OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ संस्कृतेन सर्वदा व्यवहर्तुं प्रयतत - जगद्गुरु भारतीतीर्थस्वामिनः। व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 30, 2019

नरेन्द्रमोदिनः 'मनोगतम् ' इति कार्यक्रमः पुनरारब्धः
जनप्रियः कार्यक्रमः आसीत् नरेन्द्रमोदिनः मन की बात इत्येषः। आकाशवाणिद्वारा प्रसारितः अयं कार्यक्रमः विगतसर्वकारस्य (एन् डि ए) अभिमानात्‍मक -कार्यक्रमः आसीत्|  विपक्षदलीयैरपि श्लाघितः बहुवारम्।  भारतस्य विविधासु भाषासु अनूद्य कार्यक्रमः आकाशवाणि द्वारा प्रसारितः अस्ति। संस्कृतभाषायां भाषिकानुवादं कृत्वा भारतस्य वरिष्ठवार्तावतारकः डा. बलदेवानन्दसागरः स्वस्य शब्दमाधुर्येण अस्मान् श्रावितवान् च आसीत्। अस्य दृश्यरूपम् अन्तर्जाजालवाहिनिद्वारा सम्प्रतिवार्तायाः दृश्यवाहिन्यां प्रसारयति। सर्वेषां संस्कृतप्रेमिणां पुरतः सादरं समर्पये  'मनोगतम् २.०१'
संस्कृतमातरं नत्वा
सम्पादकः

'मनोगतम्’ –  २.०१ [प्रथमः भागः]   
   ‘मन की बात’ (२.o१)               प्रसारण-तिथि: - ३०-६-२०१९                                 
                  - संस्कृत-भाषान्तर-कर्ता -  डॉ.बलदेवानन्द-सागरः
            मम प्रियाः देशवासिनः, नमस्कारः | दीर्घान्तरालानन्तरं, पुनरेकवारं, भवतां सर्वेषां मध्ये, ‘मन की बात’-मनोगतम्, जन-वृत्तम्, प्रत्येकमपि जनस्य मनोगतम्, जन-मनोगतम्’- अस्य सातत्यं वयं प्रारभामहे | प्रपञ्च-बहुलेषु निर्वाचनेषु, सत्यपि कार्यबाहुल्ये, ‘मन की बात’-इत्यस्य प्रसार्य-कार्यक्रमस्य यः आनन्दः अस्ति, सः विलुप्तः आसीत् | किञ्चित् नैयून्यम् अनुभवामि स्म | आत्मीयानां मध्ये उपविश्य
, सुखदे निर्भारे च परिवेशे, त्रिंशदुत्तर-शत-कोटि-देशवासिनां कुटुम्बस्य सर्वे स्वजनरूपेण, नैक-कथाः शृण्वन्तः, ताश्च पुनरावर्त्तयन्तः भवन्तः स्मः, कदाचित्तु स्वीयानि एव वृत्तानि, स्वजनानां कृते प्रेरणादायीनि भवन्ति स्म | भवन्तः कल्पयितुं शक्नुवन्ति यद् अयं मध्यगतः कालखण्डः प्रयातः, सः केन प्रकारेण प्रयातः स्यात् | रविवासरः, मासस्य अन्तिम-रविवासरः – एकादश-वादने, ममापि प्रतीयते स्म यद् अहो, किञ्चित् न्यूनायते इति– मन्ये, भवन्तोsपि अनुभवन्ति स्म, नूनं, किमेवं वा? | कदाचिदयं, न कश्चन निर्जीवः कार्यक्रमः आसीत्| कार्यकमेsस्मिन् जीवत्वम्, आत्मीयत्वम्, मनसः चानुरक्तिः आसन्, हृदयानाम् संसक्तिः आसीत्,  अथ च, एतस्मादेव कारणात्, यः मध्यगतान्तरालः अवर्तत, सः मम कृतेsतितरां कठिनः आसीत् | प्रतिपलमहं किञ्चित् न्यूनम् अनुभवन्नासम्, तथा च, यदाहं ‘मनोगतं’ प्रसारयामि तदा, भवतु नाम, वदाम्यहं, कदाचित् शब्दाः मामकीनाः, स्वरः मामकीनः, परञ्च, कथात्र भवदीया, पुरुषार्थः भवदीयः, पराक्रमश्च भवताम् | अहन्तु केवलं, मम शब्दानां, मामकीनायाः च गिरः उपयोगं कुर्वन्नासम्, एतस्मादेव कारणात् नैनं कार्यक्रमं परञ्च भवतां सर्वेषाम् अभावं काञ्चित् शून्यतां  चानुभवन् आसम् | एकवारं तु मनसि समापन्नं यन्निर्वाचन-समाप्तेः अनुपदं, सत्वरमेव भवत्सु समुपस्थितो भवेयम् | परञ्च पुनः चिन्तितवान्– न हि, सः रविवासरीयः क्रमः सन्धारितः स्यात् | किन्तु अमुना रविवासरेण दीर्घा प्रतीक्षा कारिता |अस्तु, अन्ततः अवसरोsयं लब्धः एव | एकस्मिन् पारिवारिके परिवेशे ‘मनोगतम्’, हि लघु-लघु,  सरलं तरलं च वृत्तं, समाजे  जीवने च, यत् परिवर्तनस्य कारणं भवति, एकतः तस्येदं सातत्यं, कञ्चिद् नूतनमेव भावम् उत्पादयत्, अपरतश्च नवीनस्य भारतस्य भावनां समर्थयत् सातत्यमिदं अग्रेसरेत् | अनेके सन्देशाः विगतेषु कतिपय-मासेषु अधिगताः येषु जनाः अकथयन् यत् ते, ‘मन की बात’-इति प्रसारणस्य अभावम् अनुभवन्ति | यदाहम् एतान् सन्देशान् पठामि, शृणोमि च – एते मां प्रीणयन्ति | सुतराम् आत्मीयताम् अनुभवामि | कदाचित्तु दृढमिदं प्रतीयते यत् एषास्ति मदीया स्व-तः समष्टिं प्रति यात्रा | एषा मम, अहम्-तः वयम्-यावत् यात्रास्ति | मदर्थन्तु भवद्भिः सह ममाsयं मूक-संवादः एकतः मदीयायाः आध्यात्मिक-यात्रायाः अनुभूतेः अपि अंशः आसीत् | निर्वाचनानां व्यग्रतावसरे कथमहं, केदारनाथम् अगच्छम् इति केचन तु अनेकान् प्रश्नान् अपृच्छन् |  भवताम् अधिकारोsस्ति, भवतां जिज्ञासामपि अवगन्तुं पारयामि, तथा चाहमपि अनुभवामि यत् मदीयान् तान् भावान् भवतां समक्षं कदाचित् उपस्थापयिष्यामि, परञ्च, अद्यत्वेsनुभवामि यत् अस्यां दिशि यदि चलिष्यामि चेत्, तदा कदाचित् ‘मन की बात’-इत्यस्य रूपमेव परिवर्तिता, अत एव निर्वाचनानां व्यग्रतायां सत्यां, जय-पराजययोः सत्यपि चानुमाने, इतः परमपि मतदानम् अवशिष्टमासीत्, अहञ्च केदारनाथं प्रति प्रस्थितवान् | जनानाम् अधिसंख्यम् अत्रापि राजनीतिकम् अर्थम् अन्वेषयत् | मदर्थन्तु,  स्वेन साकं मेलनस्य सः अवसरः अवर्तत | एकतः, अहम् मामेव मेलितुं प्रस्थितः आसम् |  साम्प्रतं नाहं विस्तरेण कथयिष्यामि, परञ्च एतावत्तु अवश्यं सूचयामि यत् ‘मन की बात’-इत्यस्य अल्पविरामस्य कारणात् या शून्यता अनुभूतासीत्, केदारोपत्यकायां, तस्यां एकान्त-कन्दरायां, कदाचित् तया किञ्चित् सम्पूरयितुम् अवसरः नूनं प्रदत्तः | शेषन्तु, भवतां जिज्ञासास्ति – विचारयामि यत् कदाचित् तामपि चर्चिष्यामि | कदा करिष्यामि – तत् कथयितुं नैव पारयामि, किन्तु करिष्यामि अवश्यमेव,  यतो हि भवन्तः मयि अधिकुर्वन्ति | यथा केदार-विषये जनाः जिज्ञासितवन्तः,  तथैव भवतां कथनेषु रचनात्मक-विषयान् सबलं समुपस्थापयितुं विधीयमानान् प्रयासान् सततम् अनुभवामि | ‘मन की बात’-कार्यक्रमार्थं यानि पत्राणि आयान्ति, ये विनिवेश्याः विचाराः प्राप्यन्ते, ते दैनन्दिनेभ्यः सर्वकारीय-कार्येभ्यः नितरां भिन्नाः भवन्ति | अन्यतर-प्रकारेण भवतां पत्राण्यपि मम कृते कदाचित् प्रेरणा-कारणानि भवन्ति, कदाचिच्च ऊर्जायाः कारणानि सञ्जायन्ते | कदाचित्तु भवतां केचन शब्दाः एव, मम विचार-प्रक्रियां तीव्रां विधातुं प्रभवन्ति | जनाः,  देशस्य समाजस्य च समक्षं स्थितानि समाह्वनानि उपस्थापयन्ति, युगपदेव समाधानानि अपि परामर्शयन्ति | मयावलोकितं यत् पत्रेषु जनाः समस्यास्तु वर्णयन्ति एव, परञ्च इदमपि अत्र वैशिष्ट्यं यत् युगपदेव ते, प्रत्यक्षतो वा परोक्षतया समाधानानि अपि, काञ्श्चन परामर्शान्, काञ्चित् कल्पनां च प्रकटयन्ति | यदि कश्चन स्वच्छता-हेतोः लिखति, तर्हि अस्वच्छतां प्रति स्वीयं रोषं तु प्रकटयत्येव, किञ्च स्वच्छतायाः प्रयासान् अपि प्रशंसति | कश्चन पर्यावरणस्य चर्चां करोति, तदा तस्य पीडा तु अनुभूयते, किन्तु युगपदेव, तेन स्वयं ये प्रयोगाः विहिताः, तान् अपि असौ सूचयति - तथा च, याः कल्पनाः तस्य मनसि वर्तन्ते ताश्चापि असौ चित्रयति | अर्थात् अन्यतम-प्रकारेण समस्यानां समाधानं समाजव्यापकं केन प्रकारेण स्यात्- एतादृशीम् ईक्षां भवतां सन्देशेषु नूनमहम् अनुभवामि | ‘मन की बात’-इति प्रसारणं  देशस्य समाजस्य च कृते मुकुरवत् वर्तते | इदम् अस्मान् निर्दिशति यत् देशवासिनाम् आन्तरिकी दृढता, शक्तिः प्रज्ञा च  प्रतिभा च, तत्र न किञ्चिदपि नैयून्यम् | आवश्यकतास्ति, अस्याः दृढतायाः प्रज्ञायाः च समन्वयस्य, आभ्याम् अवसर-प्रदानस्य, अनयोः कार्यान्वयनस्य च | ‘मन की बात’-कार्यक्रमः इदमपि द्योतयति यत् देशस्य उन्नत्या, त्रिंशदधिक-शतकोटि-मिताः देशवासिनः दृढतया सक्रियञ्च आत्मानं संयोजयितुम् अभिलषन्ति, तथा चाहं तथ्यमेकं नूनं स्थापयामि यत् ‘मन की बात’-प्रसारणस्य प्रत्युत्तरे एतावन्ति पत्राणि प्राप्नोमि, एतावन्तो दूरभाषाः अधिगम्यन्ते, एतावन्तश्च सन्देशाः प्राप्यन्ते, किन्तु एतेषु परिदेवन-तत्वम् अतितरां न्यूनं भवति, तथा च, केनचित् किञ्चित् याचितं भवेत्, आत्मनः कृते वा याचितं स्यादिति,  नैतादृशं अन्यतममपि वृत्तं, विगतेषु पञ्च-वर्षेषु,  मया कदाचिद् अवगतम् | भवन्तः कल्पयितुं शक्नुवन्ति, देशस्य प्रधानमन्त्रिणं प्रति कश्चन पत्रं लिखेत्, तथा चात्मनः कृते न किञ्चिदपि याचेत, चेत् देशस्य कोटि-कोटि-जनानां भावनाः कियत्यः उच्छ्रिताः भवेयुः? यदाहं एतत्-सर्वं विश्लेषयामि –  भवन्तः किं कल्पयितुं शक्नुवन्ति? मम हृदयं कियन्तं परमम् आनन्दम् अनुभवति? कियन्तीमूर्जां चावाप्नुवन्नस्मि? भवन्तः कल्पयितुं नैव शक्ष्यन्ति यत् भवन्तः एव मां चालयन्ति, भवन्तो मां धावयन्ति,  भवन्तो मां प्रतिपलं प्राणवन्तं कुर्वन्तः सन्ति, एवं हि अयमेव सम्बन्धः यत्र काञ्चित् न्यूनताम् अनुभवन्नासम् | अद्याहम् अतितरां प्रसन्नोsस्मि | यदाहम् अन्तिमावसरे अकथयम् यत् त्रि-चतुर्मासानन्तरं वयं मेलिष्यामः, तदा जनाः अस्य वक्तव्यस्यापि राजनीतिकार्थं ख्यापितवन्तः निगदितवन्तश्च यत् अहो! मोदि-महोदयः कियान् विश्वस्तः, कियान् च प्रत्ययान्वितः |विश्वासोsयं मोदिनः न मनागपि आसीत् – अयं विश्वासः, भवतां सर्वेषां विश्वासस्य आधारः आसीत् | भवन्तः एव  आसन्, ये हि विश्वासरूपं धृतवन्तः, एतस्मात् कारणात् सहजरूपेण अन्तिमे ‘मन की बात’-प्रसारणे मया उक्तं यत् केषाञ्चन मासानाम् अनन्तरं, पुनरहं भवतः पार्श्वे आगमिष्यामि | वस्तुतस्तु, नाहम् आगतवान् – भवन्तो माम् आनीतवन्तः, भवन्तः एव माम् आरोहितवन्तः, तथा च भवन्तः एव मह्यं पुनरेकवारं प्रसारणस्य अवसरमिमं प्रदत्तवन्तः | अनया भावनया साकमेव, आगच्छन्तु, ‘मन की बात’-इत्यस्य सातत्यम् अग्रेसारयेम |
           यदा देशे आपातकालः प्रवर्तितः, तदा तस्य विरोधः केवलं राजनीतिक-वर्तुलेषु एव सीमितः नासीत्, राजनेतृषु एव सीमितः नासीत्,  काराणां द्वाराणि यावदेव, आन्दोलनं सीमितं नैवाभवत् | प्रत्येकमपि जनस्य हृदये आक्रोशः प्रावर्तत | विलुप्तस्य लोकतन्त्रस्य गहना वेदनासीत् | अहर्निशं यदा समयानुसारं भोजनं कुर्मः तदा किं नाम भवति क्षुधा - इति अवगन्तुं नैव शक्नुमः, एवमेव सामान्य-जीवने लोकतन्त्रस्य अधिकाराणाम् आनन्दः कीदृशो भवति? तत्तु तदावगन्तुं पार्यते यदा कश्चन लोकतान्त्रिकान् अधिकारान्  आच्छिनत्ति | आपातकाले,  देशस्य प्रत्येकमपि नागरिकः अनुभवति स्म यत् तस्य किञ्चित् बलाद् अपहृतमिति | यस्योपयोगं सः जीवने न कदापि अकरोत् सोsपि अपहृतश्चेत् तदा तस्य पीडा तद्-हृदये आसीत्, इदं हि तस्मात् कारणात् नैवासीत् यत् भारतस्य सम्विधानं किञ्चित् व्यवस्थापितवत्, यस्य कारणात् लोकतन्त्रमिदं विकसितम् | समाज-व्यवस्थामिमां प्रचालयितुं, सम्विधानस्यापि आवश्यकता भवति, विधीनां, नियमानां चापि आवश्यकता वर्तते, अधिकारस्य कर्तव्यस्यापि कथा प्रवर्तते किन्तु  भारतं गर्वेण वक्तुं शक्नोति यत् अस्माकं कृते, विधि-नियमेभ्यः अधिकतरं हि लोकतन्त्रम् अस्मदीयेषु संस्कारेषु वर्तते, लोकतन्त्रं नाम अस्मदीया संस्कृतिः, लोकतन्त्रं हि अस्मदीयं रिक्थम्, तद्-रिक्थम् आलम्ब्य वयं पुष्टाः वृद्धिं चापन्नाः जनाः स्मः, अत एव तस्य न्यूनतां देशवासिनः अनुभवन्ति, तथा च आपातकाले वयम् अनुभूतवन्तः, तस्मादेव देशः, आत्मनः कृते नैव, निज-हितार्थञ्च नैव, लोकतन्त्रस्य रक्षार्थं पूर्णमपि निर्वाचनमेकं आहूतवन्तः | जगति कदाचित्,  विश्वस्य केनचित् देशेन, तत्रत्यैः प्रत्येकमपि जनैः, लोकतन्त्रस्य कृते, स्वीयानाम् अवशिष्टानाम् अधिकाराणां, आवश्यकतानां चिन्तां नैव कृत्वा,  केवलं लोकतन्त्रस्य कृते मतदानं कृतं स्यात्, एतादृशमेकं निर्वाचनं, देशेsस्मिन् विगते सप्त-सप्ततितमे वर्षे अवालोकितम् | नातिचिरं लोकतन्त्रस्य महापर्व, बृहत्तमं निर्वाचनाभियानं, अस्मदीये देशे सम्पन्नम् | समृद्धाः निर्धनाः – सर्वेsपि च नागरिकाः, अस्मिन् पर्वणि सानन्दम् अस्माकं देशस्य भावि-निर्णयार्थं तत्पराः आसन् |
       यदा किञ्चित् वस्तुजातम् अस्माकं सन्निकटे भवति तदा वयं तस्य महत्त्वम् अल्पीकुर्मः, तस्य आश्चर्यकराणि तथ्यानि अपि उपेक्षितानि भवन्ति | बहुमूल्यं यल्लोकतन्त्रं वयं प्राप्तवन्तः, तं वयम् अतिसरलतया मन्यामहे किन्तु अस्माभिः, आत्मनः स्मारणं सततं कुर्वद्भिः स्थातव्यं यत् अस्मदीयं लोकतन्त्रम् अतितरां महदस्ति, तथा च, लोकतन्त्रमिदं अस्मदीयासु नाडीषु प्रतिष्ठितं वर्तते – शताब्दीयया साधनया, प्रतिवंशं प्रवर्तमानैः संस्कारैः, एकस्य विशालस्य व्यापकस्य च मनसः अवस्थया | भारते, एकोनविंशत्युत्तर-द्विसहस्रतमे वर्षे लोकसभा-निर्वाचनेषु, एकषष्टि-कोट्यधिकाः जनाः मतदानं कृतवन्तः, एकषष्टि-कोटिमिताः! आपाततः संख्या एषा अतितरां सामान्या प्रतीयते किन्तु जगतोsनुसारं यदि कथयेयं चेत्, चीन-देशमतिरिच्य, जगति कस्यापि देशस्य नागरिकेभ्यः अधिकतरैः जनैः मतदानं विहितम् | यावन्तो मतदातारः ऐषमः लोकसभा-निर्वाचनेषु मतदानं कृतवन्तः, तेषां संख्या अमेरिका-देशस्य आहत्य जनसंख्यायाः अपेक्षया अधिकतरा वर्तते, प्रायेण द्विगुणितास्ति | भारते आहत्य मतदातॄणां यावती संख्यास्ति, सा समग्र-यूरोपस्य जनसंख्यापेक्षया अधिकास्ति | इयम् अस्माकं लोकतन्त्रस्य विशालतायाः व्यापकतायाः चाभिज्ञानं कारयति | एकोनविंशत्युत्तर-द्विसहस्रतमे वर्षे सम्पन्नानि  लोकसभा-निर्वाचनानि अधुनावधि-पर्यन्तम् इतिहासे जगतः बृहत्तमं लोकतान्त्रिक-निर्वाचनमासीत् | भवन्तः कल्पयितुं शक्नुवन्ति, एतत्-प्रकारकस्य निर्वाचनस्य कार्यान्वयनार्थं कीदृशानां बृहत्-स्तरीयाणां संसाधनानां मानवशक्तेश्च आवश्यकता अभविष्यत् | लक्षशः शिक्षकाणाम्, अधिकारिणां कर्मचारिणां चाहर्निशं श्रमेण निर्वाचनमिदं सम्पन्नम् | लोकतन्त्रस्य महायज्ञमिमं सफलता-पुरस्सरं निष्पादयितुं यत्र अर्द्धसैनिक-बलानां सुरक्षाकर्मिणां प्रायेण त्रिलक्षं निज-दायित्वं निभालितवत्, तत्रैव विभिन्नानां राज्यानां प्रायेण विंशति-लक्षं रक्षि-कार्मिकाः अपि, परिश्रमस्य पराकाष्ठामाचरितवन्तः | एतेषां कठोर-परिश्रम-कारणादेव विगत-क्रमापेक्षया ऐषमः क्रमे अधिकतरं मतदानं जातम् | मतदानार्थम् अशेष-देशे प्रायेण दश-लक्षं मतदान-केन्द्राणि, प्रायेण चत्वारिंशल्लक्षाधिकानि ईवीएम्-इति वैद्युदाणविक-मतदान-यन्त्राणि, सप्तदश-लक्षाधिकानि वीवीपैट्- इति मतदातृ-प्रमाणीकरण-लेखापत्र-यन्त्राणि! किं भवन्तः कल्पयितुं शक्नुवन्ति यत् कियती बृहती विशाला च सन्नद्धता!  एतत्-सर्वं तस्मादेव कारणात् अनुष्ठितं, येन सुनिश्चितमिदं स्यात्, यत् नैकोsपि मतदाता नैज-मताधिकारात् वञ्चितो भवेत् | अरुणाचल-प्रदेशस्य अन्यतरस्मिन् विजने क्षेत्रे, केवलम् एकस्मै महिला-मतदात्रे मतदान-केन्द्रं स्थापितम् | एतज्-ज्ञात्वा भवन्तः आश्चर्यम् अनुभविष्यन्ति यत् निर्वाचनायोगस्य अधिकारिणः तत्र प्रापणार्थं दिवस-द्वयात्मिकां यात्रां विहितवन्तः – इदमेवास्ति – लोकतन्त्रस्य यथार्थं सम्माननम् | जगति सर्वाधिके उच्छ्रिते स्थाने स्थितं  मतदान-केन्द्रमपि भारते एवास्ति | मतदान-केन्द्रमिदं हिमाचल-प्रदेशे लाहौल-स्फीति-क्षेत्रे पञ्चदश-सहस्र-फीट्-मितोच्छ्रिते स्थाने स्थितं वर्तते | एतदतिरिच्य, निर्वाचनेsस्मिन् गर्व-सम्भरितम् अपरमेकं तथ्यमपि अस्ति | कदाचित्,  इतिहासे प्रप्रथममेव घटितं यत् महिलाः पुरुषान् इवैव सोत्साहं मतदानमकुर्वन् | निर्वाचनेsस्मिन् महिलानां पुरुषाणा-  ञ्च मतदान-प्रतिशतं प्रायेण समानमेवासीत् | अमुना सम्बद्धम् अपरमेकम् उत्साह-वर्धकं तथ्यमिदमेव यत् साम्प्रतं संसदि अष्ट-सप्ततिः महिला-सांसदाः सन्ति | निर्वाचनायोगं, निर्वाचन-प्रक्रियया सम्बद्धं प्रत्येकमपि जनं, भूयो भूयः वर्धापयामि  तथा च भारतस्य जागरूकान् मतदातॄन् नमामि |
         मम प्रियाः देशवासिनः, भवन्तः अनेकवारं मम मुखात् श्रुतवन्तः स्युः, ‘पुष्पगुच्छः नैव, पुस्तकम्’, ममाग्रहः आसीत् यत् किं वयं स्वागत-सत्कार-विधौ पुष्प-प्रयोगापेक्षया पुस्तकानि प्रदातुं शक्नुमः? ततः प्रभृति अनेकेषु स्थलेषु जनाः पुस्तकानि उपाहर्तुमारभन्त | नातिचिरं कश्चन मह्यं ‘प्रेमचंद की लोकप्रिय कहानियाँ’- इति पुस्तकं प्रादात् | मह्यमिदम् अरोचत | यद्यपि, नाधिकः कालो लब्धः, किन्तु प्रवासावधौ तस्य काश्चन कथाः पुनः पठितुमहम् अवसरं लब्धवान् | प्रेमचंदेन स्वीय-कथासु समाजस्य यत् यथार्थं चित्रणं कृतं, पठनावसरे तस्य छविः भवतः मनसि विरचितुमारभते | तेन लिखितं प्रत्येकमपि घटना-वृत्तं जीवदिव प्रतीयते | सहजया, सरलया च भाषया मानवीय-संवेदनाः अभिव्यञ्जयन्त्यः तस्य कथाः मम मानसमपि मार्मिकतया अस्पृशन् | तस्य कथासु समग्र-भारतस्य मनोभावः समाहितोsस्ति |  यदाहं तेन लिखितां ‘नशा’-इति कथां पठन्नासं, तदा मम मनः स्वयमेव समाजे व्याप्ताम् आर्थिक-विषमताम् आलक्ष्य विचारपूर्णमभवत् | स्वीय-युवावस्थायाः दिनानि मम स्मृति-पथि आगतानि यत् केन प्रकारेण विषयमेनम् आधृत्य आनिशं परिचर्चा प्रवर्तते स्म | भूमिपतेः पुत्रस्य ईश्वरी-त्यस्य निर्धन-कुटुम्बस्य ‘बीर’स्य चेयं कथा शिक्षयति यत् भवान् यदि सावधानं नास्ति चेत्, दुर्जन-सङ्गतेः प्रभावः कदा जनं प्रभावयतीति अवगन्तुं नैव पार्यते | अपरा कथा, या हि मम हृदयं गभीरतया अस्पृशत्, सास्ति- ‘ईदगाह’-इति, एकस्य बालकस्य संवेदनशीलता, स्वीय-पितामह्याः कृते तस्य विशुद्धं प्रेम, एतावति लघु-वयसि एतावान् परिपक्वः भावः | चतुः-पञ्च-वर्षीयः हामिदः यदा मेलातः शङ्कुलामादाय स्वीय-पितामह्याः पार्श्वे आगच्छति तदा, वस्तुतस्तु, मानवीय-संवेदना स्वीय-चरमोत्कर्षं प्राप्नोति | अस्याः कथायाः अन्तिमा पङ्क्तिः अतितरां भाव-प्रधाना वर्तते यतो हि तस्यां जीवनस्य परमं यथार्थं सन्निहितमस्ति, - “बच्चे हामिद ने बूढ़े हामिद का पार्ट खेला था – बुढ़िया अमीना, बालिका अमीना बन गई थी |”
      एतादृशी एव सुतरां मार्मिका कथास्ति - ‘पूस की रात’ |  अस्यां कथायां एकस्य निर्धन-कृषकस्य जीवनस्य विडम्बनायाः सजीव-चित्रणमवलोकयितुं शक्यते | स्वीय-शस्ये नष्टे सत्यपि हल्दू-कृषकः तदर्थं प्रसन्नो भवति, यतो हि इतः परं न तेन शैत्यातिशये काले क्षेत्रे शयनीयमिति | यद्यपि एताः कथाः प्रायेण शताब्द-प्राचीनाः सन्ति किन्तु आसां प्रासङ्गिकता, अद्यापि तावती एव अनुभूयते | आसां पठनानन्तरं, मयि एका पृथक्-प्रकारिका अनुभूतिः समुत्पन्ना |
          यदा पठनस्य प्रसङ्गः प्रवर्तते, तदाहं उल्लेखितुं वाञ्छामि यत् कदाचित् कस्मिन्चित् सञ्चार-माध्यमे, केरलस्य अक्षरा-पुस्तकालय-विषयेsहं पठन्नासम् |एतद् ज्ञात्वा भवन्तः आश्चर्यमनुभविष्यन्ति यत् पुस्तकालयोsयं इडुक्की-(Idukki)-स्थलस्य सघनारण्येषु स्थिते एकस्मिन् ग्रामे वर्तते | अत्रत्यस्य प्राथमिक-विद्यालयस्य शिक्षकः पी.के.मुरलीधरन्, तथा लघु-चायापणस्य सञ्चालकः पी.वी.चिन्नाथम्पी, - इत्येतौ, एतत्-पुस्तकालयस्य कृते अनारतं परिश्रमं कृतवन्तौ | कदाचित् एवमपि आसीत्,  यदा पोटलिकायां स्थापयित्वा निज-पृष्ठोपरि नीत्वा च पुस्तकानि अत्र आनीतानि | सम्प्रति अयं पुस्तकालयः, आदिवासि-बालैः साकमेव प्रत्येकमपि जनं अभिनवं पन्थानं प्रदर्शयति |
    गुजरात-राज्ये ‘वांचे गुजरात’-इत्यभियानमेकः सफल-प्रयोगः सिद्धः | लक्षशो जनाः प्रत्येकमपि वयोवर्गीयाः जनाः पुस्तकानां पठनस्यास्मिन् अभियाने सहभागित्वं निर्व्यूढवन्तः | अधुनातने digital-इति अङ्कीय-जगति, Google-गुरोः काले, अहं भवतोsपि साग्रहं कथयामि यत् किञ्चित् कालं स्वीये दैनन्दिने व्यवहारे संरक्ष्य भवन्तः पुस्तकानां पठनं नूनं कुर्युः इति | अवश्यमेव भवन्तः आनन्दम् अनुभविष्यन्ति | तथा च, यत्किमपि पुस्तकं भवान् पठति, तद्विषये NarendraModi App-इत्यत्र अवश्यं लिखतु येन ‘मन की बात’-श्रोतारः अपि तद्विषये ज्ञातुं शक्ष्यन्ति |
        मम प्रियाः देशवासिनः, प्रसीदामितरां यद् अस्माकं देशस्य नागरिकाः तान् विषयान् आश्रित्यापि विचारयन्ति, ये न केवलं वर्तमानस्य, अपितु भविष्यस्य कृतेsपि महत्-समाह्वानत्वेन वर्तन्ते | अहं NarendraModi App- Mygov-चेत्यत्र भवतां टिप्पण्णीः पठन्नासम्, तथा च, मयावलोकितं यत् जल-समस्यां आलक्ष्य अनेके जनाः सुबहु लिखितवन्तः | बेलगावी-स्थितः(Belagavi) पवन-गौराई, भुवनेश्वरस्य सितांशू-मोहन-परीदा, चैतौ अतिरिच्य यश-शर्मा, शाहाब-अल्ताफ-प्रभृतयः बहवो जनाः जल-सम्बद्धानि समाह्वनानि संलक्ष्य मां लिखितवन्तः | अस्मदीयायां संस्कृतौ जलस्य अतितरां महत्त्वं वर्तते | ऋग्वेदे आपःसूक्ते जल-विषये सन्दर्भितमस्ति :-
आपो हिष्ठा मयो भुवः, स्था न ऊर्जे दधातन, महे रणाय चक्षसे,
यो वः शिवतमो रसः, तस्य भाजयतेह नः, उषतीरिव मातरः |
       अर्थात्, जलं हि जीवन-दायिनी शक्तिः, ऊर्जायाः स्रोतश्चास्ति | आपः मातरः अर्थात् जलं मातृवत् अस्मभ्यं निजाशीर्वादं ददातु | स्वीयानुग्रहः अस्मत्सु सर्वदैव सन्धारयतु | जलाभावात् देशस्य अनेके प्रभागाः प्रतिवर्षं प्रभवन्ति | भवन्तः आश्चर्यमनुभविष्यन्ति यत् समग्रेsपि वर्षे वृष्ट्या यज्जलम् अवाप्यते तस्य केवलं प्रतिशतं अष्टमितो भागः अस्माकं देशे संरक्ष्यते | केवलं प्रतिशतं अष्टमितो भागः एव! साम्प्रतं हि कालः सम्प्राप्तः | अस्याः समस्यायाः समाधानं नूनम् मृगणीयम् | दृढं विश्वसिमि, वयं अन्याः समस्याः इव, जनसहभागिता-माध्यमेन, जनशक्त्या च, त्रिंशदुत्तर-शत-कोटि-देशवासिनां सामर्थ्येन, सहयोगेन सङ्कल्पेन च सङ्कटमिदम् अपि समाधास्यामः | जलस्य महत्तां सर्वातिशायिनीं परिभाव्य देशे नूतनः जल-शक्ति-मन्त्रालयः विरचितः| अमुना जल-सम्बद्धान् सर्वान् अपि विषयान् आलक्ष्य जवीयस्या गत्या निर्णयाः विधास्यन्ते | कतिपय-दिनेभ्यः प्राक् अहं किञ्चित् पृथक्तया कर्तुं प्रायतम् | अहम् अशेष-देशस्य सरपञ्चेभ्यः ग्राम-प्रधानेभ्यश्च पत्रम् अलिखम् | अहं तान् अलिखं यत् जल-संरक्षणार्थं, जल-सञ्चयार्थं च, वर्षायाः प्रत्येकमपि बिन्दुं रक्षितुं, ते ग्राम-सभायाः उपवेशनम् आयोज्य, ग्रामवासिभिः साकं समुपविश्य च विचार-विमर्शं कुर्युः | प्रसन्नतामनुभवामि यत् ते अस्मिन् कर्मणि उत्साहं प्रदर्श्य मासेsस्मिन् द्वाविंशे दिनाङ्के सहस्रशः पञ्चायतेषु कोटि-कोटि-जनाः श्रमदानं कृतवन्तः | ग्रामे ग्रामे जनाः जलस्य प्रत्येकमपि बिन्दुं सञ्चेतुं सङ्कल्पितवन्तः |

     अद्य, ‘मन की बात’-कार्यक्रमे अहम् अन्यतमस्य सरपञ्चस्य निवेदनं श्रावयितुं वाञ्छामि | शृण्वन्तु, झारखण्डस्य हज़ारीबाग-जनपदे कटकमसांडी-प्रभागे  लुपुंग-पंचायतस्य सरपञ्चः अस्मान् सर्वान् किं सन्दिष्टवान् |
         “मम नाम दिलीपकुमार-रविदासः अस्ति | जल-रक्षणार्थं प्रधानमन्त्रि-महोदयः अस्मान् पत्रं प्रेषितवान्, तदा विश्वासो नैव जातः यत् एतदर्थं प्रधानमन्त्री अस्मान् पत्रम् अलिखदिति | यदा वयं द्वाविंशे दिनाङ्के ग्रामवासिनः सर्वान् आकार्य, प्रधानमन्त्रिणः पत्रञ्च पठित्वा श्रावितवन्तः तदा ग्रामवासिनः अतितरां उत्साहिनो जाताः | जल-रक्षणार्थञ्च तडागस्य स्वच्छीकरणार्थं नूतन-तडागस्य  च निर्माणार्थं श्रम-दानं कृत्वा स्व-स्व-सहभागित्वं निर्वोढुं सन्नद्धाः जाताः | वर्षायाः आगमनात् प्राक् समुपायमेनं कृत्वा भविष्यति काले वयं जलाभावं नैव सम्मुखीकरिष्यामः | शुभमिदं सञ्जातं यत् अस्माकं प्रधानमन्त्रि-महोदयः अस्मान् समुचित-काले एव प्रबोधितवान् |” 
    बिरसामुण्डा-महाशयस्य धरा, यत्र प्रकृत्या साकं सामञ्जस्यं स्थापयित्वा निवसनं हि संस्कृतेः अङ्गत्वेन प्रवर्तते | तत्रत्याः जनाः, पुनरेकवारं जल-संरक्षणस्य कृते स्वीयां सक्रिय-भूमिकां निर्वोढुं सन्नद्धाः सन्ति | मम पक्षतः, सर्वेभ्यो ग्राम-प्रधानेभ्यः, सकलेभ्यः सरपञ्चेभ्यश्च, तेषाम् अस्यै सक्रियतायै भूयस्यः शुभकामनाः| अशेष-देशे तादृशाः अनेके सरपञ्चाः सन्ति, ये हि जल-संरक्षणस्य दायित्वं स्वीकृतवन्तः | अन्यतम-प्रकारेण सम्पूर्णस्यापि ग्रामस्य एव अयम् अवसरः सञ्जातः | एवं प्रतीयते यत् ग्रामवासिनः,  साम्प्रतं निज-ग्रामेषु, जल-मन्दिरस्य निर्माण-स्पर्धायां व्यापृताः अभवन् | यथाहं पूर्वम् उक्तवान्, सामूहिक-प्रयासैः बृहन्तो रचनात्मकाः परिणामाः अधिगन्तुं शक्यन्ते | सम्पूर्णेsपि देशे जल-सङ्कटस्य समाधान-हेतोः किञ्चित् समन्वित-रूपात्मकम् एकमेव सूत्रं भवितुं नैवार्हति | एतदर्थञ्च देशस्य पृथक्-पृथक्-भागेषु, भिन्न-भिन्न-रूपेण, प्रयासाः अनुष्ठीयन्ते | किन्तु सर्वेषां लक्ष्यम् एकमेवास्ति, तथा च, तदस्ति- जल-संरक्षणम् |
           पञ्जाब-राज्ये जल-निर्गमन-प्रणालिकाः सुव्यवस्थाप्यन्ते | अमुना प्रयासेन जलावरोधस्य समस्याः समाधीयन्ते | तेलंगाना-राज्ये [Thimmaipalli]-थिमाईपल्ली-स्थले जल-वापी-निर्माणेन ग्रामवासिनां जीवनानि परिवर्तन्ते | राजस्थाने कबीरधाम्नि,  क्षेत्रेषु विरचितैः लघु-तडागैः बृहत्-परिवर्तनं समापन्नम् | अहं तमिलनाडु-राज्यस्य वेल्लोरे (Vellore) विहितस्य अन्यतम-सामूहिक-प्रयासस्य विषये पठन्नासम्, यत्र नाग-नदीं (Naag nadhi) पुनर्जीवयितुं विंशति-सहस्रं महिलाः सम्भूय प्रयतितवत्यः | अहं गढ़वालस्य तासां महिलानां विषयेsपि अपठम्, याः मिथः सम्भूय वर्षाजल-कृषि-विषये सुतरां शोभनं कार्यं कुर्वन्ति | विश्वसिमि यत् एवंप्रकारकाः नैकविधाः प्रयासाः अनुष्ठीयन्ते, तथा च वयं सम्भूय, दृढतया प्रयासान् कुर्मः, तदा असम्भवमपि सम्भवं कर्तुं शक्नुमः | यदा जनाः सम्योजिताः भविष्यन्ति, जलं संरक्षिष्यते | अद्य ‘मन की बात’-माध्यमेनाहं देशवासिनां समक्षम् अनुरोध-त्रयं विदधामि |
           मम प्रथमोsनुरोधोsस्ति – यथा देशवासिनः स्वच्छतामभिलक्ष्य जनान्दोलन-रूपं दत्तवन्तः | आगच्छन्तु,  तथैव जल-संरक्षणार्थं एकं जनान्दोलनं प्रारभेमहि | वयं सर्वे सम्भूय जलस्य प्रत्येकमपि बिन्दुं संरक्षितुं सङ्कल्पयेम, तथा चाहं विश्वसिमि यत् जलन्तु परमेश्वरेण उपाहृतः प्रसादोsस्ति,  जलं हि स्पर्शमणेः रूपमस्ति | पूर्वं कथ्यते स्म यत् स्पर्शमणेः स्पर्शेन लौहमपि कनकायते | नूनं निगदामि,  जलं स्पर्शमणिरस्ति, तथा च, स्पर्शमणिना, जलस्य स्पर्शेन, नवजीवनं  निर्मीयते | जलस्य प्रत्येकमपि बिन्दुं रक्षितुं जागरूकताभियानम् आरभन्ताम् |  अस्मिन् जल-सम्बद्धाः समस्याः सूचयन्तु, युगपदेव, जल-संरक्षणस्य पद्धतीः प्रचारयन्तु प्रसारयन्तु च | विशेषरूपेणाहं विभिन्न-क्षेत्रीयान् विशिष्टान् महानुभावान्, जल-संरक्षणार्थं, नवाचार-युतानाम् अभियानानां नेतृत्वार्थं साग्रहं निवेदयामि | भवतु नाम सः चलचित्र-संसारो वा क्रीडा-जगत्,  भवन्तु नाम ते सञ्चार-माध्यमानाम् अस्मदीयाः सुहृद्वर्याः वा सामाजिक-सङ्घटनैः सम्बद्धाः जनाः वा स्युः सांस्कृतिक- सङ्घटनैः सम्बद्धाः जनाः, कथा-कीर्तन-कर्तारो वा भवन्तु, प्रत्येकमपि निज-निज-रीत्या अस्य आन्दोलनस्य नेतृत्वं नूनं कुर्युः | समाज-जागर्तिं विदध्युः, समाजेन सर्वान् संयोजयेयुः, समाजेन सम्भूय सन्नद्धाः स्युः |  भवन्तः पश्यन्तु, वयं निज-नेत्रभ्यामेव परिवर्तनम् अवलोकयितुं शक्ष्यामः |
            देशवासिनां समक्षं मम द्वितीयानुरोधोsस्ति | अस्माकं देशे जल- संरक्षणार्थम् अनेके पारम्परिकाः प्रकाराः शताब्देभ्यः समुपयोज्यन्ते | अहं भवतः सर्वान्, जल-संरक्षणस्य तान् पारम्परिकान् प्रकारान् संविभाजयितुं साग्रहं निवेदयामि |  भवत्सु कश्चन यदि, पूज्य-बापू-वर्यस्य जन्म-स्थानं पोरबन्दरं गच्छति चेत्, तदा पूज्य-बापू-चरणस्य गृहस्य पश्चवर्तिनि भागे एव अपरमेकं गृहमस्ति, तत्र, द्विशत-वर्ष-प्राचीना जलवापी (Water Storage Tank) वर्तते | अद्यापि तस्यां जलं वर्तते, तथा च, वर्षायाः जलावरोधस्य व्यवस्थास्ति, अत एवाहं, सततं कथयन्नासं यत् यः कश्चन अपि कीर्ति-मन्दिरं गच्छेत्, सः नूनं तां जलवापीमवलोकयेत् | एतादृशाः अनेकविधाः प्रयोगाः प्रति-स्थलं भवितारः |
           भवतां सर्वेषां समक्षं मम तृतीयानुरोधोsस्ति | जल-संरक्षण-दिशि महत्वपूर्ण-योगदान-कर्तॄणां, स्वयंसेवि-संस्थानां, क्षेत्रेsस्मिन् कर्मनिरतानां प्रत्येकमपि जनानां, सञ्चित-सूचनाः, भवन्तः संविभाजयन्तु येन हि, जलस्य कृते सुतरां समृद्धानां समर्पितानां, सक्रिय-सङ्घटनानां, जनानां चैको दत्तकोषः[database] सन्नद्धीभवेत् | आगच्छन्तु, वयं जल-संरक्षणेन सम्बद्धानाम् अधिकाधिकानां प्रकाराणां सूचीमेकां विरचय्य जनान् जल-संरक्षणार्थं सम्प्रेरयेम|  भवन्तः सर्वेsपि #JanShakti 4JalShakti- इति  हैशटैग-समुपयोगं कृत्वा स्वीयं विवरणं सम्विभाजयितुं शक्नुवन्ति|
          मम प्रियाः देशवासिनः, अन्यस्यापि एकस्य वृत्तस्य कृतेsहं भवतां, जगतः सर्वेषां जनानामपि कार्तज्ञ्य-ज्ञापनं कर्तुं वाञ्छामि | जून-मासे एकविंशे दिने पुनरेक-वारं योग-दिवसे सक्रियतया, उत्साहेन च, एकैक-कुटुम्बस्य तॄणां चतुर्णां च वंशानां जनाः, सम्भूय आगत्य च योग-दिवसमायोजितवन्तः | Holistic Health Care –समग्र-स्वास्थ्य-परिचर्यायै या हि जागरूकता अधिगतास्ति, तया योग-दिवसस्य माहात्म्यमेधमानं प्रवर्तते | विश्वस्मिन् विश्वे प्रतिकोणं, सूर्योदय-समकालमेव यदि कश्चन योग-प्रेमी, आदिदेवस्य सूर्यस्य स्वागतं करोति चेत्तदा सूर्यस्य अस्तङ्गमनकाले यात्रैषा पूर्णतां याति | कदाचिदेव जगति किञ्चित् स्थलं तादृशं स्यात्,  यत्र मानवो भवेत् तथा च, योगेन संयुक्तो नैव स्यादिति, एतावत् व्यापकं बृहच्च रूपं, योगेन सन्धारितमस्ति | भारते, हिमालयात् हिन्द-महासागरं यावत्, सियाचिन-तः समुद्रान्तर्वर्ति-नौपोत-पर्यन्तं, वायु-सेनातः वायुयान-वाहक-पर्यन्तं, वातानुकूलित-व्यायाम-शालातः निदाघ-संतप्त-मरुभूमि-पर्यन्तं, ग्रामेभ्यः आरभ्य महानगराणि यावच्च–  यत्रापि सम्भवमासीत्, तादृशे प्रतिस्थलं न केवलं योगाभ्यासः साधितः, परञ्च सामूहिक-रूपेण सहर्षञ्च योगाभ्यासः आमानितः |
       Twitter-इत्यत्र मह्यं प्रदर्शितं यत् विश्वस्य अनेकेषां देशानां राष्ट्रपतयः, प्रधानमन्त्रिणः, प्रसिद्धाः विशिष्टाश्च जनाः, सामान्याः नागरिकाः च, स्व-स्व-देशेषु केन प्रकारेण योगाभ्यासं कृतवन्तः | तस्मिन् दिने, जगदिदं प्रसन्नं बृहद्-कुटुम्ब-वत् अवालोक्यते स्म |
       वयं सर्वे जानीमः यत् स्वस्थ-समाजस्य निर्माणार्थं सम्वेदनशीलानां जनानाम् आवश्यकता भवति, योगश्च इदमेव सुनिश्चितीकरोति | अतः योगस्य प्रचारः प्रसारश्च समाज-सेवायाः महत्-कार्यमस्ति | किम् एतादृश्यै सेवायै मान्यतां दत्त्वा सा नैव सम्माननीया वा? ऐषमः योगाचरणस्य समुन्नति-विकासयोः उत्कृष्ट-योगदानार्थं प्रधान-मन्त्रिणः पुरस्कार-घोषणा, मत्कृते सुतरां महती तोषप्रदा घटनास्ति | एते पुरस्काराः अशेष-जगतः तेभ्यः सङ्घटनेभ्यः प्रदताः येषां विषये भवद्भिः कल्पितमपि नैव स्यात् यत् ते केन प्रकारेण योगस्य प्रचाराय प्रसाराय च महत्वपूर्णं योगदानं विहितवन्तः| उदाहरणार्थं, ‘जापान-योग-निकेतनेति’-स्वीकुर्मः, येन योगाभ्यासः, पूर्णेsपि जापाने लोकप्रियो विहितः| ‘जापानयोग-निकेतनम्’- तत्रत्यानि अनेकानि संस्थानानि, प्रशिक्षण-पाठ्य-क्रमान् च सञ्चालयति, आहोस्वित् इटली-देशस्य सुश्रीः अन्टोनीटा-रोज़्ज़ी-इत्यस्याः अभिधानं स्वीकरोतु, या हि ‘सर्वयोग-इंटरनेशनल’-संस्थानम् आरभ्य कृत्स्नेsपि यूरोप-खण्डे योगाभ्यासस्य प्रचारं प्रसारञ्च व्यदधात्| इदम् स्वस्मिन्नेव प्रेरकमुदाहरणमस्ति | यदि एतत् योगाचरणेन सम्बद्धः विषयोsस्ति चेत्, तर्हि किं भारतीयाः एतस्मिन् पश्चवर्तिनः भवेयुः? मुंगेरस्य ‘बिहारयोग-विद्यालयः, अयमपि सम्मानितः, विद्यालयोsयं विगतानेकेभ्यः दशकेभ्यः, योगाचरणाय समर्पितोsस्ति | एवं हि, स्वामिराजर्षि-मुनिः अपि सम्मानितः| सः life mission-इत्यस्य lakulish yoga-विश्वविद्यालयस्य च स्थापनामकरोत्| योगस्य व्यापकोत्स्वीकरणं योग-सन्देशस्य च प्रतिगृहं प्रापकाणां सम्माननं चेति द्वाभ्यामपि योग-दिवसोsयं विशिष्टीकृतः |
         मम प्रियाः देशवासिनः, अस्मदीया यात्रैषा अद्यारभते | नूतनो भावः, नवीना अनुभूतिः, नूत्नः सङ्कल्पः, अभिनवं सामर्थ्यम्, परम् ओमिति, अहं भवतां परामर्शान् प्रतीक्षिष्ये | भवतां विचारैः साकम् आत्मनः संयोजनं हि मम कृते अतितरां महत्वपूर्णा यात्रास्ति | ‘मन की बात-’’मनोगतन्तु निमित्तमेवास्ति| आगच्छन्तु, वयं मिलन्तो भवेम, सम्भाषणञ्च करवाम | भवतां भावानां श्रवणं कुर्याम्, एतान् संरक्षेयम्, अवगच्छेयञ्च | कदाचिच्च तान् भावान् जीवितुं प्रयतेयम् | भवताम् आशीराशिः सर्वदा सन्धारितो भवेत् | भवन्तः एव मदीया प्रेरणा, भवन्तः एव मामकीनी ऊर्जा | आगच्छन्तु, सम्भूय समुपविश्य च ‘मन की बात’-प्रसारणस्य आनन्दम् उपभुञ्जानाः जीवनस्य दायित्वानि अपि निभालयन्तः अग्रेसरेम | पुनरेकवारम् आगामिनि मासे ‘मन की बात’-कार्यक्रमार्थं मेलिष्यामः | भवद्भ्यः सर्वेभ्यो मदीयाः भूयान्सः धन्यवादाः |   नमस्कारः |
                    *****  *****                           
                        ---     भाषान्तर-कर्ता -   डॉ.बलदेवानन्द-सागरः                         
                                   दूरभाषः -   ९८१० ५६२२ ७७                       
                       अणुप्रैषः  - baldevanand.sagar@gmail.com