OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 23, 2022

 बालभारती पब्लिक् विद्यालये त्रिदिवसीया संस्कृतोत्सवप्रदर्शनी सम्पन्ना


   दिल्ल्यां  सर गंगाराम  चिकित्सालय मार्ग-स्थे बालभारती पब्लिक् स्कूल इत्याख्ये  विद्यालये त्रिदिवसीय राष्ट्रिय-संस्कृतोत्सव-प्रदर्शन्या: भव्यं उद्घाटनम्  शुक्रवासरे सञ्जातम्। प्रधानाचार्यस्य श्री एल वी सहगलस्य दिङ्निर्देशे अस्यां प्रदर्शन्यां आधुनिक-विश्वस्य उद्देश्यस्य अनुरूपमेव आधुनिक-दृशा छात्राणां ज्ञानाभिवृद्धये, संस्कृतस्य अध्ययनम्प्रति तेषाम् अभिप्रेरणाय च विविधा: उपाया: प्रकल्पिताः सन्ति।  अथ च प्रदर्शन्या: औद्घाटनिकसत्रे अस्माकं प्राचीन-विद्वत्-प्रवरै: ऋषि-मुनिभिः विरचितस्य विपुल-वाङ्मयस्य संरक्षणाय चापि विचार-विमर्श-पूर्वकं प्रतिष्ठितै: विद्वद्भिः मार्गदर्शनं कृतम्। एष: कार्यक्रम: दिल्लीस्थ-प्रशासनेतर-विद्यालयेषु संस्कृत-भाषाया: संवर्धनार्थम्  विभिन्न माध्यमेन  बलवत्तरं सहयोगं प्रदाय  समेषां मार्ग-प्रशस्ती-करणम् अपि भविष्यति।अद्य यदा वयम् एकविंश्यां  शताब्द्यां वैश्वी-करणं भूमण्डलीकरणं च सम्मुखी-कुर्म: तदा अस्मिन् विचित्रे विशिष्टे च  सामाजिक-परिवेशे संस्कृतस्य का भूमिका विश्वमञ्चे भवेद् इति विषये एषः बाल भारती विद्यालय: सुबहु-स्तरीयं मानकं च कार्यं विदधाति तदन्तर्गतमेव एषा राष्ट्रिया प्रदर्शनी अपि वर्तते। 

अनेन भव्य आयोजनेन

संस्कृत-विषयाणां माहात्म्य-बोधन-पूर्वकं छात्रा: संस्कृता-ध्ययनोत्सुका: संस्कृता-ध्ययन-शीला: च भूत्वा निजोत्कर्षम् अनुभविष्यन्ति इति  तत्र समागतै: विद्वद्भिः प्रोक्तम्। 

संस्कृत-भाषा-प्रणीतानां वेद-वेदाङ्ग-उपनिषद्-ब्राह्मण-आरण्यक-धर्मशास्त्र-पुराण-इतिहास-दर्शन-योग-आयुर्वेद-शिल्प-वास्तुशास्त्र-अर्थशास्त्र-खगोल-भूगोल  चेत्यादि-विषया:  चापि तत्र प्रदर्शिता: सन्ति। अस्मिन् प्रदर्शनी कार्यक्रमे विभिन्न-विद्यालयानां संस्कृत-शिक्षकाः,  छात्रा:,  अभिभावका:,  अन्वेषका:, संस्कृता नुरागिण: च उपस्थिता: आसन्। अस्मिन् कार्यक्रमे दिल्ली विश्वविद्यालयस्य संस्कृत-विभागस्य अध्यक्ष: आचार्य: प्रोफेसर ओमनाथबिमली महोदय: प्रमुखातिथित्वेन उपस्थाय निज प्रेरक वचोभिः छात्रान् भारतीयां शिक्षा व्यवस्थां बोद्धुं प्रैरयत्।

अथ च विंशत्युत्तर-द्वि-सहस्र-तम-वर्षस्य नूतन-शिक्षानीते: अनुसारेण नवसंघटितस्य भारतीय शिक्षा बोर्ड इत्यस्य अध्यक्ष: डॉ. एन पी सिंह महोदय: अत्र संस्कृते विज्ञानम् इति विषये नैजं वैदुष्यपूर्णम् वक्तव्यं प्रदाय छात्रान् अभिप्रेरितवान्। NCERT इति परिषद: वरिष्ठः आचार्य: के सी त्रिपाठी महाभाग: विशिष्टातिथित्वेन कार्यक्रमस्य शोभां वर्धितवान्।  अस्यां प्रदर्शन्याम् संस्कृत वाङ्मये निहिता: ज्ञान-विज्ञान-अध्यात्म-नाट्य-संगीत-नृत्-योग-आयुर्वेद-चित्रकला-मूर्तिकला प्रभृतिभि: भूरि विषयै: साकं दैनिक-प्रयोग-वस्तूनिअपि संस्कृते प्रदर्शितानि आसन्। अस्या: प्रदार्शन्या: आयोजनाय  उपप्रधानाचार्या श्रीमती विनीताधवनवर्या मुख्याध्यापिका श्रीमती  नीता निझारा वर्या चापि मार्गदर्शनं कृतवत्यौ।  बाल भारती विद्यालयेन विश्वस्मिन् अपि विश्वे संस्कृतस्य प्रसाराय एका सकृतोत्सव: इत्याख्या प्रदर्शनी समायोज्यते। अथ च एषा प्रदर्शनी विंशस्त्युत्तर द्वि सहस्र तम वर्षस्य नूतनराष्ट्रियशिक्षानीते:  अनुरूपमपि अस्ति यस्मिन् भारतीय-ज्ञान-प्रणाली-सम्‍पदाया: आधुनिक-ज्ञान-प्रणाल्या: च एकीकरणे  बलम् प्रदत्तम् अस्ति।