OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, July 6, 2023

 गुरुपूर्णिमाया: शुभावसरे उज्जयिन्यां विशिष्टव्याख्यानं सञ्जातम् 

(डॉ.दिनेश चौबे)


बुद्धिदानेन गुरुः सन्तापहारक: सर्वार्थप्रकाशको गुरुः साक्षात् परमात्मरूपः - डा. बलदेवानन्दसागरः

गुरुः दोषान् दूरी करोति गुरुरेव ज्ञान-विनय संस्कार सदाचारादीनाम् आधानं करोति - डा. सी जी विजयकुमारः

 उज्जयिनीस्थःमहर्षिपाणिनि-संस्कृत-वैदिकविश्वविद्यालय:, मध्यप्रदेशसंस्कृतिविभागस्य त्रिवेणीपुरातत्त्वसंग्रहालय:, उज्जयिनी इत्यनयो: संयुक्ततत्तावधाने ज्ञानसंप्रेषणस्य आदर्शपद्धति: गुरु-शिष्यपरम्परा इति विषये विशिष्टव्याख्यानस्यमायोजितम् । 

    जूनमासस्य चतुर्तमे दिनाङ्के भौमवासरे त्रिवेणीसंग्रहालयस्य सभागारे अभूत्। गुरुपूर्णिमाया: शुभावसरे आयोजमानेऽस्मिन् कार्यक्रमे मुख्यातिथिरूपेण केंद्रीयसंस्कृत विश्वविद्यालयस्य कुलपतिचर: (नवदेहली) आचार्य: परमेश्वरनारायणशास्त्री विशिष्टातिथिरूपेण प्रवाचक:  डा बलदेवानन्दसागर: च उपस्थितौ आस्ताम्। कार्यक्रमोऽयं पाणिनिसंस्कृतविश्वविद्यालयस्य माननीयकुलपति: आचार्यविजय कुमारसीजीमेनन्महोदयस्य आध्यक्षत्वे अभूत्। विशिष्टातिथिरूपेण समागत: संस्कृतमनीषी डॉ. बलदेवानन्दसागरमहोदय: उक्तवान् यत् बुद्धिदानेन गुरुः सन्तापहारक: सर्वार्थप्रकाशको गुरुः साक्षात् परमात्मरूप: अस्ति। कार्यक्रमे मुख्यातिथिरूपेण उपस्थित: आचार्य: परमेश्वरनारायण शास्त्रीवर्य: प्रोक्तवान् यत् आदिगुरु: भगवान शिव: वर्तते समस्तविद्यानां प्रवर्तक: शिव: एव अस्ति।अध्यक्षरूपेणविराजमानेन कुलपतिमहोदयेन निगदितम्। यत् गुरुः दोषान् दूरी करोति गुरुरेव ज्ञान-विनय संस्कार सदाचारादीनाम् आधानं करोति। समारोहेपाणिनिविश्वविद्यालयस्य- अध्यापकाःअधिकारिणः कर्मचारिण: छात्राच्शोधच्छात्रा: पत्रकारवान्धवाश्च समुपस्थिताः आसन्। कल्याणमन्त्रेण सह सभा समाप्ता जाता।