OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 18, 2021

 केरले कोविड्व्यापनमतितीव्रम् ; गतदिने त्रयोदशसहस्राधिकाः नूतनरोगिणः। 

   अनन्तपुरी> केरले कोविड्रोगस्य द्वितीयं तरङ्गमतिशक्तम्। गतदिने ८१,२११ जनानां स्रवशोधने सम्पन्ने १३,८३५ जनेषु कोविड्बाधा दृढीकृता। परिशोधनायाः स्पष्टतामानं [rate of test positivity] १७.०४ इति वर्धितम्। किन्तु मृत्युमानं ०.४ इति न्यूनातिन्यूनमस्ति। 

  गतदिनद्वयेषु राज्ये आयोजिते बृहत्परिमाणस्रवविमर्शे [massive swabtest] त्रिलक्षाधिकाः स्रवादर्शाः सञ्चिताः। तेषु कश्चिदंशस्य फलमेव ह्यः बहिरागतम्। कोविड्बाधितानां चिकित्सार्थं राज्यं पूर्णतया सज्जमिति स्वास्थ्यमन्त्रिणी के के शैलजा अवोचत्।