OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ संस्कृतेन सर्वदा व्यवहर्तुं प्रयतत - जगद्गुरु भारतीतीर्थस्वामिनः। व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 26, 2021

 मनोगतम् [०२.२३]- ७६-उपाख्यानम् ‘मनकीबात’,प्रसा. तिथि:२५’एप्रिल्,२१                                          

     [भाषान्तरम् – डॉ.श्रुतिकान्तपाण्डेयेन सम्भूय बलदेवानन्द-सागर-द्वारा]

                               *****

  मम प्रियाः देशवासिनः, नमस्कारः । अद्य भवद्भिः साकं ‘मनकीबात’-‘मनोगतम्’, एतादृशे काले सम्विभाजयामि यदा कोरोना-सङ्क्रमणम्, अस्माकं सर्वेषां धैर्यम्, दुःख-सहन-सीमानं च परीक्षते। अस्मदीयेषु बहुसंख्यम्, अस्मान्, अकाले एव परित्यज्य प्रयातम्। कोरोना-महामार्या ते अस्मत्तः आच्छिन्नाः । कोरोना-सङ्क्रमणस्य प्रथमायाः वीच्याः साफल्य-पुरस्सरं साम्मुख्यानन्तरं देशः उत्साह-भरितः आसीत्, आत्मविश्वास-समन्वितः अवर्तत, किञ्च अमुना झञ्झावातेन देशः सन्ताडितः। 

  सखायः, विगतेषु दिनेषु एतत्-संकट-परिहारार्थं, विभिन्नानां क्षेत्राणां, विशेषज्ञैः साकं दीर्घा चर्चा सञ्जाता । अस्माकम् औषधोद्योगानां जनाः स्युः, सूच्यन्तःप्रवेश्यौषध-निर्मातरो वा भवेयुः, आहोस्वित् oxygen-उत्पादनेन सम्बद्धाः जनाः वा चिकित्साक्षेत्रस्य निष्णाताः स्युः, ते नैजान् महत्वपूर्णान् परामर्शान् प्रशासनाय प्राददुः । कालेsस्मिन्, अस्माभिः युद्ध- मेतत् जेतुं, निष्णातानां वैज्ञानिकानां च परामर्शेभ्यः प्राथमिकता प्रदेया । राज्यप्रशासनानां प्रयत्नान् अग्रेसारयितुं भारत-सर्वकारः पूर्णशक्त्या संलग्नः । राज्य-प्रशासनानि अपि स्वीय-दायित्वं निभालयितुं सर्वात्मना प्रयतन्ते ।    

 सखायः, कोरोना-प्रकोपं विरुद्ध्य कालेsस्मिन् देशस्य चिकित्सकाः स्वास्थ्य-कर्मिणः च बृहत्-युद्धं कुर्वन्ति । विगतैकवर्षे अस्य व्याधेः विषये ते प्रत्येक-प्रकारकम् अनुभवमपि कृतवन्तः । अस्माभिः साकं, साम्प्रतं, मुम्बय्याः प्रसिद्धः चिकित्सकः डॉ.शशांकजोशी अपि आत्मानं संयोजयति । 

 डॉ.शशांकः कोरोना-उपचारस्य, अमुना सम्बद्धस्य अन्वेषणस्य च मौलिकम् अनुभवं सन्धारयति, असौ Indian College of Physicians - इति महाविद्यालयस्य अधिष्ठाता अपि अवर्तत । आगच्छन्तु, डॉ.शशांकेन सम्भाषामहे  -

मोदीजी – नमस्कारः,  डॉ.शशांक! 

डॉ.शशांकः – नमस्कारः, महोदय! 

मोदीजी – नातिचिरं भवता सम्भाषितुम् अवसरः लब्धः आसीत् । भवतः विचाराणां स्पष्टता मह्यम् अतितराम् अरोचत । मामेतत् प्रतीतं यत् देशस्य सर्वेsपि नागरिकाः भवतः विचारैः अवगताः स्युः । यानि वृत्तानि श्रूयन्ते तान्यहं प्रश्नरूपेण अत्रोपस्थापयामि । डॉ.शशांक! भवन्तः सर्वे साम्प्रतम् अहर्निशं जीवनस्य रक्षाकर्मणि संलग्नाः सन्ति, सर्वप्रथमं त्वहं वाञ्छामि यत् भवान् कोरोना-सङ्क्रमणस्य द्वितीयायाः वीच्याः विषये जनान् सूचयतु । चिकित्सकीय-दृशा इयं केन प्रकारेण पृथक् वर्तते? अथ च, किं किम् अवधानम् आवश्यकम्, तथा च, कठिनेsस्मिन् काले वयं केन प्रकारेण रचनात्मिकां प्रवृत्तिं सन्धारयितुं शक्नुयाम?  

डॉ.शशांकः – धन्यवादः महोदय! अयं यो द्वितीयः कोरोना-प्रवाहः आगतः, सो हि रंहसा आगतोsस्ति, अतः यावान् प्रथमः प्रवाहः आसीत्, तदपेक्षया अयं विषाणुः अतिरंहसा प्रचलति, परञ्च सुखदं वृत्तन्तु इदमेव यत् तदपेक्षया जवीयस्या गत्या पुनः स्वास्थ्यलाभः अपि अवाप्यते, मृत्युमितिश्चापि न्यूनतरास्ति । अस्मिन् च अन्तर-द्वयं वा त्रयं वर्तते, प्रथमन्तु युवजनेषु बालेषु चापि एतत् सङ्क्रमणम् ईषत् परिलक्ष्यते । पूर्वं यत् लक्षणमासीत् - श्वासावरोधः, शुष्क-कासः, ज्वरः – एतानि लक्षणानि तु सन्त्येव, युगपदेव ईषत् गन्धावरोधः, स्वादापगमः चापि स्तः । तथा च, जनाः किञ्चित् भीताः अपि सञ्जाताः । न मनागपि भीतिरस्तु । जनानां प्रतिशतं अशीतिमितं नवतिमितं वा न किमपि लक्षणं द्योतयति, mutation-इति यत् विक्रियाविषये वदन्ति, ततः भीतिः मास्तु । एतादृशीनि उत्परिवर्तनानि तु भवन्त्येव, यथा वयं वासान्सि परिवर्तयामः, तथैव विषाणु- रपि स्वीयं वर्णं विपरिवर्तयति, अत एव मनागपि भीतेः वृत्तं नास्ति, तथा च, वयं सङ्क्रमण-प्रवाहमेनम् अतिक्रमिष्यामः ।  सङ्क्रमण-प्रवाहः आयाति प्रयाति च, तथैव विषाणवोsपि आयान्ति प्रयान्ति च, तर्हि एतानि एव विभिन्नानि लक्षणानि सन्ति, चिकित्सकीय-दृष्ट्या अस्माभिः नूनं सावधानैः भाव्यम् । अन्यतरत्तु, चतुर्दशतः एकविंशतिः दिनानि यावत् इयं covid-समय-सारणी वर्तते – अस्मिन्नवधौ वैद्यस्य परामर्शः स्वीकर्तव्यः । 

मोदीजी – डॉ.शशांक! मम कृतेsपि भवता यद् विश्लेषितम्, अतितरां रुचिकरं वर्तते, अहम् अनेकानि पत्राणि अवाप्नवम्, येषु उपचारविषयेsपि जनानां बहुविधाः आशङ्काः वर्तन्ते, केषाञ्चन औषधानाम् अभियाचनानि समधिकानि सन्ति, अतोsहं अभिलषामि यत् covid-सङ्क्रमणस्य उपचारविषयेsपि भवान् जनान् अवश्यमेव सूचयतु । 

डॉ.शशांकः – एवं महोदय! जनाः clinical-treatment इति नैदानिकम् उपचारम् अतिविलम्बे- न प्रवर्तयन्ति, तथा च, रोगः स्वयमेव उपशमितो भवितेति विश्वसन्ति, अथ च, जङ्गम-दूरभाषोपरि अधिगम्यमानेषु वृत्तेषु विश्वसन्ति, यदि एते प्रशासनेन प्रदत्ताः सूचनाः अनुसरन्ति चेत् काठिन्यानि नैव सम्मुखम् आयान्ति । तर्हि covid-सङ्क्रमणे clinic treatment protocol - निदानोपचार-संवित् वर्तते, तस्यां त्रिप्रकारिका तीव्रतास्ति, ईषत् वा अतीव्र-कोविड्, मध्यमं वा अल्पं कोविड् तथा च तीव्रं covid-सङ्क्रमणं यद्धि severe-covid – उग्रं covid-सङ्क्रमणम् इत्युच्यते, तदेव एतदस्ति । तर्हि यद्धि अतीव्र-कोविड् अस्ति तदर्थं वयं oxygen-निभालनं कुर्मः, pulse-इति नाडीस्फुरणं वीक्षामहे, ज्वरम् अनुवीक्षामहे, ज्वरं वर्धते चेत् कदाचित् Paracetamol-सदृशौषधं वयं प्रयुञ्जामहे तथा च, स्वीय-चिकित्सकः नूनं सम्पर्कणीयः, यद्धि मध्यमं वा अल्पं कोविड् तथा च तीव्रं covid-सङ्क्रमणं भवति चेत् स्वीय-चिकित्सकः नूनं सम्पर्कणीयः । समुचितानि अल्पार्घाणि चौषधानि उपलभ्यन्ते । एतेषु यानि steroids-इति रासायनिकौषधानि सन्ति, तानि जीवनं रक्षितुं शक्नुवन्ति,   यानि inhalers-इति श्वासित्राणि दातुं शक्नुमः, tablet- इति गुलिकां दातुं पारयामः, युगपदेव प्राणवायु-प्रदानमपि आवश्यकं भवति । एवं हि एतदर्थं लघवः अल्पाश्च समुपायाः सन्ति, परञ्च प्रायेण किं संजायमानमस्ति यत् एकम् नवीनं प्रयोगात्मकम् औषधं वर्तते, तस्य नामास्ति- Remdesivir. अमुना औषधेन अन्यतम-लाभो नूनं भवति यत् अस्य प्रयोगेण चिकित्सालये दिनद्वयं वा दिनत्रयं न्यूनं स्थातव्यं भवति तथा च, नैदानिक–स्वास्थ्य-लाभार्थं किञ्चित् साहाय्यं भवति । एतदौषधमपि तदैव प्रभवति यदा आरम्भिकेषु नव वा दश दिनेषु प्रदीयते, तथा च, एतत् पञ्च-दिनार्थमेव प्रदीयते, तर्हि  ये जनाः Remdesivir-औषधम् अनुधावन्ति, सुतरां तैः एवं नैव कर्तव्यम् । कार्यमिदम् औषधस्य एव नास्ति, ये प्राणवायुम् अपेक्षन्ते, ये चिकित्सालये प्रविष्टाः सन्ति, तैः चिकित्सकस्य कथनानुसारेण एव व्यवहर्तव्यम् । सर्वेsपि एतद् अवगच्छन्तु – इत्यस्ति परमावश्यकम्। वयं प्राणायामं करिष्यामः, अस्माकं शरीरस्य lungs-इति फुप्फुसं किञ्चित् विस्तारयिष्यामः, तथा च, heparin-इति रक्तस्य तनूकरणार्थं सूच्यौषधं स्वीकरिष्यामः च । एतानि लघु-लघूनि औषधानि दास्यामः चेत् प्रतिशतं अष्टनवतिमिताः जनाः स्वस्थाः भवन्ति, अतः सकारात्मिका मनोवृत्तिः अतितराम् आवश्यकी वर्तते । उपचार-संवित् नूनं वैद्यस्य परामर्शानुसारेण स्यात् । अन्यानि च यानि महार्घाणि औषधानि सन्ति तेषाम् अनुधावनं न मनागपि आवश्यकम्, महोदय! अस्माकं पार्श्वे समुचिताः उपचाराः प्रवर्तन्ते, प्राणवायुरपि अस्ति, ventilator-इति वायु-व्यजनानामपि सौविध्यं विद्यते, सर्वमपि अस्ति, महोदय! तथा च, कदाचित् एतानि औषधानि यदि अधिगम्यन्ते चेत्तदा योग्य-जनेभ्यः एव प्रदेयानि । एतदर्थं सुबहु भ्रमः प्रसारितोsस्ति, अतः एतद्विषयकं स्पष्टीकरणमिदं दातुं वाञ्छामि, महोदय! यत् अस्माकं पार्श्वे विश्वस्य उत्कृष्टः उपचारः उपलब्धोsस्ति । भवान् अवलोकयिष्यति यत् भारते उत्कृष्टा पुनःस्वास्थ्यलाभ-मितिः वर्तते । भवन्तः यदि यूरोप-अमेरिका-देशैः सह तुलनां करिष्यन्ति, तर्हि ततः एव अस्माकम् उपचारसंविदा रोगिणः पुनः स्वास्थ्यलाभम् अवाप्नुवन्ति, महोदय! 

मोदीजी – डॉ.शशांक! भवते भूयो भूयो धन्यवादः । डॉ.शशांकेन याः सूचनाः अस्मभ्यं प्रदत्ताः ताः नितराम् आवश्यक्यः, तथा चास्माकं सर्वेषां कृते कार्यसाधिकाः भविष्यन्ति। 

सखायः, ममाग्रहः वर्तते यद्भवद्भिः यदि किंचिदपि ज्ञातव्यं स्यात् आशंका वा भवेत्तर्हि 

समीचीनस्रोतोभिः सूचनाः अवाप्तव्याः। ये भवतां पारिवारिक-चिकित्सकाः प्रतिवेशिभिषजाः वा स्युः, तैः साकं दूरभाषेण परामर्शः कर्तव्यः। अहं पश्यामि यदस्माकं बहवः चिकित्सकाः स्वयमपि एतद्दायित्वं उद्वहन्ति। नैके चिकित्सकाः सामाजिकमाध्यमैः जनेभ्यः सूचनाः प्रसारयन्ति। दूरभाष-व्हाट्स्अपादिभिश्च निर्देशनं कुर्वाणाः सन्ति । नैकेषां  चिकित्सालयानां जालवाहिन्यः सन्ति यत्र सूचनाः उपलब्धाः सन्ति, जनाश्च चिकित्सकानां परामर्शमपि गृहीतुं शक्नुवन्ति । एतत्सर्वम् अतीव प्रशंसनीयमस्ति। 

     साम्प्रतं अस्माभिः साकं श्रीनगरतः डॉ.नावीद-नज़ीरशाहः आत्मानं संयोजयति । डॉ.नावीदः श्रीनगरस्य शासकीय-चिकित्सा-महाविद्यालये आचार्यत्वेन कार्यं करोति । तेन हि स्वीय-पर्यवेक्षणे अनेके कोरोनारोगिणः उपचारिताः । रमज़ानस्य अस्मिन् पवित्रमासेऽपि डॉ. नावीदः स्वीयदायित्वं सुबहु निभालयति। अस्माभिस्साकं सम्भाषणार्थं तेनावसरः प्रापितः। आगच्छन्तु तेन सम्भाषामहे  -

मोदीजी – नावीदमहोदय! नमोनमः।

डॉ.नावीदः – नमस्ते, माननीय!

मोदीजी - डॉ.नावीद! ‘मनकीबात’-प्रसारणस्य अस्माकं श्रोतृभिः अस्मिन्दुष्काले संभ्रम-प्रबन्धनविषये प्रश्नाः उत्त्थापिताः। भवान् स्वीयानुभवैः कथं तान्समाश्वासयिष्यसि? 

डॉ.नावीदः - पश्यन्तु, यदा कोरोना आरभत, तदा काश्मीरे अस्माकं नगरीयचिकित्सालयः प्रथम-कोविड्-रुग्णालयत्वेन निर्धारितः यो हि चिकित्सा-महाविद्यालयाधीनः अवर्तत। तत्समये सर्वत्रैव भयाशंकासमन्वितः परिवेशः प्रावर्तत। जनाः कोविड्-संक्रमणं मरणादेशमिव अवगच्छन्ति स्म। अस्माकं चिकित्सालयेऽपि ये भिषज्ञाः उपचिकित्साकर्मिणश्च कार्यरताः आसन् तेऽपि भयत्रस्ताः अवर्तन्त यद्वयं कथं संक्रमितान् परिचारयिष्यामः, अस्मास्वपि संक्रमणस्याशंका तु नास्ति इति। परं समयान्तरालेन अवगतं यद्यदि वयं प्रतिरक्षोपायानां सम्यगाचरणं विधास्यामः तावन्न केवलं स्वयं सुरक्षिताः भविष्यामः परमन्ये कार्मिकाश्चापि परिरक्षिताः स्थातुमर्हन्ति। अस्माभिः दृष्टं यत्केचन संक्रमिताः लक्षणहीनाः आसन् येषु रोगस्य किमपि लक्षणं प्रत्यक्षं नासीत्। प्रायः प्रतिशतं नवति-पंचनवति-मिताः जनाः भेषजं विनैव स्वस्थाः भवन्ति। एतेन कोरोनाभीतिः पर्याप्तरूपेण अपाकृता । अद्य द्वितीयचरणात्मके संचारि-रोगचरणेsपि संत्रासस्य आवश्यकता नास्ति । याः अपि स्थापिताः मानक-रोगापवारण-प्रक्रियाः सन्ति याषु मुखावरणं, हस्त-निष्कीटीकरणं, सामाजिक-दूरत्वम् अथवा जनसंकुलपरिहरणं चेति प्रमुखाः; एतेषां पालनं करवाम तर्हि स्वीयदैनिक-दायित्वानां निर्वहणमपि निष्कण्टकं कर्तुं पारयाम, रोगाच्चैतस्मात् सुरक्षामपि अवाप्स्यामः। 

मोदीजी - डॉ.नावीद! सूच्यौषध-विषयेऽपि जनानां नैके प्रश्नाः सन्ति। यथैतेन कियती सुरक्षा अवाप्स्यते। सूच्यौषध-सेवनानन्तरं कियत् समाश्वासनं भवति। अस्मिन् विषयेsपि  कथयतु, श्रोतॄणां बहुलाभः भविष्यति। 

डॉ.नावीदः - यदा कोरोना-संक्रमणं प्रथमं समागतं तदा अस्मत्सकाशं कोविड-ऊनविंशतिः इत्यस्य कृते कोऽपि प्रभाविचिकित्साविधिः उपलब्धः नैवावर्तत। साम्प्रतं सुरक्षोपायैः साकं सूच्यौषध-प्रयोगेण चापि रोगोपशमनं सम्भाव्यं जातम् । अद्यास्माकं देशे सूच्यौषध-द्वयं कोवैक्सीन्-कोविशील्ड- चोपलब्धं यद्धि स्वदेशनिर्मितमस्ति । एतयोर्निर्मातृसमवायैः यत्परीक्षणमाचरितं तस्यानुसारेण एतयोः प्रभाविप्रतिशतं षष्टितः अधिकतरमस्ति । यदि वयं जम्मूकाश्मीरविषये कथयामः तर्हि अस्मिन् केन्द्रशासितप्रदेशे आसाम्प्रतं पंचदशतः षोडशलक्षमितैः जनैः सूच्यौषधं सेवितम् । सामाजिकमाध्यमेषु अस्य पार्श्व-प्रभावविषये याः अपि मिथ्यावधारणाः संभ्रमाः वा अवर्तन्त तेषु कोऽपि दुष्प्रभावः नैवावाप्तः। यत्कि- मपि प्रायशः केनापि सूच्यौषधेन साकं वर्तते - यथा ज्वरागमनं, देहपीडनं, सूचिस्थलपीडा चेत्यादयः एव पार्श्व-प्रभावाः अस्माभिः प्रत्येकं रोगिणि अनुभूताः । कोऽपि गभीरदुष्प्रभावः आसाम्प्रतं नैव परिलक्षितः। अन्यतः, जनेषु एषापि आशंकाऽवर्तत यत्सूच्यौषधस्य सेवना- नन्तरं जनाः संक्रमिताः भवितुमर्हन्ति । अस्मिन् सन्दर्भेsपि सूच्यौषध-निर्मातृसमवायानां मार्गदर्शन-संहितायां दर्शितमस्ति यदौषध-सेवनानान्तरं संक्रमणं भवति चेत्तर्हि रोगस्य गाम्भीर्यं काठिन्यं वा अतिशयं न भविष्यति । तदनन्तरमेषः रोगः संक्रमितानां कृते मरणान्तः न भविता । अत एव सूच्यौषध-विषये मिथ्याधारणाः सर्वथा अपाकरणीयाः । मे-मासस्य प्रथमदिवसतः ये केऽपि अखिलदेशे अष्टादशवर्षतः अधिकवयस्याः सन्ति तैः सूच्यौषधम् अवश्यमेव स्वीकरणीयम् । जनान् वयं निवेदयामः यत्सूच्यौषधं सेवन्ताम्, आत्मानं सुरक्षितं च कुर्वन्तु । अनेनैव समाजः समुदायश्चापि कोविड्-ऊनविंशतिः इत्यस्य संक्रमणात् सुरक्षितः भविष्यति।  

मोदीजी - डॉ.नावीद! भवते सुबहु धन्यवादाः। रमज़ान-मासस्य च भूयस्यः शुभकामनाः।

डॉ.नावीदः – बहुशः धन्यवादाः, महोदय!

मोदीजी - बान्धवः, कोरोना-सङ्क्रमणस्य अस्मिन्संकटकाले सूच्योषधेः महत्त्वं सर्वैः ज्ञायते । अतः ममाग्रहः वर्तते यत्सूच्यौषध-विषये केनापि जनापवादेन दिग्भ्रमिताः नैव भवन्तु । भवद्भिः ज्ञातं स्यात् यद्भारतसर्वकारपक्षतः सर्वेभ्यः राज्यशासनेभ्यः निःशुल्कं सूच्यौषधं प्रेषितम्, यस्य लाभं पंचचत्वारिंशत्-वर्षाधिकाः वयस्काः गृहीतुमर्हन्ति। मे-मासस्य प्रथमदिवसतः अष्टादशवर्षाधिकेभ्यः जनेभ्यः सूच्यौषधमिदं उपलब्धा । साम्प्रतं देशस्य निगमित-क्षेत्रं समवायाश्य स्वीयकर्मकरेभ्यः सूच्यौषध-संभरणाय उत्तरदायित्वं निभालयितुं पारयिष्यन्ति । अहम् एतदपि घोषयामि यत्भारत-सर्वकारपक्षतः निःशुल्कं सूच्यौषध-प्रदानस्य कार्यक्रमः अनागतेऽपि प्रचलिष्यति । राज्यानां कृते ममाह्वानमस्ति यत्तानि भारतसर्वकारस्य निःशुल्कं सूच्यौषधाभियानस्य लाभं स्वीयराज्यस्य अधिकाधिके- भ्यः जनेभ्यः प्रसारयन्तु । 

        बान्धवः, वयं जानीमः यद्रोगावधौ अस्माकं कृते स्वीय-परिवारस्य अनुरक्षणं मानसिकदृशा अतिकठिनं भवति । परमस्माकं चिकित्सालयेषु परिचर्याकार्मिकैः एतद्-दायित्वं सततम् असंख्यरोगिणां कृते निभालनीयं भवति । एषः सेवाभावः अस्माकं समाजस्य सम्बलमस्ति। परिचर्याकार्मिकैः क्रियमाणायाः सेवायाः परिश्रमस्य च विषये काऽपि परिचारिका एव सम्यक्तया वर्णितुमर्हति । एतत्कृत्वा मया रायपुरस्य बी.आर्.- आम्बेडकर-चिकित्सा-महाविद्यालये सेवारता भगिनी भावनाध्रुव-महाभागा ‘मनकीबात’-प्रसारणस्य कृते आमन्त्रितास्ति । सा नैकेषां कोरोनारोगिणाम् उपचारं क्रियमाणास्ति। आगच्छन्तु! तया सम्भाषामहे  -

मोदीजी  –   नमस्कारः, भावनाजी!

भावना   –  आदरणीय! प्रधानमन्त्रि-महोदय! नमस्कारः।

मोदीजी  –  भावनामहोदये!

भावना  –  आम्, महोदय! 

मोदीजी - ‘मनकीबात’-श्रोतॄन् कथयतु यद्भवत्याः परिवारे एतावदधिकानि दायित्वानि वर्तन्ते, तथापि भवती कोरोनारोगिणां सेवाकार्यरतासि। कोरोनारोगिभिः साकं भवत्याः योsनुभवः जातः, देशवासिनः तम् अवश्यमेव श्रोतुमुत्सुकाः । यतो हि या ‘सिस्टर्’, परिचारिका वा भवति सा रोगिणः निकटतमा भवति, सुदीर्घकालं यावच्च भवति, येनासौ प्रत्येकं कार्यविधिं बोद्धुं शक्नोति । कृपया कथयतु ।

भावना - महोदय! कोविड्विषयकः मम आहत्य अनुभवः मासद्वयस्यास्ति। वयं चतुर्दशदिनानि यावत् कार्यं कुर्मः तदनन्तरं कार्यविरामः दीयते। मासद्वयानन्तरं कोविड्-दायित्वं प्रत्यावर्तते। यदा सर्वप्रथमं मह्यं कोविड्दायित्वं प्रदत्तं, तदा मया स्वीय-परिवार- जनेभ्यः सूचनैषा प्रदत्ता, तर्हि सर्वे आशंकिताः जाताः। एषः मे-मासः आसीत्। तैर्यदा कथितं यत् ‘‘पुत्रि! अवधानतया दायित्वं निभालनीयम्’’ तदाऽहं भावबद्धा अभवम् । पुनः यदा मम पु़त्री पृष्टवती, ‘‘मातः, अपि भवति कोविड्-दायित्वाय गच्छति?’’ तत् क्षणं मत्कृते अतीव भावपूर्णम् अवर्तत । परं यदाऽहं गृहदायित्वं विहाय कोविड्-रोगिणां मध्ये अगच्छं तदा अवगतं यत्ते इतोsप्यधिकतरं संभ्रमिताः आसन् । कोविड्-नाम्ना ते अतिशयं भीताः आसन् । श्रीमन्! ते नैवावगच्छन् यत्तैः साकं किं भवति, अनागते किं वा भविष्यति । तेषां भयमपाकर्तुं अस्माभिः स्वस्थपरिवेशः उपस्थापितः। श्रीमन्, यदा वयं कोविड्दायित्वं कर्तुं नियोजिताः, तदा सर्वप्रथमं पी.पी.ई.-आवरणं धारयितुं निर्दिष्टाः। पी.पी.ई.-आवरणं धारयित्वा कार्यवहनम् अतीव कठिनं जायते । मया स्वीये मासद्वयस्य कोविड्-दायित्वे चतुर्दशदिवसानां चक्रेषु रोगिकक्षेषु, सघनचिकित्सैकांशे, पृथक्-वासे च सर्वत्रैव कार्यनिर्वहणम् आचरितम्। 

मोदीजी - अर्थात् आहत्य तु भवती विगतैकवर्षतः एतद्-दायित्वं निभालयति?

भावना - आम् महोदय! तत्र गमनात्पूर्वं मया स्वीय-सहकर्मिणां विषये किमपि न ज्ञातमासीत् । परमस्माभिः दलसदस्यत्वेन स्वीयं कार्यं सम्पादितम् । रोगिणां याः अपि समस्याः अवर्तन्त ताः अस्माभिः समाहिताः । रोगिणां विषये ज्ञात्वा तेषां लांछनमस्माभिः अपवारितम् । अनेके जनाः तु कोविड्-नाम्नैव भीता आसन् । यदा वयं तेषां रोगेतिहासं जानीमः, तदा रोगलक्षणानि उपस्थितानि अवर्तन्त किन्तु ते भयकारणेन स्वीय-परीक्षणं नैव कारयन्ति स्म । वयं तेषां प्रबोधनं कृतवन्तः । यदा रोगः दुरवस्थां याति तावत्तेषां फुफ्फुसः संक्रमितः अजायत, तेभ्यः सघनचिकित्सा अनिवार्या जायते स्म । तदा ते सपरिवारम् आगच्छन्ति स्म । एवमस्माभिः नैकप्रसंगेषु दृष्टम् । श्रीमन्, अस्माभिः प्रत्येकं वयस्समूहेन साकं दायित्वं निर्व्यूढम्, येषु बालाः, महिलाः पुरुषाः वृद्धाश्च रोगिणः अवर्तन्त । यदास्माभिः विलम्बकारणं पृष्टं तदा सर्वैः कथितं यद्वयं भयकारणेन पूर्वं नागताः । तदा तेऽस्माभिः शिक्षिताः यद्भयेन किमपि न भवति, भवन्तः अस्माकं सहयोगं कुर्वन्तु, वयं भवद्भिः साकं स्मः । भवन्तः यथासंविदम् आचरन्तु । एतदेवास्माभिः कृतमस्ति श्रीमन्!

मोदीजी – भावना-महाभागे! भवत्या साकं सम्भाषणं मह्यमतीव रुचिकरं अजायत । भवत्या स्वीयानुभवेन बहून्युत्कृष्ट-विवरणानि प्रदत्तानि येन देशवासिनः सकारात्मकं सन्देशम् अवश्यमेव अवाप्स्यन्ति । भवत्यैः सुबहु धन्यवादाः।

भावना – बहुशो धन्यवादाः, महोदय! अनेकशो धन्यवादाः। जयतु भारतं श्रीमन्! 

मोदीजी – जयतु भारतम्।

भावनामहाभागे! परिचारकवर्गस्य भवादृशाः सहस्रशः लक्षशश्च भ्रातृ-भगिन्यः कुशलतया स्वीयकर्तव्यं निभालयन्ति। इयं हि अस्माकं सर्वेषां कृते महती प्रेरणास्ति । भवती स्वीयं स्वास्थ्यं प्रति अवहिता भवतु । स्वीयपरिवारस्यापि परिरक्षणं करोतु।

         सखायः, अस्माभिः साकं साम्प्रतं बैङ्गलुरूतः परिचारिका सुरेखा उपस्थितास्ति । सुरेखा के.सी.जनरल-होस्पिट- इत्यत्र वरिष्ठ-परिचारिकाधिकारिणी वर्तते । आगच्छन्तु, तस्याः अनुभवान् जानीमः -

मोदीजी  –  नमस्ते, सुरेखामहाभागे!

सुरेखा  -   अहं देशस्य प्रधानमन्त्रिणा सम्भाषणावसरेण आत्मानं अतीव गर्वितां  सम्मानितां चानुभवामि।

मोदीजी – सुरेखा-महोदये!

सुरेखा - आम् श्रीमन्!

मोदीजी - भवती सहकर्मिपरिचारिकाभिः चिकित्सालयकर्मिभिश्च साकं अतीवोत्कृष्टं कार्यं कुर्वन्ती अस्ति । भारतं हि भवतीं प्रति कृतज्ञम् अस्ति। कोविड्-ऊनविंशतिं विरुद्ध्य  प्रवर्तमाने संघर्षे नागरिकाणां कृते भवत्याः कः सन्देशः?

सुरेखा - श्रीमन्! उत्तरदायि-नागरिकत्वेन वयं स्वीयप्रतिवेशिनः प्रति विनम्राः भवेम । शीघ्रं परीक्षणेन यथोचितोपचारेण च वयं मृत्युमितिं न्यूनीकर्तुं पारयामः। यदि भवन्तः किमपि लक्षणमनुभवन्तु, तावच्छीघ्रमेव एकान्तवासमाचरन्तु । निकटस्थ-चिकित्सकानां परामर्शेन यथाशीघ्रं निदानं प्रवर्तयन्तु । एतद्रोगविषये समाजे जागृतिः प्रसारणीयास्ति । सकारात्मकभावेन स्थातव्यम्, भीतिः उद्वेगश्च परिहर्तव्यौ । एतैस्तु रोगिणः स्थितिः दुस्तरा जायते । वयं स्वीयसर्वकारं प्रति धन्यवाद-प्रदान-पुरस्सरं सूच्यौषधं च प्रति गर्विताः स्मः। मया सूच्यौषधं सेवितम् । स्वीयानुभवेनाहं भारतीयनागरिकेभ्यः घोषितुमिच्छामि यत्किमपि सूच्यौषधं प्रतिशतं शतमितं प्रतिकारं सत्वरमेव नैवोत्पादयति। रोगप्रतिरोधकक्षमतायाः विकासे समयः अपेक्षितः भवति। सूच्यौषधं प्रति भयान्विताः न भवन्तु । कृपया सूच्यौषध-सेवनं कुर्वन्तु । अस्यातिन्यूनाः पार्श्वप्रभावाः सन्ति । अहम् एतमपि सन्देशं दातुमिच्छामि यत् गृहे तिष्ठन्तु, स्वस्थाः भवन्तु, रूग्णेभ्यः सम्पर्कं वारयन्तु, अनावश्यकं मुखनासिकां नेत्रे च मा स्पृशन्तु । कृपया सामाजिक-दूरत्वमाचरन्तु, सम्यक् मुखाच्छादनं धारयन्तु, नियमितं हस्तप्रक्षालनं कुर्वन्तु, गृहभेषजानां च सेवनमाचरन्तु । आयुर्वेदिकं क्वाथं सेवन्ताम्, प्रतिदिनं वाष्पनस्यं मुखकवलं प्राणायामं चाचरन्तु । अन्तिमं च मुख्यं च यत् कृपया कोरोनायोद्धॄन् विशेषज्ञान् च प्रति संवेदनां धारयन्तु । वयं भवद्भ्यः समर्थनं सहयोगं चापेक्षामहे । वयं सम्भूय प्रतियोत्स्यामः, एतं संचारिरोगं च प्रतिकरिष्यामः । एषः जनानां प्रति मम सन्देशः श्रीमन्!

मोदीजी – धन्यवादः, सुरेखामहाभागे!

सुरेखा – धन्यवादः, श्रीमन्!

सुरेखामहाभागे! भवती वस्तुतः अतिकठिनसमये संघर्षरताऽस्ति। आत्मानं संभालयतु। भवत्याः परिवारकृतेऽपि ममपक्षतः भूयस्यः शुभकामनाः। अहं देशवासिनः समाह्वयामि यद्यथा भावनया सुरेखया च स्वीयानुभवेन वर्णितमस्ति; कोरोना-संक्रमणस्य संघर्षाय सकारात्मकभावः अतीवावश्यकः वर्तते, देशवासिभिश्चैषः संधारणीयः।

      सखायः, चिकित्सकैः, उपचार-कार्मिकैः च सहैव कालेsस्मिन् प्रविधिज्ञाः रोगिवाहन-चालक-सदृशाः प्रथम-पङ्क्तिस्थाः कर्मकराः अपि भगवन्तमिव कार्याणि कुर्वन्ति । यदा कश्चन Ambulance-इति रोगिवाहनं कस्यचित् रुग्णस्य पार्श्वं प्रापयति, तदा सः यानचालकः तस्मै देवदूतमिव प्रतिभाति । एतासां सर्वासां सेवानां विषये, एतेषाम् अनुभवविषये च, अशेषदेशः नूनम् अवगच्छेत् | मया सार्धं अधुना एतादृशः एव अन्यतमः सज्जनः अस्ति –  श्रीमान् प्रेमवर्मा, यो हि रोगिवाहनस्य चालकः अस्ति, यथा हि अस्य नाम्ना प्रतीयते यत् श्रीप्रेमवर्मा स्वीयं कार्यं, नैजं कर्तव्यं च, पूर्णप्रेम्णा निष्ठया च करोति । आगच्छन्तु!  तेन सम्भाषामहे – 

मोदीजी  –  नमस्ते, प्रेमजी!  

प्रेमजी   –  नमस्ते, महोदय!

मोदीजी  –   भ्रातः! प्रेम!

प्रेमजी   –   एवम्, महोदय! 

मोदीजी  –   भवान् निज-कार्यविषये किञ्चित् विस्तरेण कथयतु । भवतः अनुभवमपि सम्विभाजयतु । 

प्रेमजी  –  अहं CATS-Ambulance-इत्यत्र यानचालकस्य पदे कार्यं करोमि, तथा च, यथैव नियन्त्रण-कक्षः अस्मान् सारण्याम् आकारणां करोति अर्थात् द्व्यधिक-शत-संख्यातः आकारणा आगच्छति, वयं रोगिणः पार्श्वं प्रचलामः । विगत-वर्षद्वयात् सततं वयं कार्यमिदं कुर्मः । स्वीयं kit- इति उपस्करम् आधाय, नैजं gloves-इति हस्तकोषं मुखावरणं च परिधाय  रोगिणं नीत्वा यत्र यस्मिन्नपि च चिकित्सालये सः सन्नेयः, वयं शीघ्रातिशीघ्रं तं तत्र प्रापयामः । 

मोदीजी  –   भवान् तु vaccine-इति सूच्यौषधस्य मात्रा-द्वयमपि स्वीकृतवान् ननु?

प्रेमजी   –   एवम्, महोदय! 

मोदीजी  –   तर्हि अपरेsपि औषधमिदं स्वीकुर्युः इति विषये भवतः को नाम सन्देशः? 

प्रेमजी – नूनम्, महोदय! सर्वेsपि dose इति मात्रामेनां स्वीकुर्युः, अपि चेदम् औषधं परिवारस्य कृतेsपि हितावहं वर्तते । साम्प्रतं मम माता कथयति यदहं वृत्तिमेनां  परित्यजेयम् । अहम् अकथयम् – मातः! यद्यहमपि सेवामेनां त्यक्त्वा उपविशामि चेत् तदा को नाम कथं वा रोगिणः चिकित्सालयं प्रापयिष्यति? यतो हि सर्वेsपि कोरोना- कालेsस्मिन् पलायन्ते । सर्वेsपि भृतिं त्यक्त्वा प्रयान्ति । मातापि कथयति – सुत! वृत्तिमेनां परित्यज इति । अहम् अकथयम् – नैव, मातः! अहं भृतिमेनां नैव त्यक्ष्यामि ।

मोदीजी  –  प्रेम-महोदय! मातरं दुःखिनीं नैव करोतु । ताम् अवबोधयतु ।

प्रेमजी –  एवम्, महोदय! 

मोदीजी –  परञ्च, भवता मातुः यत् वृत्तं प्रोक्तं तत्तु अतीव हृदय-स्पर्शि वर्तते ।

प्रेमजी –  एवम्, महोदय!  

मोदीजी –  भवतः मात्रेsपि मम प्रणामः निवेदनीयः|

प्रेमजी –  एवम्, महोदय! 

मोदीजी –  तथा च, प्रेम-महोदय! भवतः माध्यमेन ज्ञातं यत् अस्मदीयाः एते रोगियान-चालकाः अपि कियत्-बृहत्-सङ्कटम् आदाय कार्याणि अनुतिष्ठन्ति । 

प्रेमजी –  एवम्, महोदय! 

मोदीजी –  तथा च, प्रत्येकमपि रोगियान-चालकस्य माता किं विचारयति? 

प्रेमजी – नूनम्, महोदय!

 मोदीजी – वृत्तमिदं यदा श्रोतॄन् यावत् प्राप्स्यति... 

प्रेमजी –  एवम्, महोदय!

मोदीजी –  नूनं विश्वसिमि यत् तेषां कृतेsपि एतत् हृदय-स्पर्शि वृत्तं भविष्यति । 

प्रेमजी –  एवम्, महोदय! 

मोदीजी – प्रेमजी, भूयो भूयः धन्यवादः । भवान् एकप्रकारेण प्रेम्णः गङ्गां प्रवाहयति ।

प्रेमजी –  धन्यवादः, महोदय! 

मोदीजी –  धन्यवादः, भ्रातः! 

प्रेमजी –    धन्यवादः ।  

        सखायः, श्रीप्रेमवर्मा तत्सदृशाः च सहस्रशो जनाः, अद्य स्वीयं जीवनं पणीकृत्य, जनान् सेवन्ते । कोरोना-सङ्क्रमणं विरुध्य प्रवर्तमानेsस्मिन् युद्धे यान्यपि जीवितानि संरक्ष्यन्ते, तेषु रोगिवाहनानां चालकानामपि सुमहत्-योगदानमस्ति । प्रेम-महोदय! भवते, अशेष-देशस्य भवतः सर्वेभ्यः सहकर्मिभ्यः च कोटिशः साधुवादान्नहं सुतरां  वितरामि । भवन्तः काले एव प्राप्नुवन्तः स्युः, जीवितानि संरक्षन्तः भवन्तु ।

              मम प्रियाः देशवासिनः, एतत्तु सत्यं यत् कोरोनातः अनेके जनाः  संक्रमिताः जायन्ते, परञ्च कोरोनातः मुक्तानां पुनः स्वास्थ्यलाभावाप्तानां जनानां संख्यापि तावती एव अधिकास्ति । गुरुग्रामस्य प्रीतिचतुर्वेदि-महोदया अपि नातिचिरमेव कोरोना-सङ्क्रमणं पराभूतवती । प्रीति-महोदया ‘मनकीबात’-प्रसारणे अस्माभिः साकं आत्मानं संयोजयति । तस्याः अनुभवाः अस्माकं सर्वेषां कृते सुबहु कार्यसाधकाः भविष्यन्ति ।

मोदीजी  –  प्रीति-महोदये! नमस्ते । 

प्रीतिः    –  नमस्ते, महोदय! भवान् कथम् अस्ति?

मोदीजी  –  सम्यक् अस्मि ।  सर्वप्रथमं तु अहं कोविड्-संक्रमणेन साकं साफल्यपुरस्सरं भवत्या विहितं सङ्घर्षं प्रशंसामि ।

प्रीतिः    –  सुबहु धन्यवादः, महोदय! 

मोदीजी   –   कामये यत् भवत्याः स्वास्थ्यम् इतः परमपि रंहसा भद्रतरं भवेत् ।

प्रीतिः  –  धन्यवादः, महोदय! 

मोदीजी   –  प्रीति-महाभागे! 

प्रीतिः    –  एवं महोदय!

मोदीजी   –  अस्मिन् कोरोना-प्रवाहे किं केवलं भवती एव प्रभाविता वा परिवारस्य अन्येsपि सदस्याः पीडिताः सन्ति?

प्रीतिः   –   नैव, महोदय!  अहम् एकाकिनी एव प्राभवम् ।

मोदीजी  –   अस्तु, भगवतः कृपा आसीत् ।  बाढम्, अहमिच्छामि यत् भवती यदि  स्वीय-पीडायाः अस्याः अवस्थायाः कान्श्चन अनुभवान् सम्विभाजयिष्यति चेत् अस्य प्रसारणस्य श्रोतारः कदाचित् एतादृशे काले केन प्रकारेण आत्मनः संभालनं स्यादिति विषये मार्गदर्शनम् अवाप्स्यन्ति । 

प्रीतिः   –   एवं महोदय! अवश्यम् । महोदय! आरम्भिकायाम् अवस्थायां अहम् अतितराम् आलस्यम् अन्वभवम्, ततः परञ्च किञ्चित् कण्ठावरोधः अनुभूयते स्म । तदनु किञ्चित् अन्वभवम् यत् एतानि कोरोना-लक्षणानि सन्ति, अतः तद्विषयकं परीक्षणम् अकरवम् । अपरेद्युः विवरणावाप्तेः अनुपदमेव कोरोना-सङ्क्रमणम् अस्ति इति कृत्वा आत्मानम् एकान्तवासे अस्थापयम् । एकस्मिन् कक्षे विजनीभूय चिकित्सकैः साकं परामृष्टम्, तदनुसारम् उपचारञ्च आरभम् ।

मोदीजी  – भवत्या द्रुतमेव कार्यानुष्ठान-कारणात् निज-परिवारः संरक्षितः ।

प्रीतिः   –  एवं महोदय! अनन्तरम् अन्येषामपि परीक्षणं कारितम् । ते च सर्वे कोरोनातः अप्रभाविताः आसन् । अहमेव प्रभाविता अभवम् । ततः पूर्वमहं स्वं विजनीकृत्य एकस्मिन् कक्षे अस्थापयम् । निजावश्यकतानुसारिणीं सर्वां सामग्रीम् आदाय एकस्मिन् कक्षे निरुद्धा अभवम् । युगपदेव चिकित्सकैः साकं पुनः परामृश्य, तदनुसारम् औषध-ग्रहणञ्च आरभम् । महोदय! अहं औषध-ग्रहणेन सहैव, योगाभ्यासम्, आयुर्वेदिक-पथ्यञ्च प्रारभम्, युगपदेव, क्वाथ-पानमपि आरब्धम् । प्रतिरोधक-क्षमतां विवर्धयितुं, महोदय! यदापि दिवसावसरे भोजनं कुर्वन्ती अस्मि, केवलं स्वास्थ्य-वर्धकं प्रोटीन-इति प्रोभूजिन-युक्तमेव भोजनं  कृतवती । सुबहु तरलं पदार्थं अपिबम्, बाष्पादानं कृतम्, गण्डूषं कृतवती, उष्णजलञ्च पीतवती । अहं प्रतिदिनम् एतानि सर्वाणि उपचार-जातानि अनुष्ठितवती । अपि च, महोदय! एकम् अतिमहत्त्वपूर्णं वृत्तं वक्तुं वाञ्छामि यदेतेषु दिनेषु, उद्विग्नता तु न कथमपि सेवनीया । मानसिक-रूपेण अतितरां दृढतया भाव्यम्, एतदर्थं च योगाभ्यासेन बहु लाभम् अवाप्नवम्, प्राणायामाभ्यासं चापि कुर्वन्ती आसम्, एतदनुष्ठानेन सुखमनुभूयते स्म ।

मोदीजी – एवम् । शोभनम्, प्रीति-महाभागे! साम्प्रतं भवत्याः प्रक्रिया पूर्णा ।  भवती संकटात् बहिः निर्गता । 

प्रीतिः  –  एवम् ।

मोदीजी – अधुना भवत्याः परीक्षणम् अपि नकारात्मकं वर्तते । 

प्रीतिः  –  एवम्, महोदय!

मोदीजी – तर्हि साम्प्रतं स्वीय-स्वास्थ्यस्य निभालनार्थं भवती किं करोति? 

प्रीतिः  – महोदय! योगाभ्यासं नैव अवरोधितवती । 

मोदीजी –  अस्तु । 

प्रीतिः–  अपि च साम्प्रतमपि क्वाथं पिबामि तथा च, प्रतिरोधक-क्षमतां विवर्धयितुं, महोदय! केवलं स्वास्थ्य-वर्धकं भोजनं करोमि। 

मोदीजी – अस्तु ।  

प्रीतिः  – पूर्वं स्वस्मिन् उपेक्षां कुर्वन्ती आसम्, तदाधृत्य विशेषावधानं ददामि ।

मोदीजी – धन्यवादः, प्रीति-महोदये! 

प्रीतिः  – भूयो भूयः धन्यवादः, महोदय!

मोदीजी -  मह्यं प्रतीयते यत् भवत्या या सूचना प्रदत्ता, सा अनेकेषां जनानां कृते लाभप्रदा सेत्स्यति । भवती स्वस्था तिष्ठतु, भवत्याः परिवार-जनाः च स्वस्थाः सन्तु, मदीयाः भूयस्यः शुभकामनाः । 

     मम प्रियाः देशवासिनः, यथा अद्य अस्माकं चिकित्सा-क्षेत्रीयाः जनाः, अग्रिम-पङ्क्तेः कर्मिणः अहर्निशं सेवाकार्येषु संलग्नाः सन्ति । तथैव समाजस्य अन्येsपि जनाः, कालेsस्मिन् पश्चवर्तिनो नैव वर्तन्ते । देशः पुनरेकवारं सम्भूय कोरोना-सङ्क्रमणं विरुद्ध्य युद्ध्यति । एतेषु दिनेषु पश्याम्यहं – कश्चन एकान्तवासिभ्यः कुटुम्बेभ्यः औषधानि प्रापयति, कश्चन शाकं, दुग्धं, फलादिकं च प्रापयति । कश्चन निशुल्कं Ambulance-इति रोगिवाहनस्य सेवाः रुग्णेभ्यः उपपादयति । देशस्य पृथक्-पृथक्-कोणेषु अस्मिन्  समाह्वान-पूर्णेsपि काले स्वयंसेविसंघटनानि अग्रे आगत्य अन्येषां साहाय्यार्थं यत्किमपि कर्तुं पारयन्ति तत्कर्तुं प्रयतन्ते । अस्मिन् क्रमे, ग्रामेष्वपि नूतना जागर्तिः परिदृश्यते । कोविड्-नियमान् कठोरतया अनुपालयन्तः जनाः स्वीयग्रामान् कोरोनातः रक्षन्ति, ये जनाः बहिस्तः आयान्ति, तेषां कृते समुचिताः व्यवस्थाः अपि विनिर्मीयन्ते । नगरेष्वपि अनेके युवानः अग्रे समुपागताः, ये हि स्वीयेषु क्षेत्रेषु, कोरोना-प्रकरणानि नैव विवर्धेरन् इति कृत्वा, स्थानीय-निवासिभिः सम्भूय प्रयतन्ते, अर्थात् एकतः देशः, अहर्निशं चिकित्सालयानां, श्वासित्राणाम् औषधानाञ्च कृते कार्याण्याचरति, अपरतश्च, देशवासिनः अपि, सर्वात्मना कोरोना-समाह्वानं सम्मुखीकुर्वन्ति । एषा भावना अस्मभ्यं कियतीं शक्तिं कियन्तञ्च विश्वासं ददाति? एते येsपि प्रयासाः विधीयन्ते, समाजस्य बहु महत्-सेवारूपाः सन्ति । एते समाजस्य शक्तिं विवर्धयन्ति ।

  मम प्रियाः देशवासिनः, अद्य वयं ‘मनकीबात’-प्रसारणे पूर्णां चर्चां कोरोनामहामारीमाधृत्यैव कृतवन्तः, यतो हि अद्य अस्मदीया सर्वोत्कृष्टा प्राथमिकतास्ति – अस्य व्याधेः पराभवः । अद्य भगवतः महावीरस्य जयन्त्यपि वर्तते । अवसरेsस्मिन् सर्वेभ्यः देशवासिभ्यः शुभकामनाः वदामि । भगवतः महावीरस्य सन्देशः, अस्मान् तपसः आत्मसंयमस्य च प्रेरणां ददाति । साम्प्रतं रमज़ानस्य पवित्रमासः अपि प्रवर्तते । अग्रे बुद्धपूर्णिमा अपि अस्ति । गुरोः तेगबहादुरस्य चतुश्शततमं प्रकाशपर्व अप्यस्ति । अन्यतमं महत्वपूर्णं दिनं - पोचिशे बोइशाक – इति टैगोर-जयन्त्याः वर्तते । एतानि सर्वाण्यपि अस्मान् स्वीयानि दायित्वानि निभालयितुं प्रेरयन्ति । नागरिक-रूपेण वयं स्वीये जीवने यावता कौशलेन स्वीयानि कर्तव्यानि निभालयिष्यामः, संकट-मुक्ताः भूत्वा भविष्य- मार्गोपरि तावत्या तीव्र-गत्या अग्रेसरिष्यामः । अनया कामनया साकं भवतः सर्वान् पुनरेकवारं साग्रहं कथयामि यत् Vaccine-इति सूच्यौषधम् अस्माभिः स्वीकर्तव्यं तथा च,  पूर्णमपि अवधानं संधारणीयम् । ‘औषधमपि – अनुशासनमपि’ । मन्त्रोsयं न कदापि विस्मरणीयः । वयं शीघ्रमेव सम्भूय अस्याः आपदः बहिः आगमिष्यामः । अमुना विश्वासेन साकं भवद्भ्यः सर्वेभ्यः भूयान्सः धन्यवादाः । नमस्कारः ।

                        *****

       [भाषान्तरम् – डॉ.श्रुतिकान्तपाण्डेयेन सम्भूय बलदेवानन्द-सागर-द्वारा] 

                    अणुप्रैषः – baldevanand.sagar@gmail.com