OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, May 1, 2019

केरलमपि आत्मघातिनां लक्ष्यः इति रहस्यप्रकाशनम्। 
 कोच्ची >  श्रीलङ्कायां कृतम् आत्मघातिभीकराक्रमणमिव केरले अपि स्फोटनपरम्परां चालयितुं भीकराः चिन्तितवन्त इति सत्यप्रस्तावः। श्रीलङ्कास्फोटने भागभागिति सन्देहेन  एन् ऐ ए संस्थया गृहीतात् पालक्काट् प्रदेशीयात् रियास् अबूबक्कर् नामकादेव ईदृशः प्रस्तावः अभवत्। 
  कोच्चिम् अभिव्याप्य बहुषु स्थानेषु स्फोटनं कर्तुमासीत् निश्चयः। स्फोटकानां सञ्चयनाय निर्देशः कृतः। किन्तु सङ्घाङ्गेषु केषाञ्चन मतवैरुध्येन योजना न संवृत्ता। 

  कोच्यामपि अतिजाग्रता 

  कोच्ची भीकराणामागामी लक्ष्य इति गुप्तचरविभागस्य पुर्वसूचनामनुसृत्य प्रदेशस्थेषु मुख्यस्थानेषु सुरक्षां शक्तीकर्तुं निर्देशः। तीरदेशः, अन्ताराष्ट्रविमाननिलयः, कोच्ची तैलशुद्धीकरणशाला, आर्थिकमण्डलं, रिसर्व बैंक् कार्यालयः इत्यादिषु स्थानेषु सुरक्षाक्रमीकरणं तीव्रं कारितम्।