OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 2, 2023

 महाराष्ट्रे बस् यानं निपत्य दग्ध्वा च २५ यात्रिकाः मृताः। 

मुम्बई> नागपुरात् पूणैं प्रति गच्छत् निजीयं 'स्लीपर् क्लास्' पदीयं बस् यानं मार्गे निपत्य दहनेन २५ यात्रिकाः मृत्युमुपगताः। मृतेषु त्रयः बालाः अन्तर्भवन्ति। 

    समीपकाले उद्घाटिते   नागपुरं - मुम्बई 'समृद्धि महामार्ग' अतिशीघ्रराजवीथ्यां बुल्धानस्थे पिम्पल् घुट्ट ग्रामे शनिवासरस्य प्रत्युषसि सार्धैकवादने आसीदियं दुर्घटना दुरापन्ना। ३३ यात्रिकाः आसन्। यानचालकं द्वारपालकं चाभिव्याप्य अष्ट जनाः वातायनद्वारा उत्प्लुत्य रक्षां प्राप्तवन्तः। चालकः निद्रया अभिभूतः इत्यनेनैव दुर्घटना जाता इति सन्दिह्यते। 

  मृतानां परिवारेभ्यः महाराष्ट्रस्य मुख्यमन्त्रिणा  पञ्चलक्षशः रूप्यकाणि प्रधानमन्त्रिणा द्विलक्षशः रूप्यकाणि च साहाय्यराशिः प्रख्यापितः।