OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 26, 2023

उज्जयिन्यां त्रिदिवसीयराष्ट्रियशोधसङ्गोष्ठयाः शुभारम्भः

-वार्तासंयोजक:-डॉ. दिनेश: चौबे

     उज्जयिनीस्थस्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य वेदव्याकरणविभाग-दर्शनविभागयो: तथा नवदेहलीस्थभारतीयदार्शनिकानुसन्धानपरिषदः संयुक्ततत्त्वावधानेन  वैदिकभाषादर्शनमुच्चारणविज्ञानञ्च इति विषयमाश्रित्य समायोजितायाः राष्ट्रियशोधसंगोष्ठ्याः शुभारम्भः षड्विंशे दिनाङ्के प्रातः एकादशवादने महाकालमन्दिरप्राङ्गणस्थे माधनसेवान्यासपरिसरस्य सभागारे सञ्जातः। उद्घाटनसमारोहस्य शुभारम्भः वाग्देव्याः सरस्वत्याः समर्चनेन दीपदीपनेन च जातः। दीपदीपनकाले वैदिकमङ्गलाचरणं डॉ. अङ्कितसांडिल्येन, सरस्वतीवन्दना अनुरूद्धत्रिपाठिना च विहितम्। तदनु विश्वविद्यालयस्य कुलगानं समुपास्थापितम्। उद्घाटनसत्रे मुख्यातिथिरूपेण प्रदेशस्य उच्चशिक्षामन्त्रिणः डॉ.मोहनयादवमहोदयाः समुपस्थिता आसन्। महोदयेन उक्तं यत्  संस्कृतभाषया महत्त्वपूर्णज्ञानराशिः उपनिबद्धो वर्त्तते। वैदेशिका अस्या महिम्नः परिचिताः सन्ति। संस्कृतं विज्ञानस्य भाषा अस्ति। संस्कृतेनैव भारतस्य अस्तित्वम् अस्ति। सारस्वतातिथिरूपेण समुपस्थिता आसन् विक्रमविश्वविद्यालयस्य कुलपतयः प्रो. अखिलेशकुमारपाण्डेयमहोदयाः, ते उक्तवन्तो यत् संस्कृतं विज्ञानस्य जननी अस्ति, संस्कृतग्रन्थेषु नानाविधाविष्काराः तत्त्वरूपेण निहिताः वर्त्तन्ते। संस्कृतस्य ज्ञानाभावात् अस्माकं महान् हानिः सञ्जाता। अतः सम्प्रति संस्कृतम् अवश्यं पठनीयम् इति।

संगोष्ठ्यां विशिष्टातिथिरूपेण हिन्दी-ग्रन्थ-अकादमी इति संस्थायाः सञ्चालकाः डॉ. अशोककडेलमहोदयाः समुपस्थिता आसन्। वैदिककालादारभ्य संस्कृतस्य भाषावैज्ञानिकत्वं प्रतिपादितवन्तः उद्घाटनसत्रस्य मुख्यवक्तृरूपेण समुपस्थिता आसन् भारतीयदार्शनिकानुसन्धानपरिषदः सचिवाः प्रो. सच्चिदानन्दमिश्रमहोदयाः। स्वकीये बीजवक्तव्ये संस्कृतव्याकरणस्य आदिपरम्परातः शब्दतत्त्वविषये ध्वनितत्त्वविषये च विस्तृतं व्याख्यानं प्रदत्तवन्तो मिश्रमहाभागाः। सभाध्यक्षरूपेण समुपस्थितैः कुलपतिभिः सी. जी. विजयकुमाराचार्यमहाभागैः निगदितं यत् पुनः आधुनिककाले अपि संस्कृतभाषाप्रयोगस्य अनिवार्यता अनुभूयते। अस्माभि: संस्कृतभाषाव्याकरणस्य महत्त्वम् अनिवार्यरूपेण समाजस्य समक्षं प्रतिपादनीयम्। शिक्षाविषयकाः चतुस्त्रिंशत् शिक्षाग्रन्थाः सम्पूर्णानन्दविश्वविद्यालयात् प्रकाशिता इति महद्गौरवस्य विषयः। वैदिकसत्रे मुख्यवक्तृरूपेण प्रो.सदानन्द-त्रिपाठि-महोदयैः सत्रम् उद्बोधितम्, तथा प्रो.इलाघोषमहाभागाभिः सत्रस्य अध्यक्षता कृता। ततो व्याकरणसत्रे मुख्यवक्तृरूपेण प्रो.प्रदीपकुमारपाण्डेयमहोदयैः सत्रम् उद्बोधितम्, प्रो. शैलेन्द्रकुमारशर्ममहोदयैः सत्रस्य अध्यक्षता कृता। उभयसत्रे शोधपत्रवाचकाः शोधपत्रमुपस्थापितवन्तः। अस्याः राष्ट्रियशोधसंगोष्ठ्याः संयोजकेन डॉ. अखिलेशकुमारद्विवेदिमहोदयेन उद्घाटनसत्रे संगोष्ठीप्रस्तावनं स्वागतभाषणं च कृतम्। सत्रसञ्चालनं डॉ.उपेन्द्रभार्गवमहोदयेन, आभारप्रदर्शनं कुलसचिवेन डॉ. दिलीपसोनीमहोदयेन प्रस्तुतम्। संगोष्ठ्यामस्यां विश्वविद्यालयस्य शोधच्छात्राः, नगरस्य गणमान्यजनाः पत्रकाराश्च उपस्थिता आसन्। अन्तिमे कल्याणमन्त्रेण सभा समाप्ता।