ज्योतिषप्रतिभापुरस्कारेण डा. ईश्वरः सम्मानितः ।
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEiXQJe1REG59tbZQd3eCgtug2ndpiEfml_Oi-zYTtjlaELA7veaVYWL5znTc3qtejJPnGiz8j1j5SDKQwEi8owoSJncQFlMqKN3djcf_QdFhTBRqgj4CIS60HWRacUycm5pdsk2w7o7XXtG/s320/WhatsApp+Image+2017-07-09+at+6.24.35+PM.jpeg)
महोदयोयम् तिरुवनंतपुरम् राजकीय-संस्कृत-महाविद्यालये आचार्यः अस्ति। विश्वसंस्कृत-प्रतिष्ठानस्य (संस्कृतभारती) शिक्षणविभागप्रमुखः अपि अयं महाशयः वातावरणशास्त्रे एव अनुसन्धानम् कृतवान्। प्रबन्धसंग्रहः अमरःकोशः कृषिपराशरव्याख्या तत्वोपदेशव्याख्या इत्यादिग्रन्थानां पञ्चाशदधिकलेखानां च कर्तापि भवति डा ईश्वरः।
वर्षत्रयाभ्यन्तरे एकवारमेव ज्योतिषप्रतिभापुरस्कारः दीयते। सम्प्रतिवार्तायाः सम्पादकमण्डले अङ्गम् अस्ति डा ईश्वरः।