OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 5, 2019

वार्तामुक्तकानि। 
एस् एस् एल् सि फलं श्वः।
 अनन्तपुरी >  केरले मार्च्मासे सम्पन्नायाः दशमीकक्ष्यापरीक्षायाः [एस् एस् एल् सि] फलं श्वः अपराह्ने द्विवादने प्रकाशयिष्यते। www.results.kite.Kerala.gov.in , keralapareekshabhavan.in ,
.Kerala.gov.in इत्येतेतैः सङ्केतैः   saphalam 2019 इति 'मोबाइल आप्' द्वारा च फलं ज्ञातुं शक्यते।
 वैद्यकप्रवेशपरीक्षा अद्य अपराह्ने। 
अनन्तपुरी > वैद्यक - वैद्यकानुबन्धविषयकाध्ययनक्रमाणां कृते योग्यताप्रवेशपरीक्षा [नीट् - National Eligibility cum Entrance Test] अद्य अपराह्ने द्विवादनादारभ्य पञ्चवादनपर्यन्तं विविधस्थानेषु सम्पत्स्यते। परीक्षार्थिनः मध्याह्ने १२.३० वादने परीक्षाकेन्द्रं प्राप्तुमर्हन्ति।
फोनी - मरणानि १२ ; चक्रवातः पश्चिमवंगं प्राप्तः। 
भुवनेश्वरं >  ओडीषायां संहारताण्डवं कृतवता फोनी चक्रवातेन मृतानां संख्या १२ अभवत्। पुनरधिवासप्रवर्तनानि द्रुतगत्या प्रचलति। ह्यः दुर्बलः जातः फोनी पश्चिमवंगराज्यं  प्राविशत्। अतिवृष्टिः अनुवर्तते।