OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 4, 2019

भीतिम् उत्पाद्य फोनि ; त्रयः मृताः। 
  भुवनेश्वरं >  दशकद्वयानन्तरं भारतं मथनं कृत्वा वीजिते फोनी चक्रवाते ओडीषायां व्यापकानि नाशनष्टानि जातानि। गतदिने प्रभाते नववादने तीरनगरं पुरी प्राप्तः फणार्थकः 'फोनि' नामकः अयं १७५ कि मी प्रवेगमावहन् पुरीनगरे भुवनेशरे च सहस्रशः गृहाणि वृक्षान् च भूमौ अपातयत्। अस्य रौद्रेण त्रयाणां जनानां प्राणाः विनष्टाः अभवन्। 
   चक्रवातान्वागतायां महद्वृष्ट्यां ग्रामाः नगराणि च जलनिमग्नान्यभवन्। किन्तु चक्रवातस्य रौद्रतां पूर्वमेवाभिज्ञाय ११ लक्षं जनाः सुरक्षितस्थानानि नीताः इत्यतः जीवहानि न्यूनातिन्यूनमभवत्। 
  पुरी , भुवनेश्वारादिषु जनपदेषु विद्युत्-वार्ताविनिमय संविधानानि पूर्णतया विशीर्णानि। रेल् यानगतागतानि दिनद्वयं यावत् निरस्तानि। ओडीषा, आन्ध्रप्रदेशः, वंगः इत्येषु राज्येषु महती वृष्टिः अनुवर्तते।