यन्त्रेषु उपयोक्तुं च शक्यते। सूचीसङ्ख्यास्थाने अङ्गुलीमुद्रां रेखाङ्कितुं तत्स्थाने अङ्गुली स्थापनीया। यूरोपे एष्यायां च आगामिमासे  समपत्रस्य परीक्षणोपयोगं करिष्यन्ति ।