OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 21, 2019

‘संस्कृतभारती’ वैश्विकं सम्मेलनम् आयोजयति।
संस्कृतभाषां जनभाषां कर्तुं निरन्त प्रयत्नरतं किञ्चन संघटनम् अस्ति ‘संस्कृतभारती’। 
   नवदिल्ली> संस्कृतभाषायाः जनभाषाकरणरूपम् एतत् उदात्तलक्ष्यं सफलीकर्तुं प्रयत्नरताः सहस्रशः कार्यकर्तारः निर्मिताः अनया ‘संस्कृतभारती’ इत्याख्यया संस्थया। तेषु कार्यकर्तृषु केचन प्रतिदिनम् एकहोरात्मकं कालम्, केचन द्विहोरात्मकं केचन त्रिहोरात्मकम् इत्येवं क्रमेण केचन चतुर्विंशतिहोरात्मकं कालम् अपि अस्मै संस्कृतकार्याय समर्पयन्तः सन्ति। इत्थं निरन्तरं प्रयत्नेन एव अधुना लोके सहस्रशः जनाः दैनन्दिनजीवने संस्कृतेन व्यवहरन्तः सन्ति । ‘संस्कृतभारती’ वर्षत्रये एकवारं सर्वेषां कार्यकर्तृणाम् किञ्चन वैश्विकं सम्मेलनम् आयोजयति। तदेव सम्मेलनं ‘वैश्विकम् अधिवेशनम्’ इति नाम्ना व्यवह्रियते । आगच्छन्तु ! अस्य वैश्विक-अधिवेशनस्य काँश्चन मुख्यबिन्दून् पश्यामः ।

संस्कृतकुटुम्बम्
 अस्मिन् अधिवेशने तादृशाः बहवः कुटुम्बजनाः आगमिष्यन्ति ये परस्परं संस्कृतेन एव सम्भाषणं कुर्वन्ति। एतादृशेषु कुटुम्बेषु लब्धजन्मनां शिशूनाम् अपि मातृभाषा संस्कृतम् एव भवति। संस्कृतम् एव मातृभाषारूपेण व्यवहरन्तः बालाः अपि अस्मिन् अधिवेशने उपस्थिताः भविष्यन्ति।
     विश्वस्य सप्तदशसु (17) देशेषु यत्र कुत्रचिदपि संस्कृतभारत्याः दायित्ववन्तः कार्यकर्तारः एव अस्मिन् अधिवेशने भागं स्वीकुर्वन्ति ।

प्रदर्शनी
अस्य अधिवेशनस्य मुख्यम् आकर्षणकेन्द्रं “प्रदर्शनी” भविष्यति। अस्याः त्रयः भागाः भविष्यन्ति –
१. आङ्ग्लशासकानाम् आगमनात् प्राग् भारते संस्कृतस्य स्थितिः कीदृशी आसीत् ?
२. आङ्ग्लशासकानाम् आगमनानन्तरं भारते संस्कृतस्य स्थितिः कीदृशी अभवत् ?
३. संस्कृतभारत्याः उद्भवस्य अनन्तरम् अस्मिन् क्षेत्रे किं परिवर्तनं जातम् ?

   अस्याः प्रदर्शन्याः दर्शनेन जनेषु ‘अस्माकं प्राचीन-गौरवस्य पुनरुद्धारः सम्भवति’ इति विश्वासः पुनः जागरितः भविष्यति। मुक्तसत्रम् रविवासरे मुक्तसत्रस्य आयोजनं भविष्यति यस्मिन् सर्वे नागरिकाः भागग्रहणं कर्तुं शक्नुवन्ति। मुक्तसत्रं विहाय अधिवेशनस्य अन्येषु सत्रेषु अभिव्यक्तेः माध्यमभाषा संस्कृतमेव भविष्यति।

संस्कृत-सम्बद्ध-पुस्तकानाम् आपणाः
     संस्कृत-सम्बद्ध-पुस्तकानाम् आपणाः अस्मिन् अधिवेशनपरिसरे भविष्यन्ति। यत्र संस्कृतप्रेमिणः पुस्तकालयप्रबन्धकाः पठनव्यसनिनः च पुस्तकक्रयणस्य महान्तम् अवसरं प्राप्स्यन्ति।
    सर्वेषां संस्कृतप्रेमिणाम् अपि मुक्तहस्तेन दानं कृत्वा प्रत्यक्षरूपेण परोक्षरूपेण वा अपि अस्मिन् अधिवेशने भागं कर्तुम् अवसरः अस्ति ।

दिनाङ्काः - 09.11.2019 तः 11.11.2019 पर्यन्तम्
स्थानम् - देहली