OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, May 1, 2019

वार्तामुक्तकानि। 
न्याय.रामचन्द्रमेनोन् छत्तीसगढ़े मुख्यन्यायाधिपः। 
नवदिल्ली >  केरल उच्चन्यायालये न्यायाधीशः न्याय. पि आर् रामचन्द्रमेनोनः छत्तीसगढ़स्य मुख्यन्यायाधिपरूपेण नियुक्तः। 
कनकधारायज्ञाय आदिशङ्करकुलदेवतामन्दिरं सिद्धम्।
 कालटी > श्रीशङ्करस्य कुलदेवताक्षेत्रे कालटी श्रीकृष्णमन्दिरे प्रतिसंवत्सरं आघुष्यमाणः कनकधारायज्ञः मई पञ्चमदिनाङ्कादारभ्य नवमदिनाङ्कपर्यन्तं सम्पत्स्यते। तन्त्रविध्यनुसारं सज्जीकृतानि कनकधारायन्त्राणि ऐश्वर्यदेवतायाः प्राणप्रतिष्ठया सज्जीकृतानि सुवर्ण-रजतामलकानि च यज्ञमण्डपे संस्थाप्य ३२ वैदिकैः १०,००८ वारं कनकधारास्तोत्रजपैः पवित्रीक्रियन्ते। 
पुनरपि आक्रमणसाध्यता - श्रीलङ्कायां जाग्रता। 
कोलम्बो > रमदान् मासारम्भात् पूर्वं श्रीलङ्कायां पुनरपि भीकराक्रमणसाध्यता अस्तीति सूचनानुसारं राष्ट्रे अतिजाग्रतानिर्देशः कृतः। पञ्चसु  स्थानेषु आक्रमणसाध्यता अस्तीति गुप्तान्वेषणविभागस्य पूर्वसूचना। 
चतुर्थसोपाने मतदानं ६४%!
नवदिल्ली  >  लोकसभानिर्वाचनस्य चतुर्थसोपाने नवसु राज्येषु ७२ मण्डलेषु ६४% सम्मतिदायकाः स्वाधिकारं विनियुक्तवन्तः! महाराष्ट्रं, ओडीषा, केरलं, तमिल्नाट् राज्येषु मतदानप्रक्रिया समाप्ता।