OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, June 4, 2019

अन्तर्जालचौर्यं; सर्वोच्च-न्यायालयस्य भूतपूर्व न्यायाधिपः वञ्चितः। 
   नवदिल्ली> अन्तर्जालचाैर्येण भारतस्य सर्वोच्च-न्यायालयस्य  भूतपूर्व न्यायाधिपः अपि पीडितः अभवत्। पूर्व न्यायाधिपाय आर् एम् लोधामहाभागाय लक्षं रूप्यकाणं नष्टम् अभवत्। महोदयस्य मित्रस्य न्यायाधीशस्य बि पि सिंहस्य विद्युत्पत्रसुविधा स्वायत्तीकृत्य आसीत् चोरणं प्रवृत्तम्।  मेय् १९ दिनाङ्के रात्रौ बि पि सिंहस्य इमैल् सन्देशः लब्धः। सन्देशे बन्धोः आतुरालयचिकित्सार्थं लक्षं रूप्यकाणि आवश्यकानि शीघ्रं प्रेषणीयानि इत्यासीत्। वित्तलेख सङ्ख्या अपि प्रेषिता आसीत्। लोधावर्यः द्विवारं ५०००० रूप्यकाणि इतिक्रमेण प्रेषितवान् ।  
पश्चात् मेय् ३० दिनाङ्के  बि पि सिंहस्य ई पत्रं पुनः आगतम्। तदानीमेव तस्करेण वञ्चितः इति सः ज्ञातवान्।  घटनायां दिल्लीस्थ आरक्षकविभागेन प्रक्रमः स्वीकृतः।