OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, November 11, 2022

 कुरियाक्कु मास्टर् स्मारक पुरस्कारसमर्पणम् नवम्बर् 18 तमे दिनाङ्के।

  गुरुवायूपुरम्> कुरियाक्कु मास्टर् स्मारकपुरस्कार-समर्पणं तथा स्मारकप्रभाषणं च अस्य मासस्य 18 तमे दिनाङ्के प्रातः सार्धदश वादने पुरनाटुकरा संस्कृत-महाविद्यालयपरिसरे भविता। केन्द्रीय -संस्कृतविश्वविद्यालयस्य कुलपतिः प्रोः श्रीनिवास वरखेडी वर्यः पुरस्कारसमर्पणं करिष्यति। कोषिक्कोट् विश्वविद्यालयस्य संस्कृतविभागाध्यक्षपदवीतः विरतो डा. पि नारायणन् नम्पूतिरिः भवति पुरस्कारविजेता।  25000 रूप्यकाणि, फलकं, प्रशस्तिपत्रञ्च भवति पुरस्कारस्वरूपम्।

         संस्कृत-प्रणयभाजनं पि टि कुरियाक्कु मास्टर् (पि टि कुर्याक्कोस्) पावर्टी संस्कृत-महा

विघालयस्य स्थापकः भवति। संस्कृतपण्डितेन तेन संस्थापितः महाविद्यालयः एव अद्य केन्द्रीयसंस्कृत माहाविद्यालयत्वेन पुरनाट्टुकरायां देदीप्यते।

"केरलीय संस्कृत-अध्ययनस्य धर्मेतरत्वं सार्वलौकिकत्वम् च " इति विषयमधिकृत्य कालटि श्रीशङ्कराचार्य संस्कृत -विश्वविद्यालयस्य कुलपतिवर्यस्य प्रो एम् वी नारायणस्य भाषणं च भविता।

   संस्कृत अक्कादमी अध्यक्षस्य के टी माधवस्य आध्यक्ष्ये सभैषा प्रचलिष्यति। डाः पि सी मुरलीमाधवन् वर्येण विशिष्टव्यक्तीनां परिचायनं क्रियते। गुरुवायूरु देवस्वं अध्यक्षः डा: वि के विजयन् महाविद्यालयाध्यक्षः प्रो: ललितकुमार साहु,   छात्रकल्याण-समित्याः अध्यक्ष: चन्द्रकान्त गिरिगडे, छात्रप्रतिनिधयः मणिराम ठाकूरः सुप्ता पूर्वविद्यार्थी प्रो. सी टी फ्रान्सीस् के एल् सेबास्ट्यन् डो .एम् वी नटेशः च तत्र भागं भजन्ते ।