OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 10, 2021

 कोविड्रोगव्यापनकालः छात्रेभ्यः  कौशलवर्धनाय भवतु।


  आलप्पुष़> कोविड् रोगाणुव्यापनकालः छात्रेभ्यः बहुविधचित्तसंमर्दनोद्दीपकः इति सामान्यतया दृश्यते। किन्तु अस्मिन् सन्दर्भे केचन छात्राः स्वीयकौशलवर्धनाय  प्रयत्नं कुर्वन्ति। इदानीं केरले आलप्पुष़ जनपदे चेर्त्तल सेन्ट्तेरेसास् उच्च-विद्यालयस्य ('मणप्पुरम्') छात्रा लक्ष्मी विनयः एवं अनुकरणीयार्हं कर्म कुर्वन्ती अस्ति। सा तस्य समयस्य सदुपयोगाय परित्यक्ताः पलास्तिककूपीः उपयुज्य  मनोहराणि पुष्पसस्यरोपण-युक्तानि पात्राणि निर्माति। प्रथमतया वर्णान् लेपयित्वा कूपीनाम् उपरि मुखं निर्माति। तदनन्तरं पुष्पसस्यानि रोपयन्ति च।

      एषा बालिका दशम्यां कक्ष्यायां पठति  पाठ्येषु विषयेषु अपि सा कुशला। अस्याः प्रवर्तनानि सर्वेषाम् कृते आदर्शभूतानि भवन्ति इति विद्यालयस्य प्रबन्धकेन वैदिकेन अन्टोच्चन् सि. एम्. ऐ महोदयेन उक्तम्। ईदृशेषु आह्लादप्रेदेषु प्रवर्तनेषु अपि सर्वेषां श्रद्धाभवतु इति अध्यापक-रक्षा-कर्तॄणाम् अन्तर्जालोपवेशने, छात्राणाम् ओण् लैन् कक्ष्यायां च प्रथमाध्यापिकया एलिसबत्त् पोल् वर्यया उक्तम्। इदृशप्रवर्तनेन छात्राः उत्तेजिताः भवन्तु। प्रभावशालिनः च भवन्तु इत्यपि तया उक्तम्। विगते अध्ययनसंवत्सरे अत्रत्याः छात्राः १००% उत्तीर्णतां प्रप्तवन्तः। छात्राणां बहुमुखविकासः शिक्षाप्रणाल्या भवतु इति शैक्षिकदर्शनाधिष्ठितं भवति सि एम् ऐ संस्थायाः शैक्षिकदर्शनम् इति महाप्रबन्धकः वैदिकः डा. साजु माटवनक्काट् महोदयः सम्प्रतिवार्तां प्रति अवदत्।