OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 5, 2023

 भारतीयकला - सांस्कृतिकमूल्यानां सारांशः तथा आधारः च भवति गुरुशिष्यपैतृकमिति निता अम्बानि।

     भारतस्य सांस्कृतिकपरम्परायाः सारांशः आत्मा च गुरुशिष्यपारम्पर्यमेवेति टिलयन्स् फौन्डेषन्स् संस्थायाः अध्यक्षया निता मुकेष् अम्बान्या निगदितम्। अस्माकं राष्ट्रस्य सुसम्पन्नस्य पैतृकस्य आधारः च भवति इदम्। भारतस्य भूत - भविष्य- वर्तमानकालस्य च परस्परानुबन्धनम् अस्माभिः अनुवर्तमानानां मूल्यानां पारम्पर्यं भवति इदं इति निता अम्बान्या प्रोक्तम्। गुरुशिष्यबन्धस्य कालातीतस्य पैतृकस्य समादरणाय समारब्धायाः ' गुरुपूर्णिमा स्पेष्यल् नाम परम्परायाः कार्यक्रमे भागं स्वीकृतान् भक्तान् अभिसंबुद्ध्य भाषमाणा आसीत् इयम्। कार्यक्रमे 'अस्मिन् भागं स्वीकर्तुं भारतीय - शास्त्रीयसङ्गीतमण्डलेषु प्रसिद्धाः कलाकाराः, तस्याः प्रगल्भाः शिष्याः च नितेष् अम्बानि सांस्कृतिककेन्द्रे सम्मिलिताः। भारतस्य उत्तमं पारम्पर्यं विश्वसमक्षं प्रदर्शनीयम् इति स्वप्नस्य साक्षात्कारार्थमेव - गुरुशिष्यबन्धस्य समादरणार्थं कार्यक्रमोऽयं समायोजितः।