OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 30, 2016

नियन्त्रणरेखाम् अतिक्रम्य भारतस्य आक्रमणम्; ३८ भीकराः मृत्युमुपगताः।

डि जि एम् ओ रणवीरसिंहः वार्ता-सम्मेलने
नव देहली > नियन्त्रणरेखामधिक्रम्य पाक् अधीनकाश्मीरे निलीयानां भीकराणां शिबिरं प्रत्‍यासीत् भारत सेनायाः झटित्याक्रमणम्। बुधवासरे रात्रौ आसीत् सैन्येन कृतम् आक्रमणम् । भीकराणां नाशः अधिकः अभवत् । किन्तु एतादृशम् आक्रमणम् अनुवर्तितुम् इच्छा नास्ति इति डि जि एम् ओ रणवीरसिंहः वार्ता सम्मेलने अवदत्। पाकिस्थानतः आक्रमणानि भविष्यन्ति चेत् तानि प्रतिरोद्‌धुं भारतसेना सज्जा इति च सः असूचयत् । अष्टात्रिंशत् (३८) भीकराः सैनिकानां निशिताक्रमणे मृताः। भारतस्य पक्षे नाशः नासीत्।

सूक्ष्मासूत्रणेन एव आसीत् सैन्यस्य प्रक्रिया। नियन्त्रणरेखायाः अन्तर्भागे किलोमीट्टर् त्रयं यावत् गत्वा आसीत् सैन्यस्य इयं प्रक्रिया। इमम् अधिकृत्य राष्ट्रपतिः प्रणाब् मुखर्जी, उपराष्ट्रपति: हामिद् अन्सारिः, भूतपूर्वप्रधानमन्त्री मनमोहनसिंहः, जम्मू-कश्मीरस्य मुख्यमन्त्री मेहबूबा मुफ्‌तिः प्रभृतयः ज्ञातवन्तः आसन्।

उद्योगमण्डलात् रूक्षगन्धः - छात्राः परिक्लान्ताः। 
कोच्ची> केरळे एरणाकुलं जनपदे अम्पलमुकल् उद्योगमण्डले  रूक्षगन्धव्यापनेन समीपस्थे अम्पलमुकल् सर्वकारीयविद्यालये छात्रसहितानाम्  अनेकेषां शारीरिकास्वास्थ्यमजायत। त्रिंशत् छात्राः पञ्च अध्यापकाश्च आतुरालयं प्रवेशिताः। द्वौ छात्रौ अत्यासन्नविभागे स्तः।
   ह्यः प्रभाते उपनववादने एव परिभ्रान्तजनका इयं दुर्घटना संवृत्ता।  बि पि सि एल् कोच्ची रिफैनरी व्यवसायशालायाः फाक्ट् कोच्ची विभागस्य च मध्ये अयं विद्यालयः वर्तते। अन्तरिक्षे रूक्षगन्धे व्यापृते विद्यार्थिनः अवशाः बभूवुः। ततः ते  आम्बुलन्सादिभिः वाहनैः तृप्पूणित्तुरायां आतुरालयं प्रवेशिताः।

Thursday, September 29, 2016

 सविशेषपरिगणनापदं - भारतं पुनर्विचिन्तने।
नवदिल्ली>दशकद्वयं यावत् भारतं पाकिस्तानाय दीयमानं सविशेषपरिगणनाराष्ट्रम् इति स्थानम् उपसंहर्तुं पर्यालोचना आरब्धा। उरि भीकराक्रमणस्य पश्चात्तले पाकिस्तानं विरुध्य विभिन्नतलेषु नयतन्त्रपदक्षेपान्  शक्तीकर्तुम् एवायं चिन्तनम्।
     १९९६तमे संवत्सरे विश्वव्यापारसंस्थायाः गाट् सन्धिं परिगण्य एव एम् एफ् एन् इति सविशेषस्थानं ददौ।भारतेन सह पाकिस्तानमपि गाट् सन्धौ हस्ताक्षरम् विदधात्।
     तथा च सिन्धुनदीजलसन्धिमपि निराकर्तुं भारतं विचिन्तयदस्ति। किन्तु नदीजलसन्धिनिरासः पाकिस्तानं प्रति युद्धप्रख्यापनमिति परिगणयेदिति पाकिस्तानवृत्तैः उक्तम्।

कावेरी - तमिळनाटु कृते ६००० क्यूसेक्स् परिमितं जलं दातव्यमिति सर्वोच्चन्यायालयः।
नवदिल्ली>तमिल् नाट् राज्याय शुक्रवासरपर्यन्तं प्रतिदिनं ६००० क्यूसेक्स् परिमितं कावेरीजलं दातव्यमिति कर्णाटकराज्यं प्रति सर्वोच्चन्यायालयः पुनरपि निरादिशत्। नीतिपीठस्य आदेशः कर्णाटकविधानसभया देयकद्वारा तरणं कृतः तथापि दिनत्रयं यावदपि जलं निर्गमयितुमेव निर्देशः।
   कावेरीविषये राजनैतिकपरिहाराय दिनद्वयाभ्यन्तरे राज्ययुगलस्य मुख्यमन्त्रिणोः मेलनम् आयोजयितुं केन्द्रसर्वकारं प्रति निरादिशत्।

Wednesday, September 28, 2016

सार्क् उच्चकोटिः भारतेन बहिष्क्रियते।

नवदिल्ली - उरि भीकराक्रमणे पाकिस्तानस्य भागभागित्वं निस्सन्देहं प्रमाणीकृतम् इत्यतः पाकिस्ताने सम्पद्यमानं दक्षिणेष्याराष्ट्राणाम् उन्नततलसम्मेलनं [सार्क् उच्चकोटिः] भारतेन बहिष्करिष्यते। अयं निश्चयः सार्क् अध्यक्षाय नेपालस्य प्रधानमन्त्रिणे निवेदितः।
  भीकरवादप्रोत्साहनपरः पाकिस्तानस्य पदक्षेपः भवति अस्य निश्चयस्य प्रेरणा इति तस्य राष्ट्रस्य नामोक्तिं विना विदेशमन्त्रालयेन स्पष्टीकृतम्। पाकिस्तानस्य उपरि आगोलप्रेरणाशाक्तीकरणमेव भारतेन लक्ष्यीक्रियते। सार्क् संस्थायां प्रमुखराष्ट्रं भवति भारतम्।
     उन्नतकोटिं संप्राप्तुं अन्यानि कानिचन राष्ट्राण्यपि वैमुख्यं प्रकटितवन्तः सन्ति। बंग्लादेशः , भूट्टानः, अफ्गानिस्तानश्च अस्मिन् गणे सन्ति। नवम्बरस्य ९,१० दिनाङ्कयोरेव १९तमं सार्क् सम्मेलनं इस्लामबादे प्रचालनीयम्।
 RN15 किं जोङ्‌ उनस्य वधाय दक्षिणकोरियस्य पद्धतिः।
 सोल् > उत्तरकोरियस्य स्वेच्छाधिपते: किं जोङ्‌ उनस्य वधाय दक्षिणकोरिया पद्धतिं आविष्करोति इति सूचना। दक्षिणकोरियस्य प्रतिरोधसचिवेन एव विषयेऽस्मिन् विधानसभायां सूचना दत्ता। पद्धतेः पूर्तीकरणाय विशिष्टसेना अपि नियुक्ता इति तेन सूचितम्। शत्रुराज्यस्य आयुधसंविधानानि प्रधानकेन्द्राणि प्रधाननेतारं च हन्तुं पद्धतिः मार्गाः च सन्तीति प्रतिरोधसचिवः हान् मिन् कू विधानसभायाम् अवदत्। उत्तरकोरियेन वारद्वयं कृतम् आणवपरीक्षणमेव दक्षिणकोरियस्य नूतनासूत्रणं प्रति प्रधानं कारणम्।

RN13काश्मीरसमस्यायां विना प्रतिकरणं चैना।
  बीजिङ् > काश्मीरसमस्याविषये चैनायाः सहयोगः पाकिस्थानाय वर्तते इति पाकिस्थानस्य माध्यमै: गतदिने सूचितमासीत्। किन्तु इमां वार्तां प्रति चैनायाः पक्षतः व्यक्तं प्रतिकरणं नैव लब्धम्। काश्मीरसमस्या भारत पाकिस्थानाभ्यां चर्चया परिहरणीया इत्येव चैनाया: विदेशकार्यवक्त्रा सूचितम्। काश्मीरविषये भारत पाकिस्थानयो: मध्ये युद्धः सञ्जातः चेत् चैना पाकिस्थानाय सम्पूर्णसहयोगं दास्यतीत्‍यैव पाक् माध्यमैः सूचितमासीत्। किन्तु माध्यमानां परामर्शोऽयम् अस्माभि: न ज्ञायते इत्येव चैनाया: विदेशकार्यवक्त्रा गेङ् षुवाङ् ह्यः अवदत्।

RN14५०० तमा निकषस्पर्धा-भारतविजय:१९७ धावनाङ्कै:।
  कान्पूर् > भारतस्य ५०० तमनिकषस्पर्धायां भारतं १९७ धावनाङ्‌कैः न्यूसिलाण्टं पराजयत्। ४३४ धावनाङ्काः इति लक्ष्यं प्रति क्रीडामारब्धस्य न्यूसिलान्टस्य सर्वेऽपि क्रीडकाः २३६ धावनाङ्केषु बहिर्गताः। भारताय अश्विनः ६ घटकग्रन्थीः प्राप्तवान्। न्यूसिलान्ट् क्रीडकेषु ८० धावनाङ्कान् प्राप्तवान् लूक् रोञ्जी एव उन्नतः। स्पर्धायाः उत्तमक्रीडकाय पुरस्कारः भारतस्य रवीन्द्रजडेजया प्राप्तः। तथा च भारतं निकषस्पर्धापरम्परायां १-० इत्यनुपाते अग्रे वर्तते।

Tuesday, September 27, 2016

 RN 10पारीस् उभयपक्षनिर्णय: गान्धिजयन्त्याम्।
कोष़िक्कोट् (केरलम्) > आगोलतापननियन्त्रणात्मकः पारीस् सन्धिः महात्मागान्धिनः जन्मदिने ओक्टोबर् द्वितीयदिने साक्षात्क्रियते इति प्रधानमन्त्री नरेन्द्रमोदी। भाजपा दलस्य देशीयनिर्वाहकाधिवेशने एव प्रधानमन्त्रिणः इदं प्रख्यापनम्। प्रकृतिविभवानाम् अमितोपयोगः अस्मान् नाशमुखमेव नयति, भौमतापस्य २ एककात् वर्धनं प्रतिरोद्धुमेव विश्वराष्ट्राणां अधुनातनचिन्ता, २ एककात् उपरि भौमतापवर्धनं भारतस्य समुद्रतीरप्रदेशान् प्रतिकूलतया बाधते- प्रधानमन्त्रिणा सूचितम्। अतः विना विलम्बं भारत-पारीस् सन्धिः गान्धिजयन्तीदिने एव साक्षात्क्रियते इति मोदी अवदत्।

 RN11'मिका' परीक्षणं विजयप्रदम्।
नवदहली > प्रतिरोधमण्डलस्य प्रबलीकरणाय 'मिका' अपि। आकाशात् विक्षेपणयोग्य: दीर्घदूरक्षेपणायुध: 'मिका' भारतेन परीक्षितः। परीक्षणमिदं विजयप्रदम् आसीदिति प्रतिरोधमन्त्रालयेन सूचितम्। क्षेपणायुध: लक्ष्यस्थानं प्राप्य कृत्यनिर्वहणमकरोत् इत्यपि मन्त्रालयः विशदयति। मिराष्-२००० विमानादेव मिका क्षेपणायुध: परीक्षित:। राफेल् युद्धविमानादपि अस्य परीक्षणं साध्यमिति मन्त्रालयः सूचयति।

RN12उरी भीकराक्रमणम् - एकः सैनिकोऽपि मृतः।
 श्रीनगर् > उरी सैनिककेन्द्राक्रमणे व्रणितेषु सैनिकेषु एकोऽपि मृतः। तथा भीकराक्रमणेन वीरमृत्युं प्राप्तानां सैनिकानां संख्या १९ अभवत्। ओडीषा नुवपाडा स्वदेशी पिताबस् मज्हि (३० वयः) एव मृतः। २००८ तमे वर्षे एव मज्हि बि एस् एफ् मध्ये राष्ट्रसुरक्षायै भागभाक् अभवत्।

PS1अखिलभारतीय-आयुर्विज्ञानसंस्थानस्य (AIMS) हीरकजंयत्युत्सवः आमानित:
नवदिल्ली>नवदिल्लीस्थे अखिलभारतीयायुर्विज्ञानसंस्थानस्य  हीरकजयंती समारोहावसरे केन्‍द्रीय-स्‍वास्‍थ्‍य-परिवार-कल्‍याणमंत्री जे पी नड्डा प्रत्यपादयत् यत् विगतषष्टिवर्षेषु अनेन संस्थानेन  गुणवत्तायुक्‍त-स्वास्थ्यसेवासु महत्वपूर्णयोगदानं विहितम्। संस्थानेन सर्वदैव शिक्षाक्षेत्रे उच्चतममानकाः प्रतिष्ठापिताः। संस्थानस्य ९ केन्‍द्राणि ५२ शिक्षणविभागा: अष्टशताधिक-शिक्षकान् समेत्य दससहस्राधिक-कार्मिकाश्च  परिश्रमेण स्वास्थ्यक्षेत्रे योगदानं प्रयच्छन्ति । चिकित्साक्षेत्रे   शोधप्रकाशनेषु जगतः शीर्षचिकित्सासंस्थानेषु   अखिलभारतीयायुर्विज्ञानसंस्थानस्य तृतीयस्‍थानं विद्यते ।

Monday, September 26, 2016

उरि भीकराक्रमणं  न विस्मर्तव्यं , न क्षन्तव्यम् - प्रधानमन्त्री। 
कोष़िक्कोट् > उरि भीकराक्रमणविषये शक्तया भाषया पाकिस्तानं प्रति  भारतस्य अनुशासनम्। अष्टादशधीरभटानां व्यापादनं भारतेन न विस्मर्तव्यं तथा न क्षन्तव्यम्। यथासमयं प्रत्युत्तरं दातुं भारतं शक्तं भवति। सैनिकानां बलिदानं न व्यर्थं भवेत्। आतङ्कवादस्य निर्गमनं कुर्वतः पाकिस्तानस्य पुरतः भारतं भीरुत्वं न प्रदर्शयिष्यतीति भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्।
    भाजपादलस्य देशीय परिषदः सम्मेलनं कोष़िक्कोट् सागरतीरे उद्घाटनं कुर्वन् भाषमाणः आसीत् मोदिवर्यः। उरि घटनानन्तरम् अस्मिन् विषये सार्वजनीनवेदिकायां प्रधानमन्त्रिणः प्रथमं प्रतिकरणमासीदिदम्।

 ५००-तमा निकषस्पर्धा-भारतं विजयतीरे।  
कान्पूर् > ५००-तमनिकषस्पर्धायां भारतं विजयतीरं प्राप्नोति। स्पर्धायां भारतस्य विजयाय ६ द्वारकाण्येव अपेक्षितानि। निकषस्पर्धायाः चतुर्थदिने न्यूसिलाण्ट् ९३-४ इति भवति। ४३४ इति बृहद्विजयलक्ष्यं प्राप्तुं वल्लनमारब्धस्य न्यूसिलाण्टस्य प्रमुखाः क्रीडकाः बहिर्गताः इत्येतत् भारतप्रतीक्षां वर्धयति। भारताय अश्विनेन ३ द्वारकाणि प्राप्तानि। पूर्वं भारतेन द्वितीयमिन्निङ्स् ३७७-५ इति पर्यवसितम्। भारतस्य कृते विजयः, पूजारा, रोहित् शर्मा, जडेजा च अर्धशतकं प्राप्तवन्तः।
RN7भारतम्‌ आतङ्कवादं प्राेत्साहयति-पाकिस्थानस्य विदेशकार्यमन्त्रालयः।
   इस्लामाबाद्‌ > एष्याभूखण्डे आतङ्कवादप्रवर्तनानां वाहकं राष्ट्रं भवति पाकिस्थानम् इति भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रस्तावनायाः उपरि पाकिस्थानपक्षतः प्रतिकरणम्। पाकिस्थाने विविधेषु स्थलेषु आतङ्कवाद-आभ्यन्तरकलहादीनां प्रोत्साहनं भारतेन दीयते इति पाकिस्थानस्य विदेशकार्यमन्त्रालयेन आरोपितम्। काशमीरेषु बलूचिस्ताने च जायमानेषु कलहेषु भारतस्य सहयोगः अस्तीति मन्त्रालयवक्त्रा आरोपितम्। आधाररहितैः प्रकोपनपरैः च आरोपणैः भारतं पाकिस्थानं प्रति हीनं प्रचारणं करोति इत्यपि पाकिस्थानस्य विदेशकार्यवक्त्रा ट्विट्टर् द्वारा उक्तम्।

 RN8उरी भीकराक्रमणम्- भीकरान् अधिकृत्य निर्णायकं प्रमाणं लब्धम् ।
 श्रीनगर् > उरी सैनिककेन्द्रं प्रति आक्रमणं कृतवद्भ्यः भीकरेभ्यः पाकिस्थानपक्षतः साहाय्यं लब्धमासीत् इति दृढीकर्तुं योग्यं सुप्रधानं प्रमाणं लब्धम्‌। भीकरैः उपयुक्तम् इति संशयभूतं दूरभाषाश्रवणसहायी प्रदेशेभ्यः लब्धं वर्तते। जपानस्य ऐकोम् इति स्थापनेन निर्मितान्येव एतानि उपकरणानि इति दृढीकृतमस्ति। राष्ट्राणां सुरक्षासेनाभिरेव एतानि उपकरणानि उपयुज्यन्ते इत्यतः भीकरै: तानि कथं प्राप्तानि इत्येतत् पाकिस्थानं प्रति संशयं जनयति। अपि च पाकिस्थान-जपानयोः मध्ये एतेषाम् उपकरणानां विक्रयणं सञ्जातं वा इति भारतेन अन्विष्यमाणं वर्तते।

पाकिस्थानतः प्रेषितः गरुडः भारतसेनया ग्रहीतः।
राजस्थानस्य सीम्नि पाकिस्थानतः प्रेषितः शिक्षितःगरुडः भारतसीमासेनया ग्रहीतः 34 मेगा पिक्‌सल् छायाग्राही पक्षस्य अधो भागे बन्धितः आसीत्। 2016 जानुवरी मासे आसीत् इयं घटना। कः अतङ्क वादं प्रोत्साहयति ??????

Sunday, September 25, 2016

 RN2बलूचिस्तानतर्कः - पाकिस्तानस्योपरि पाश्चात्यसहकरणसङ्‌घस्य शासनम्।
 जनीवा > बलूचिस्ताने जायमानानि मानवाधिकारध्वंसनप्रवर्तनानि अनुवर्त्यन्ते चेत् पाकिस्तानस्योपरि पाश्चात्यसहकरणसङ्‌घेन उपरोधः संस्थाप्यते इति सङ्‌घस्य उपाध्यक्षः रिसोर्ड् सर्नेकि। ए एन्‌ ऐ इति वार्तासङ्घं भाषमाणः आसीत् सः। पाश्चात्यसहकरणसङ्‌घस्य पाकिस्तानेन सह आर्थिक-राष्ट्रिय -उभयपक्षमण्डलेषु बान्धवः अस्ति। तथैव बलूचिस्ताने जायमानानि मानवाधिकारध्वंसनप्रवर्तनानि प्रतिरोद्धुं प्रतिज्ञाबद्धः च भवति सङ्‌घः। अतः बलूचिस्ताने शान्तिं संस्थापयितुम् आवश्यकः व्यवहारः पाकिस्तानेन अवश्यं स्वीकरणीय एव इत्यपि सर्नेकि महोदयेन उक्तम्। अन्यथा पाकिस्तानस्योपरि आर्थिकसम्बन्धान् उपरोधान् अपि स्वीकरिष्यतीति तेन सूचितम्।

 RN3भारतेन सह निरुपाधिकचर्चायै पाकिस्तानं सन्नद्धम् - पाक् विदेशकार्योपदेष्टा।
  इस्लामाबाद् > काश्मीरविषयसहिताः सर्वा: अपि समस्या: परिहर्तुं निरुपाधिकचर्चायै वयं सन्नद्धाः इति पाक् प्रधानमन्त्रिणः विदेशकार्योपदेष्टा सर्ताज् असीसः। चर्चया सहैव समस्याः परिह्रियन्ते किन्तु काश्मीरसमस्यायाः परिहारं विना कापि चर्चा सम्पूर्णा न भविष्यतीति एकस्मिन् अभिमुखभाषणे तेन अभिप्रेतम्। ऐक्यराष्ट्रसभायाः अधिवेशने काश्मीरः तर्कबाधितप्रदेशः भवतीति अन्ताराष्ट्रसमूहेन अङ्‌गीकृतं भवति। समस्यापरिहाराय इदानीं भारतस्योपर्येव सम्मर्द: इत्यपि तेन अभिप्रेतम्।

 RN6तमिल्नाटु मध्ये 'अम्मा वैफै' सज्जीकरणम्।

चेन्नै > तमिल्नाटु मध्ये ५० स्थानेषु 'अम्मा वैफै' सज्जीकरणं करोति राज्यसर्वकारः। अन्तर्जालोपयोगाय निशुल्कव्यवस्थायाः सार्वत्रीकरणमेव वैफै सज्जीकरणस्य मुख्यं लक्ष्यम्। जलं, सिमेन्ट्, औषधं, भोजनालयः इत्यादिषु बहुषु विभागेषु 'अम्मा ' इति नाम्ना वस्तूनि उपलभ्यन्ते। इदानीम् अन्तर्जालसंविधानेषु अपि 'अम्मा 'इति नाम्नः प्रवेशनं जातम्। याननिस्थानानि, विनोदकेन्द्रणि, वाणिज्यकेन्द्राणि इत्यादिषु ५० केन्द्रेषु  वैफै संविधानं संस्थाप्यते। एतदर्थं १० कोटिरुप्यकाणि पद्धते: प्रथमपादे सर्वकारेण व्ययीक्रियन्ते, प्रतिवर्षं १.५ कोटि रुप्यकाणि पद्धतेरस्याः कृते दीयन्ते इत्यपि मुख्यमन्त्री जयललिता चेन्नै मध्ये अवदत्।

 RN4सैनिकनेतृभिः सह प्रधानमन्त्री चर्चामकरोत्।
  नवदहली > भारत-पाकिस्तानयोः मध्ये सङ्‌घर्षावस्थाया: समयेऽस्मिन् प्रधानमन्त्री नरेन्द्रमोदी स्थलसेना, नौसेना, व्योमसेना इत्यादीनां सेनानां नेतृभिः सह चर्चामकरोत्। भारतसीमायाः अधुनातनसुरक्षाकार्याणि तथा पाकिस्तानं प्रति सेनामण्डलात् प्रतिक्रिया कथं भवेत् इत्यादीनि कार्याणि चर्चायाम् आसन् इति सूचना अस्ति। देशीयसुरक्षाविभागस्य उपदेष्टा अजित् डोवलः च चर्चायां सन्निहितः आसीत्। तथापि सेनानेतृभिः सह प्रधानमन्त्रिणः मेलने कापि विशेषता नास्ति, तत्तु स्वाभाविकमेवेति प्रतिरोधमन्त्रालयेन सूचितम्।

RN5उरी भीकराक्रमणं काश्मीरे भारतस्यातिक्रमाणां प्रतिकरणम् - नवास् षेरीफ:।
  इस्लामाबाद् > प्रकोपनपरै: परामर्शै: सह पाक्प्रधानमन्त्री नवास् षेरीफ:। जम्मुकाश्मीरस्य उरीमण्डले जातं भीकराक्रमणं काश्मीरे भारतेन क्रियमाणानाम् अतिक्रमाणां प्रतिकरणं स्यादिति नवास् षेरीफ:। किमपि प्रमाणं विना पाकिस्तानं शत्रुस्थाने चित्रीकुर्वन्तं व्यवहारादिकं भारतेन त्याज्यम् इत्यपि सः अवदत्। काश्मीरेषु जातैः अक्रमैः बहूनां कृते बान्धवाः नष्टाः जाताः,तेषु कैश्चित् जनैः कृतं स्यात् आक्रमणम् इति नवास् षेरीफेण लण्टन् मध्ये अभिमुखवेलायाम् अवदत्। नवास् षेरीफेण उरी भीकराक्रमणं परोक्षतया अङ्‌गीक्रियमाणस्यास्य प्रतिकरणस्योपरि विश्वनेतृणां विमर्शनान्यपि आगतानि सन्ति।

२० लक्षपर्यन्तं जि एस् टि करग्रहणं नास्ति।  
             नवदहली > जि एस् टि करसम्प्रदाये परिधिः २० लक्षम् इति निश्चितम्। भारसेवनकरसमिते: प्रथमाधिवेशने एव निर्णयोऽयं स्वीकृतः। तथा च २० लक्षात् न्यूनं वार्षिकायं यानि स्थापनानि स्वीकुर्वन्ति, तानि जि एस् टि करग्रहणसीमायाः अधः भवन्ति। तथापि उत्तरपूर्वप्रान्तेषु केवलं १० लक्षमेव कररहिता अधः सीमा इत्यपि निश्चीयते।२० लक्षादुपरि सार्धैककोटिपर्यन्तं विक्रयणयः राज्यसर्वकारस्य कृते दीयेत। सार्धैककोटेः अधिकतया विक्रयणायः समागच्छति चेत् तत् करधनं द्वाभ्यां राज्यकेन्द्रसर्वकाराभ्यां मिलित्वा ग्रह्यते।

Saturday, September 24, 2016

संस्कृतविश्वविद्यालयानां महाविद्यालयानां च मूल्याङ्कनं भविष्यति 
 संस्कृतभाषाया: विकासार्थं एन.गोपालस्वामिकम्मीशनस्य निदेशः परिगण्यते 
 बेंगलूरु> बेंगलूरुनगरे राष्ट्रियमूल्यांकनप्रत्यायनपरिषदः सभागारे संस्कृतविश्वविद्यालयानां महाविद्यालयानां च मूल्यांकनार्थंसमितेः उपवेशनं प्रचलति। उपवेशनं कम्मीशनस्य प्रस्तावानुसारेण भवति।  समितिरियं संस्कृतसंस्थानां विविधपक्षान् परिशील्य नियमानां निर्माणं करिष्यति। संस्कृतसंस्थानां मूल्यांकनार्थं सर्वेपि नियमाः संस्कृतभाषायामेव स्युः इति परिषदः निदेशकः प्रो. धीरेन्द्रप्रतापसिंहः न्यवेदयत्। समितौ प्रो.हरेकृष्णशतपथी (उपाध्यक्षः ) श्रीनिवासवरखेडी, रमाकान्तपाण्डेयः विरूपाक्षजड्डीपालश्च सन्ति। इयं समितिः मासत्रये नियमान् निर्माय परिषदे समर्पयिष्यति। संस्कृतभाषाया: विकासार्थं मानवसंसाधनविकासमन्त्रालयेन निर्मिता भवति एन.गोपालस्वामिकम्मीशन्।
पाकिस्तानेन सह क्रिकट् समाप्यते-बि सि सि ऐ। 
 कोष़िकोट्(केरलम्) > उरी भीकराक्रमणात्परं भारत-पाकिस्तानयोः बान्धवः अनुदिनं दुष्करावस्थां प्रापयन् वर्तते। इदानीं भारत-पाकिस्तानयोः क्रिकट् बान्धवः अपि दूषयन् वर्तते। पाकिस्तानेन सह क्रिकट् मध्ये बान्धवं परिसमापयितुं बि सि सि ऐ पक्षतः आलोचना वर्तते इति अध्यक्षेण अनुरागठाकुरेण अवदत्। सैनिकानां प्राणानपेक्षया क्रिकट् कीडायाः किमपि प्राधान्यं नास्तीति तेन उक्तम्। भा ज पा दलस्य सामाजिकः सः कोष़िकोट् मण्डले दलस्य राष्ट्रियनिर्वाहकसमित्याः अधिवेशने भागं गृहीत्वा भाषमाणः आसीत्। वर्षेऽस्मिन् पाकिस्तानेन सह क्रीडा नैव निश्चिता, इतःपरं कीडा आवश्यकी वा इति चिन्तनीयं वर्तते-तेन उक्तम्।


 RN2 प्रथमनिकषस्पर्धा : - न्यूसिलान्ट् सुरक्षितस्थाने।
   काण्पुर् > भारतेन सह निकषस्पर्धापरम्परायाः प्रथमस्पर्धायां न्यूसिलान्ट् द्वितीयदिनस्य समापनसमये सुरक्षितस्थानं प्रापयत्।वृष्ट्या द्वितीयदिनस्य क्रीडा पूर्वमेव समापिता। तदानीं न्यूसिलान्ट्   १५२-१ इति सुरक्षितस्थाने भवति। अर्धशतकेन नेता केयिन् विल्यंसः टों लाथं च पादक्षेत्रे भवतः। प्रथम इन्निङ्‌स् मध्ये भारतं न्यूसिलान्टेन ३१८ धावनङ्केषु निष्कासितं वर्तते।

 RN3 सम्भाषणोपयोगाय मूल्यं नास्ति-विपणीं ग्रहितुं बिएस्एन्एल् अपि।
  नवदहली > वार्ताविनिमयसेवनमण्डले  सेवनदातृणां मध्ये स्पर्धा।सेवनेभ्यः(अन्तर्जालसहितेभ्यः)न्यूनमूल्यैः सह मुकेष्‌ अम्बानेः रिलयन्स् जियो इति संस्थया एव प्रथमं पद्धतिराविकृता। इदानीं सर्वकारसामान्यमण्डलस्य बिएस्एन्एल् संस्थया अपि मूल्येषु न्यूनत्वम् आविष्कृतं वर्तते। सम्भाषणाय विना मूल्यं सौकर्यं दातुमेव बिएस्एन्एल् पद्धतिः इति सूचना। किन्तु आनुकूल्यमिदं डिसम्बर् मासात्परमेव लप्स्यते। रिलयन्स् जियो संस्थायाः प्रवर्तनादिकं निरीक्ष्य एव बिएस्एन्एल् संस्थया नूतनमानुकूल्यं दीयते। जियो द्वारा ४जी उपभोक्तॄणां कृते एव आनुकूल्यं चेत् बिएस्एन्एल् द्वारा २जी,३जी उपभोक्तॄणां कृतेऽपि आनुकूल्यं दीयते इत्येतत् सविशेषता भवति। अधुना बिएस्एन्एल् द्वारा रात्रिकालेषु तथा रविवासरेषु च सेवनं निशुल्कतया भवति।

Friday, September 23, 2016

भारतेन पाकिस्तानस्य आतङ्कवादसमर्थनमालोचितम्
नवदेहली > संयुक्तराष्ट्रमहासभायां भारतेन 'राइट टू रिप्लाई' इत्यधिकारान्तर्गतं आतंकवादः मनवाधिकारस्य बृहत्तमोल्लंघनत्वेन प्रतिपादितम् । भारतेन पाकिस्तानद्वारा दीर्घकालात् विधीयमानमातंकवादसमर्थनमपि भृशमालोचितम्  ।

प्रतिशतं सप्तमितं विकासदरलक्ष्यम् अधिगन्तुं देशस्य आधारिकसंरचनायां बृहन्निवेशाय सज्जीभवितव्यम् 
नवदेहली >केन्द्रीय वित्तमंत्रिणा अरुणजेटलिना भणितं यत् प्रतिशतं सप्तमितं विकासदरलक्ष्यम् अधिगन्तुं देशस्य आधारिकसंरचनायां बृहन्निवेशाय सज्जीभवितव्यम् असौ नवदिल्ल्यां इंफ्रास्ट्रक्चर फाइनेंसिग-  पब्लिक प्राइवेट पार्टनरशिप (पीपीपी) इत्यनेन  संबद्धब्रिक्सदेशानां एकस्याम् गोष्ठ्यां अभिभाषते स्म ।


नवदिल्ल्यां राष्ट्रिय प्रबंधनसम्मेलनम्
 नवदिल्ल्यां ऑल इंडिया मैनेजमेंट एसोसिएशन इत्यत्र राष्ट्रीयप्रबंधनसम्मेलनं संबोधयता केंद्रीयसूचनाप्रसारणराज्यमंत्रिणा  राज्यवर्धनराठौरेण कथितं यत् साम्प्रतिक: कालः  भारताय  विकासस्य समयः वर्त्तते।  देशे संभावित-विपणी-दृढ-इच्छाशक्तिश्च विद्येते।
मुम्बय्यामपि भीकरसान्निध्यम्?
मुम्बई > नगरात् सप्तचत्वारिंशत् कि.मी दूरस्थे उरान् प्रदेशे भीकराः प्रत्यक्षीभूताः इति वृत्तान्तमनुसृत्य मुम्बय्यामपि अतिजाग्रतानिर्देशः।
    पत्तान् नामक  पाकिस्तानीयवस्त्राणि धृतवन्तः आयुधधारिणः केचन पुरुषाः दृष्टा इति उरान् एजूकेशन् सोसाइटी विद्यालयस्य छात्राः स्वीयाध्यापकान् न्यवेदयन्। अध्यापकेभ्यः वृत्तान्तं ज्ञातवन्तः आरक्षकाधिकारिणः नौसेनया स्थलसेनया तीररक्षासेनया च साकम् अन्वेषणम् आरब्धवन्तः। सामान्यजनेभ्यः जाग्रतानिर्देशः कृतः च।
RN4- अनुवैद्यानां वेतनव्यवस्था परिष्कृता। 
नवदेहली > वैयक्तिकार्यातुरालयेषु सेवनं कुर्वताम् अनुवैद्यानां वेतनं परिष्कृतम्। एतदर्थं केन्द्रमन्त्रिसभया निर्देशः दत्तः। सर्वकारातुरालयेषु परिपाल्यमानवेतनव्यवस्थायाः आनुपातिकतया वेतनं परिष्कर्तुमेव केन्द्रसर्वकारस्य निर्देशः। तथा च एतेषां वेतनं न्यूनातिन्यूनं २०,००० रुप्यकाणि इत्यनुपाते भविष्यति। वैयक्तिकार्यातुरालयेषु अनुवैद्यानां वेतनव्यवस्थां सम्बन्ध्य उच्चतरन्यायालयस्य विदग्धसमित्याः निर्देशानुसारमेव केन्द्रसर्वकारस्य वेतनपरिष्करणम् । केन्द्रसर्वकारेण परिष्करणं सम्बन्ध्य निर्देशः राज्यस्तरीयान् आरोग्यकार्यदर्शिनः प्रति दत्तः वर्तते।

Thursday, September 22, 2016

उरी मध्ये सुरक्षाहानिः सञ्जाता - प्रतिरोधमन्त्री। 
नवदहली > उरी भीकराक्रमणाय सुरक्षाहानिरपि कारणं भवतीति अङ्‌गीकृत्य प्रतिरोधमन्त्री मनोहर् परीकरः ।उरी भीकराक्रमणाय सुरक्षाहानिरेव कारणमिति मुख्यप्रतिपक्षेण काण्ग्रस् दलेन तथा माध्यमप्रवर्तकैश्च आरोपितमासीत्। केषुचित् कार्येषु हानिः सञ्जाता, इयम्‌ अतिवैकारिकी समस्या एव , न्यूनताः अवश्यमेव परिह्रियन्ते-मनोहर् परीकरेण उक्तम्। अपि च जल्पनं विना कर्मणः एव वयं प्रामुख्यं दद्मः इति तेन सूचितम्।

 तमिल्नाटु कृते जलं न दीयते- कर्णाटकमन्त्रिसभा ।  
बङ्‌गलुरु > कावेरी नदीजलतर्के उच्चतरन्यायालयस्य आदेशं तृणवदवगणयन् कर्णाटकराज्यम्। कावेरी पर्यवेक्षणसमित्या ३००० क्यूबिक्स् जलं तमिल्नाटु कृते दातव्यमिति निर्देशः दत्तः आसीत्।किन्तु उच्चतरन्यायालयस्य न्यायासनेन ६००० क्यूबिक्स् जलं दातव्यमिति गतदिने आदेशः दत्तः। अयं निर्देशः न पालनीयः इत्येव कर्णाटकमन्त्रिसभायाः निश्चयः। बुधवासरे रात्रौ मुख्यमन्त्रिणः सिद्धरामय्यस्य आध्यक्षे जाते मन्त्रिसभायोगे एव तमिल्नाटु कृते उच्चतरन्यायालयस्य आदेशानुसारं जलं न दातव्यमिति निर्णयः स्वीकृतः वर्तते। गतदिने संवृत्ते सर्वदलाधिवेशने अपि उच्चतरन्यायालयस्य आदेशः न अङ्‌गीकरणीयः इति निश्चितमासीत्।

प्रतिरोधमण्डलस्य शक्तीकरणाय ३६ राफेल् युद्धविमानान्यपि। 
 नवदहली > प्रतिरोधमण्डलस्य शक्तीकरणाय ३६ राफेल् युद्धविमानानि फ्रान्स् तः स्वीकर्तुं मन्त्रिसभायाः अनुमतिः। एतत्सम्बन्धे उभयसम्मतपत्रे भारतं शुक्रवासरे हस्ताक्षरं करिष्यति। तदर्थं फ्रञ्च् विदेशकार्यसचिवः षीन्ले ड्रियान्‌ अद्य भारतं प्राप्नोति। ८८० कोटि डोलर् (६०,००० कोटि रुप्यकाणि) भवति अस्याः पद्धतेः धनव्ययः। भारतव्योमसेनायाम् एतादृशयुद्धविमानानाम्‌ अपर्याप्तता अधिका इति व्योमसेनाध्यक्षेण एयर् चीफ्‌ मार्षल् अरूप् राहेन पूर्वमेव सूचितमासीत्।
भारत-न्यूसिलान्ट् क्रिकट् निकषस्पर्धा अद्य आरभते। 
काण्पूरम्> भारत-न्यूसिलान्टराष्ट्रयोः अस्य कालकृतस्य प्रथमक्रिकट् निकषस्पर्धा काण्पुरे अद्य आरभते। भारतस्य पञ्चशततमा निकषस्पर्धा इति विशेषः अप्यस्ति।अत एव सच्चिन् टेण्टुल्करः, वेङ् सर्कारः, मुहम्मद् अस्हरुद्दीनः इत्यादीनां
 क्रिकट् प्रतिभाशालिनां सान्निध्यमपि प्रतीक्षते।
      ५००तमां इमां स्पर्धां भारते अविस्मरणीयां कर्तुं नायकस्य विराट् कोलिनः संघः सिद्धताम् आप्तः।  किन्तु भारतस्य प्रमुखक्रीडकेषु शीघ्रक्षेपकः इशान्त् शर्मा चिक्कुन् गुनिया रोगेण पीडितः इत्यतः प्रथमस्पर्धायां न क्रीडिष्यति।
  RN5 रेल्वे धनव्ययगणनपत्रिका अस्तंगता।
  नवदहली > ९२ वर्षेभ्यः पूर्वमारब्धं रेल्वे आयव्ययपत्रिकावतरणं केन्द्रसर्वकारेण समाप्यते। रेल्वे आयव्ययपत्रिका इतः आरभ्य सामूहिकाव्ययपत्रिकया सहैव समर्प्यते। तदर्थं केन्द्रमन्त्रिसभया अनुमतिः दत्ता। केन्द्र-आयव्ययपत्रिकावतरणं जनुवरिमासे कर्तुमपि धनमन्त्रालयेन अभ्यर्थितम्। अनेन नूतनार्थिकवर्षस्य कृते आवश्यकं सज्जीकरणादिकं कर्तुं समयः लप्स्यते इति धनमन्त्रालयः सूचयति। रेल्वे आयव्ययपत्रिकायाः केन्द्र-आयव्ययपत्रिकया सह अवतरणेन धनव्ययोऽपि न्यूनीकर्तुं शक्यते। ९२ वर्षेभ्यः पूर्वम् आङ्गलभरणादिकारिभिः एव द्वयोरपि आयव्ययपत्रिकयोः व्यतिरिक्तावतरणम् आरब्घम्।

RN6 क्रिकट्- एम्.एस्.के. प्रसाद: चयनसमिते: अध्यक्षः।

एम्.एस्.के प्रसादः
 मुम्बई > भारतस्य भूतपूर्वः क्रीडकः एम्.एस्.के प्रसादः देशीयक्रिकट्सङ्घचयनसमितेः अध्यक्षस्थानम् आरूढवान्। भारतस्य भूतपूर्वः द्वारकपालकबल्लकः भवति एम् एस् के प्रसादः। मुंबई मध्ये संवृत्ते बि सि सि ऐ वार्षिकयोगे एव प्रसादस्य चयनमभवत्। अधुनातनाध्यक्षस्य सन्दीप् पाटीलस्य स्थाने एव तस्य आरोहणम्। चयनसमित्‍यां पञ्च अङ्‌गाः सन्ति। कनिष्ठक्रीडकाणां चयनसमितेः अध्यक्षः वेङ्‌कटेष् प्रसादः भवति।

RN
DM 01झारखंडः अौद्यौगिक विकासस्य केन्द्रम् अस्ति - मुख्यमन्त्री
रांची> झारखंडः अौद्यौगिक विकासस्य केंद्रः अस्ति, अतः अत्र निवेश्य करोतु इति झारखंडस्य मुख्यमन्त्री रघुवर दासः अकथयत् । सः मंगलवासरे मुंबईनगरे झारखंड मोमेंटम नामधेये एकस्मिन् सम्मेलने प्रांतस्य विकासाय स्वेच्छां स्थापितवान्। अष्ट अौद्यौगिक समूहाः झारखंडे कार्यं कर्तुम् इच्छन्ति । कार्यक्रमेषु रघुवर दासेन सह झारखंडमंत्री सीपी सिंहः नीरा यादवः च अपि अासीत्।

Wednesday, September 21, 2016



Sanskrit News 21/09/2016
Meenakshi N V, BSUPS Kalady.
उरी मध्ये पुनरपि भीकराक्रमणम्‌- एकः सैनिकः दश भीकराश्च हताः। 
 श्रीनगर् > जम्मू-काश्मीरे उरी मण्डले भीकराक्रमणम्‌ अनुवर्तते। ह्यः सञ्जाते आक्रमणे एकः सैनिकः दश भीकराश्च हताः। लाच्चिपुरा प्रविश्यायां प्रवेष्टुम् उद्युक्तं भीकरसंघं भारतसेना प्रत्यरुधत् । संघे १५ भीकरा: आसन् इति सूचना अस्ति। तेषु सेना१० भीकरान् अवधीत्।, ५ च पलायनमकुर्वन्। नौगामिति अन्यस्मिन् प्रदेशे जाते संघर्षे एकः सैनिक: च हतः।

दशरूप्यकाणां नाणकम् उपयोगप्रदम् - आर् बि ऐ । 
नवदहली > दशरूप्यकाणां नाणकं भारते यत्र कुत्रापि उपयोक्तुं शक्यते इति आर् बि ऐ। नाणकमिदं स्वीकर्तुं विमुखतां प्रदर्शयतामुपरि दण्डनव्यवहारं स्वीकरिष्यति इत्यपि आर् बि ऐ वक्त्रा स्पष्टीकृतम्। दशरूप्यकाणां नाणकं निरोधितं भवतीति केषुचित् सामूहिकमाध्यमेषु वार्ता: प्रचलिताः आसन्। तत् दृष्ट्वा केचन आपणिकाः विविधेषु यानेषु कर्मकराः च एतत् नाणकं स्वीकर्तुं विमुखताम् अप्रदर्शयन्। अत एव रिसर्व् बाङ्क् पक्षतः नूतनविशदीकरणं दत्तं वर्तते। नाणकनिरोधनविषये न कोऽपि निर्णय: स्वीकृतः इति आर् बि ऐ वक्त्रा अल्पना किलावालेन सूचितम्। अपि च सामान्यजनाः कमपि सन्देहं विना नाणकस्यास्य उपयोगं कुर्वन्तु इति तेन उक्तम्।

केन्द्रसर्वकारं विमर्श्य राहुल्गान्धिः।
नवदहली > केन्द्रसर्वकारस्य विदेशनयान् तथा भीकरविरुद्धव्यवहारान् च विमर्श्य काण्ग्रस् उपाध्यक्षः राहुल्गान्धिः। मोदीसर्वकारस्य विदेशनयाः, आतङ्गवादप्रतिरोधव्यवहाराः च सम्पूर्णपराजयाः एवेति राहुल्गान्धिना उक्तम्। राष्ट्रसुरक्षायां सर्वकारस्य कापि श्रद्धा नास्तीति तेन उक्तम्। पठान्‌कोट् आक्रमणात्परमपि सञ्जाता सुरक्षा हानिमेव उरी आक्रमणं सूचयति इति राहुलेन प्रस्तावितम्।'तन्त्रप्रधानां काश्मीरसमस्यां प्रति मोदीसर्वकारेण श्रद्धा नैव दीयते, सामूहिकयोगनियन्त्रणमिव देशीयसुरक्षा सुकरा नैव भवतीति केन्द्रसर्वकारेण प्रत्यभिज्ञातव्यम्'- राहुलेन सूचितम्। अपि च एन् डी ए शासनकालेऽस्मिन् समये यु पि ए शासनकालादपेक्षया भीकराक्रमणादिकम् अधिकं भवतीति तेन अभिप्रेतम्।
 RN1 सार्क् मेलनं बहिष्कर्तुं पर्यालोचना।
   नवदहली > उरी भीकराक्रमणे पाकिस्तानस्य योगदानम् अस्तीति चिन्त्यमानेऽस्मिन् समये नवम्बर् मासे पाकिस्ताने इस्लामाबादे संपत्स्यमानं 'सार्क्' मेलनं बहिष्कर्तुं भारतस्य पर्यालोचना। भीकरवादाक्रमणाय पाकिस्तानेन साहाय्यं दीयतेत्यतः अन्ताराष्ट्रवेदिकासु पाकिस्तानस्य निराकरणमेव अस्य लक्ष्यं वर्तते। नवम्बर् ९,१० दिनाङ्कयोरेव इस्लामाबादे सार्क् राष्ट्राणां मेलनम्। भारतं प्रति सहयोगं प्रकटय्य बङ्गलादेश्, अफ्‌गानिस्तान् च सार्क् मेलनं बहिष्कुरुतः इत्यपि सूचना अस्ति। दक्षिणेष्यराष्ट्राणां संस्थायामस्यां ८ राष्ट्राणि सन्ति।
साधारणकक्षासु दीर्घदूरचिटिकाः न दीयन्ते!
कोच्ची> केरलतः उत्तर-पूर्वदिशः गच्छत्सु रेल् यानेषु अनारक्षितकक्ष्यासु दीर्घदूरयात्रार्थं चीटिकाः न दातव्याः इति रेल् यानमन्त्रालयस्य रहस्य निर्देशः! सामान्यचीटिकाप्राप्त्यनन्तरं आरक्षितकक्षाः अनधिकृतया प्रविशद्भ्यः यात्रिकेभ्यः जायमानान् अस्वारस्यान् अपाकर्तुमेव अयं निर्देशः कृतः। ह्रस्वदूरयात्राभ्यः चिटिकाः  केवलमधुना सामान्यकक्षाः उद्दिश्य लभन्ते। विशिष्य, मध्याह्नानन्तरम् अयं निर्देशः कर्कशेन पालनीयः इति वाचा आदेशः। षालिमार् एक्स्प्रेस् , गुरुदेव् एक्स्प्रेस्, गुहावत्ती - पाट्ना -बोक्कारो एक्स्प्रेस् आदिषु यानादिषु पूर्वोक्तनियन्त्रणं प्रवृत्तिपथमागतम्। केरलेतरराज्यीयान् कर्मकरान् अयं निर्देशः बाधते। ते पालक्काट् वा कोयम्पत्तूर् गत्वा सामान्यकक्षासु दीर्घदूरयात्राचीटिकाः सम्पादयन्ति। अतः केरलस्य रेल्याननिस्थानानां आयनष्टम् अपि जायते।

 सिरियायां यू एन् संघं प्रति व्योमाक्रमणं - २१ मरणानि।
अलेप्पो [सिरिया]> अत्र नगरसमीपं दुरिताश्वाससामग्रीभिः गम्यमानं ऐक्यराष्ट्रसभायाः वाहनव्यूहं प्रति संवृत्ते व्योमाक्रमणे एकविंशति जनाः मारिताः। तेषु २० तत्रत्याः जनाः अन्यः 'रेड् क्रसन्ट्' संस्थायाः वरिष्ठप्रवर्तकश्च । अतः सुरक्षाकारणेन सर्वाणि दुरिताश्वासप्रवर्तनानि अवस्तम्भितानि इति ऐक्यराष्ट्रसभया निगदितम्। ७८००० जनेभ्यः भक्षणसहितानि वस्तूनि वहन्तं वाहनव्यूहं प्रति आसीत् व्योमाक्रमणम्। गतदिने सिरियासैन्यैः आक्रमणं प्रत्यर्प्य होराणामाभ्यन्तरे आसीत् इदमाक्रमणम्।
सोपानम्-12 Meenakshy N V, BSUPS Kalady.

Tuesday, September 20, 2016

 उपभोक्तॄन् आकर्षयितुं नूतनोपायान् अवतार्य बि एस् एन् एल्।
    
 नवदहली > उपभोक्तॄन् आकर्षयितुं नूतनोपायान् अवतार्य सेवनम् अभिवर्धयितुं बिएस्एन्एल्। तदर्थम्‌ आविष्कृतायाः"सेर्वीस् वित् ए स्मैल् (स्वास्)" इति पद्धत्याः अनुबन्धतया श्वः १२ वादने बिएस्एन्एल् सि एम् डि अनुपं श्रीवास्तवेन केरलीयैः उपभोक्तृभिः सह संवद्यते। सामूहिकमाध्यमेन ट्विट्टर् द्वारा एव एकघण्टात्मकः संवादः आयोजितः वर्तते। स्वाभिप्रायान् निर्देशान् च प्रस्तौतुम् उपभोक्तॄणां कृते सन्दर्भः अपि लप्स्यते। तदर्थं "टाक्‌टुबिएस्एन्एल्सिएम्डि (Talk ToBSNLCMD)" इति हाष्टाग् अपि सज्जीकृतमस्ति।
ऋग्वेदग्रन्थे संस्पृश्य ब्रिटीष्‌ सामाजिकस्य सत्यप्रतिज्ञा।
  ब्रिटण् > १६७ वर्षाणां पुरातनत्वम् अनुमीयन्तं संस्कृतग्रन्थं हौस् ओफ्‌ लोर्ड्स् कृते समर्प्य भारतवंशजः युवसामाजिकः। ब्रिटणस्य विधानसभायां युवसामाजिकः जितेष् किषोर् कुमार् एव व्यत्यस्तशैल्यां सत्यप्रतिज्ञाम् अकरोत्। माक्स् मुल्लर् महोदयेन १७४९ तमे वर्षे सम्पादितं संस्कृतभाषायां लिखितं ऋग्वेदग्रन्थं संस्पर्श्य आसीत् जितेष् किषोर् कुमारस्य सत्यप्रतिज्ञा ।
 
संस्कृतेन जन्मदिनामाशंसयन्- आप्पिल् संस्थायाः CEO

नव देहली >आप्पिलस्य स्वामी टिम् कुक्कः नरेन्द्रमोदिनः जन्मदिने संस्कृतेन शुभाशयाः प्रेषिताः। संस्कृतभाषा लोकभाषायाः गुरुस्थाने पुनरागच्छति इति वदन्ति संस्कृतप्रेमिणः। नरेन्द्रमोदिनः जन्मदिने टिट्वर् द्वारा आसीत् टिम् कुक्कस्य  आशंसा प्रकाशनम्। 'वसुधैव कुटुम्बकम्' (भवतु आवयोः) इति उक्त्वा सः मोदिनं मुदितवान् । नरेन्द्रमोदिनः सप्तषष्टितमं जन्मदिनमासीदिमम्। राष्ट्रान्तरात् सन्देशप्रलयाः आसन् अस्माकं प्रधानमन्त्रिणे।

 RN5  तमिल्नाडु कृते जलं दातव्यम् - कावेरी पर्यवेक्षणसमितिः।
     नवदहली > कावेरी नद्याः जलं तमिल्नाडु कृते अपि दातव्यम् इति कावेरी पर्यवेक्षणसमित्याः आदेशः। कावेरी नद्या: प्रतिदिनं ३००० क्यूबिक्स् जलं दातुमेव समित्याः नूतननिर्देशः। अस्य मासस्य ३० दिनाङ्कपर्यन्तं जलं दातव्यमस्ति। समित्‍याः नूतननिर्देशेन कर्णाटके तमिल्नाडु मध्ये च आक्रमणप्रवर्तनाय उपपत्तिरस्तीत्यतः सुरक्षाक्रमीकरणादिकं शक्तं कर्तुं राज्यसर्वकारयोः केन्द्रसर्वकारेण निर्देश: दत्तः वर्तते।


 उरी भीकराक्रमणम् अपलप्य बान् कि मूण्।
युणैटड् नेषन्स् > उरी भूसेनास्थानं प्रति जातं भीकराक्रमणम् अपलप्य यु.एन् अध्यक्षः बान् कि मूण्। आक्रमणस्य दायित्वां वहतां भीकराणां दण्डनव्यवहारः नियमानुसृतं करणीयः इत्यपि तेन अभिप्रेतम्। काश्मीरदेशवासिनां जीवनावस्थायाः उपरि यु एन् संस्थायाः आशङ्का अनुदिनं वर्धत एव इति तेन सूचितम्। आक्रमणेन मृतानां सैनिकानां कुटुम्बाङ्गेभ्यः भारतसर्वकाराय च बान्‌ कि मूण् महोदयेन अनुशोचनं निवेदितम्।

पाकिस्तान् युद्धम् इच्छति चेत् वयं सज्जाः एव - विजेन्दरः।
  नवदहली > जम्मुकाश्मीरे उरी मण्डले गतदिने जातं भीकराक्रमणं सम्बन्ध्य पाकिस्तानस्योपरि रूक्षविमर्शनेन सह भारतीय: मुष्टियुद्धक्रीडकः विजेन्दरसिंहः। पाकिस्तानराष्ट्रं युद्धमेव इच्छति चेत् वयं भारतीयाः तदर्थं सज्जाः इति सः ट्विटर् द्वारा असूचयत्। मृतेभ्यः १७ सैनिकेभ्यः स्वानुशाेचननिवेदनवेलायामेव विजेन्दरेण एवम् अभिप्रेतम्‌।


उरी भीकराक्रमणम् - मरणसंख्या २० ।  
श्रीनगर् > जम्मू काश्मीरे उरीमध्ये जाते भीकराक्रमणे वीरमृत्‍युं प्राप्तानां सैनिकानां संख्या विंशति: अभवत्। सैनिककेन्द्रं प्रति गतदिने जाते आक्रमणे १७ सैनिकाः हताः आसन्। व्रणितेषु सैनिकेषु ३ अपि ह्यः मृत्युं प्राप्ता:। अपि च आक्रमणस्य सूत्रधारेषु एकस्य चित्रं बहिरागतं वर्तते।भीकरेभ्यः प्राप्तानाम् आयुधानाम् आक्रमणस्थलस्य च चित्राणि वार्तसंघः ए.एन्.ऐ प्रसिद्धीकृतानि।


उरी आक्रमणं - भारतस्य प्रत्याक्रमणं प्रतिरोद्धुं पाकिस्तानराष्ट्रं सज्जम्। 
इस्लामाबाद् > जम्मुकाश्मीरे उरी मण्डले जातं भीकराक्रमणं सम्बन्ध्य वादप्रतिवाद: न पर्यवसति। प्रत्याक्रमणाय भारतसेना सज्जा इति वार्तायाः सन्दर्भे, भारतस्य प्रत्याक्रमणं प्रतिरोद्धुं पाकिस्तानस्य सेना अपि शक्ता एवेति पाक् सैनिकाध्यक्षः रहील् षरीफेण अभिप्रेतम्‌। आक्रमणात्परं मण्डलेषु जायमानानि सविशेषकार्याणि निरीक्षितुम् आवश्यकः व्यवहारः पाकिस्तानेन स्वीकृतः इति तेन सूचितम्। रावल्पिण्डी मध्ये सैनिकास्थाने जाते सैनिकोद्योगस्थानां योगे एव तेन एवमभिप्रेतम्‌। काश्मीर् विषयात् व्यतिचलनाय एव भारतेन एतादृशम् आरोपणादिकम् उन्नीयते इत्यपि तेन उक्तम्।

केरळेषु रयिल् गातागतः भग्नः।
कोल्लम् > करुनागप्पिल्ली रयिल् निस्थानस्य समीपे कल्लुकटवु परिसरे रात्रौ १२:३० वादने एव दुर्धटना। रासोर्वरकाणि वहत् यानमेव अपघाते पतितम्। गमनमार्गे रयिल् पट्टायां संभूतं छिद्रं दुर्घटनायाः कारणम् । 'पासञ्चर्' यानानां यात्रा अवसिता । केरळेषु रयिलस्य पट्टयां भग्नता दृश्यन्ते इति गतमासे जातापघातस्य कारणमन्विष्यमाणेन समितिना सूचितम् आसीत् ।

संयुक्तराष्ट्रमानवाधिकारपरिषदि भारतेन पाकिस्तानराष्ट्रं तर्जितम्। 
भारतेन संयुक्तराष्ट्रमानवाधिकारपरिषदि  आतंकवादप्रकरणम् उत्थापितम् । जम्मू-काश्मीरे आतंक्याक्रमणे अष्टादशसैन्यकर्मिणां वीरगतेरनन्तरं भारतेन अन्ताराष्ट्रियपरिवेशे आतंकवादं विरुद्ध्य (ज़ीरो टालरेंस) इति शून्यसहिष्णुता नीतेः क्रियान्वयनम् अभियाचितम्  । परिषदः त्रयस्त्रिंशततमे सत्रे भारतेन परिषदः अध्यर्थितः यत् पाकिस्तानः निजदेशात् जायमानानं आतंकिगतिविधीनां प्रवर्तम् अथ च आतंकवादिगुल्मानां समर्थनं न कुर्यादिति ।

Monday, September 19, 2016

मार्बल-संगमरमर-ग्रेनाइट-चेति प्रतलकुट्टिमप्रस्तराणां क्रयणाय नूतना आयाता नीतिः

नव दिल्ली >केन्द्रप्रशासनेन निर्माणोद्योगं सम्वर्धयितुं सौविध्यपूर्ण-आवासान् च केन्द्रीकृत्य  मार्बल-संगमरमर-ग्रेनाइट-चेति प्रतलकुट्टिमप्रस्तराणां क्रयणाय नूतना आयाता नीतिः प्रारब्धा, इयं हि अक्टूबरमासात्  प्रभावमायास्यति।

Sunday, September 18, 2016

RN1 जम्मू-काश्मीरे सैनिककेन्द्रं प्रति भीकराक्रमणम्‌ -१७ सैनिकाः हताः।
  श्रीनगरम् > जम्मू-काश्मीरे उरीमण्डले सैनिककेन्द्रं प्रति भीकराक्रमणम्‌। आक्रमणे १७ सैनिकाः हताः ८ व्रणिताः च। प्रत्याक्रमणे ४ भीकराः अपि हताः। प्रातः चतुर्वादनकाले आसीत् भीकराक्रमणम्‌। आयुधधारिणः भीकराः सैनिककेन्द्रं प्रति अनुस्यूततया गोलिकाप्रहारम् अकुर्वन्। सप्तघण्टात्मकं दीर्घतमं प्रत्याक्रमणं कृत्वा सैनिकैः मण्डलस्य नियन्त्रणं प्राप्तं वर्तते। विदेशयात्रादिकम् उपेक्ष्य आभ्यन्तरसचिवः राजनाथसिंहः जम्मू-काश्मीरं संद्रक्ष्यते। देशीयमार्गस्य तथा नियन्त्रणरेखायाश्च समीपस्थः प्रदेशःभवति उरी।
स्वदेशी क्षेपणायुध-नशीकरण-महानौका सज्जा।
 मुम्बई > भारतनाविकसेनायाः शक्तिवर्धनाय अत्याधुनिकसज्जीकरणैः सह क्षेपणायुधनशीकरणक्षमा 'मोर्मुगावो' नामिका महानौका प्रवर्तनसज्जा जाता। भारतेन स्वशीया निर्मिता भवति इयं महानौका। मुंबई मध्ये अद्य प्रातः द्वादशवादने समुद्रे नाविकसेनाध्यक्षस्य सुनिल् लाम्बस्य सान्निध्ये परीक्षणतया महानौकायाः प्रवर्तनमारब्धम्। किन्तु वर्षद्वयानन्तरमेव एव मोर्मुगावो भारतनाविकसेनाया: नियन्त्रणे भविष्यति। ततः परम् ऐ एन् एस् मोर्मुगावो इत्येव महानौकेयं व्यवह्रियते।

RN2. केन्द्र-स्वास्थ्यमन्त्रिणं प्रति मशीप्रयोग:।
         भोप्पाल् > भोपाल् एयिंस् कलालये केन्द्र-आरोग्यमन्त्रिणं जे पि नड्डां प्रति छात्राणां पक्षतः मशीप्रयोग:। एयिंस् अधिकृतान्‌ सन्दर्श्य प्रतिगमनवेलायामेव वैद्यबिरुदछात्राणां प्रतिकरणम् अभवत्। एयिंस् आतुरालयस्य सौकर्यादिकं वर्धितव्यम् इति उन्नीय समरं कुर्वन्तः पञ्चाशदधिकाः छात्राः एव लेखनद्रावकप्रयोगम् अकुर्वन्।समस्यापरिहाराय चर्चां कर्तुमपि मन्त्रिणा सन्नद्धता न कृता इत्यपि छात्रैः आरोपितम्।


RN3. मोहन् एम् शान्तनगौडर् केरलस्य उच्चन्यायालयस्य अध्यक्षः। 
नवदहली >  केरलस्य उच्चन्यायालयस्य अध्यक्षस्थाने न्यायाघिपः मोहन् एम् शान्तनगौडर् महोदय : नियमितः।राष्ट्रपतिना प्रणब् मुखर्जी महोदयेन तस्य नियमनं कृतम्‌। उच्चन्यायालयस्य आक्टिङ् चीफ् जस्टिस् आसीत् मोहन् एम् शान्तनगौडर्। एतेन साकं कोल्कत्ता, सिक्कीं, त्रिपुरा, मणिप्पूर् इत्यादिषु राज्येष्वपि उच्चन्यायालयेषु अध्यक्षानां नियमनमभवत्।।

 14 गोमातरं परिगण्य गूगिलस्य आदर्श-दर्शनम्।

लन्टन् > गूगिलस्य 'स्ट्रीट् व्यू' नाम आप् सङ्केतमुपयुज्य नगरस्य राजमार्गस्य दर्शनसमये सामान्येन मनुष्याणां मुखं द्रष्टुं न शक्यते। इदानीं मनुष्यसम-स्थान -मानानि गाम् प्रति दत्वा गूगिलः तस्य आदर्शं प्रदर्शितवान्। तस्मिन् आप्‌ मध्ये केम् ब्रिट्ज् परिसरस्थं को फैन् नामकं  पन्थानं  अन्विष्य गच्छति चेत्‌  तत्रत्याः केम् नद्याः तीरे चरन्तीं गां द्रष्टुं शक्यते। इतोsपि दृष्टिं विस्तार्य  (Zoom) वीक्ष्यते चेत्  मुखं मनुष्याणामिव अव्यक्तं भविष्यति। चित्रमिदम् इदानीं सामूहिक माध्यमेषु प्रसृतम् (virol) अभवत्। गवां व्यष्टि रूपेण लब्धः अङ्गीकारः एव अनेन प्रदर्श्यते इति बीबीसिना न्यवेदयत्। नव-सहस्राधिकैः जनैः विषयमिदं ट्विटर् द्वारा विचारितम्। द्विसहस्राधिक-लक्षं जनैः तत् स्नेहमयेन संस्थापितं च । ब्रिट्टनस्य पत्रपत्रिकाभिः गोमात्रे लब्धमानुकूल्यं साघोषं प्रकाशितम्।

सौम्यावधविषये विदग्धनीतिज्ञः नियोजयिष्यते।
पालक्काट्> सौम्यावधविषये गोविन्दच्चामिनः मृत्युदण्डने निरुद्धे सर्वोच्चन्यायालये सर्वकारेण  पुनःपरिगणनाभियाचना   समर्पयिष्यति इति केरलनीतिमन्त्रिणा ए के बालन् वर्येण उक्तम्। तदर्थं विदग्धं नीतिज्ञं नियोजयिष्यति।  तथा च प्रगत्भैः व्यवहारपण्डितैः सह चर्चित्वा सौम्यायाः नीतिलब्धये यतिष्यतेति केरलानां प्रतिपालकपतिः(Advocate General) सि पि सुधाकरप्रसादःअपि न्यगादीत्। अस्मिन् प्रकरणे सर्वकारस्य पुरतः विद्यमानः एक एव मार्गः भवति पुनःपरिगणना अभियाचना।

 R3 राष्ट्रियभक्ष्यसुरक्षाविधिः एतावत्पर्यन्तं केरल-तमिल्नाट् राज्याभ्यां न प्रतिष्ठापितः।
नवदिल्ली> केन्द्रसर्वकारेण आविष्कृतः राष्ट्रियभक्ष्यसुरक्षानियमः केरलेन तमिलनाटुना च यावच्छीघ्रं प्रवृत्तिपथमानेतव्य इति केन्द्रभक्ष्यमन्त्रिणा राम विलासपास्वानेन निर्दिष्टम्। भारते २७ राज्येषु ७ केन्द्रशासनप्रदेशेषु च एषः नियमः प्रावर्तिकः अभवदिति सः अवदत्। भूतपूर्वेण यू पि ए सर्वकारेणैव  जनोपकारप्रदा एषा पद्धतिः २०१३ संवत्सरे आविष्कृता। केरले तु एतदर्थं संगणकयन्त्रवत्करणस्य कालविलम्बः, गुणभोक्तृृृजनानां पट्टिकाकरणे अपाकः इत्यादिभिः कारणैः पद्धत्याः प्रस्तुतिः एतावत्पर्यन्तं नाभवत्। षण्मासाभ्यन्तरे पद्धत्याः प्रतिष्ठापनं कर्तुं शक्यतेति केरलानां भक्ष्यसचिवोत्तमया मिनि आन्टणि वर्यया न्यवेदितम्।


कावेरी जल विवाद:- स्टालिन-कनिमोषियो: बन्धनम्
 बाङ्गलूरु> कर्नाटक राज्ये तमिलजनानामुपरि जातान् आक्रमणान् विरुद्ध्य तमिलनाडु राज्यस्य वणिक कृषकसंघटनैः कृतकार्यावरोधस्य प्रभाव: दृष्ट:। कार्यावरोधस्य पक्षे डीएमके-एमडीएमके-सीपीआई-सीपीएम कर्तार: मिलितवन्त:। तथापि राज्ये  शासने आरूढा: एआईएडीएमके जना: कार्यावरोधात्  पराड़्मुखाः आसन्।
चेन्नै मध्ये डीएमके नेता एम के स्टालिनस्य नेतृत्वे राजारथीनम स्टेडियम त: एग्मोर रेल निस्थानं यावत् तस्यानुगामिनः संयुक्तप्रतिरोधप्रर्दशनम् उद्दिष्टिवन्तः। तत्रैव कनिमोषि बन्धिता तस्या: याचना वर्तते कावेरी जलविषये सर्वदलीयसभा भवतु इति।   

Saturday, September 17, 2016

मुख्यमन्त्रिणा सह द्विचत्वारिंशत् (४२)सामाजिकाः दलं त्यक्तवन्तः , अरुणाचलप्रदेशे कोण्ग्रस् दलस्य शासनं विनष्टम्। 
इट्टानगरम् > अरुणाचलप्रदेशराज्ये मुख्यमन्त्रिणः पेम खण्डोः नेतृत्वे त्रिचत्वारिंशत् विधानसभासामाजिकाः कोण्ग्रस्दलं त्यक्त्वा पीपिल्स् पार्टी आफ् अरुणाचलप्रदेश् नामकं राजनैतिकदलं प्राप्तवन्तः। अखिलभारतीयकोण्ग्रस् दलस्य महान् आघातः भवत्ययं विषयः। केवलं भूतपूर्वमुख्यमन्त्री नबां तुक्की कोण्ग्रस् दले अवशिष्टः एकः सामाजिकः।

Friday, September 16, 2016

 मानव-संसाधन-विकास-मन्त्रालयेन एक-दिवसीया परिचर्चा-संगोष्ठी
नवदेहली >राष्ट्रिय-पुस्तक-न्यासेन, मानव-संसाधन-विकास-मन्त्रालयेन, इण्डिया-एक्सपो-सेन्टर- इत्यनेन च संभूय एक-दिवसीया परिचर्चा-संगोष्ठी १६-सितम्बरे ग्रेटरनोएडा-स्थले आयोजिता । "संस्कृतभाषा भारतीय-संस्कृति: च" इति विषयाधृताया: संगोष्ठ्या: अध्यक्ष-पदं आचार्येण डॉ.रवीन्द्रनागरेण अलंकृतम् । न्यासनिदेशिका डॉ.रीता-चौधरी एतादृश्या: संगोष्ठ्या: आयोजन-प्रासंगिकत्वं ख्यापितवती। डॉ.बलराम-शुक्ल: डॉ.मनोजकुमारमिश्र: च संस्कृति-संस्कृतयो: इतिहास-प्रभाव-परम्परादि-विश्लेषण-पुरस्सरं विषयमेनं परिशीलितवन्तौ । डॉ.बलदेवानन्द-सागर: स्वीय-सुदीर्घानुभवान् विवर्णयन् संस्कृतस्य ध्वनि-विज्ञानात्मकं स्वरूपम् उपस्थापितवान् । गुजरातीभाषाया: सुख्यात: लेखक: श्रीभाग्येन्द्रपटेल: अस्य सुमहत:  सारस्वतानुष्ठानस्य संयोजनदायित्वं निरवहत्।
September 16- अद्य सम्प्रतिवार्तायाः जन्मदिनम्
www.samprativartah.in
samprativartah@gmail.com
WhatsApp-9400417084
काश्मीर् सन्दर्शनम् आवश्यकमिति यू एन् मानवाधिकारसमितिः , नेति भारतम्। 

जनीव >जम्मु काश्मीरे इदानींतनसंघर्षस्थितेः पश्चात्तले तत्र सन्दर्शनाय अनुमतिः दातव्येति ऐक्यराष्ट्रमानवाधिकारसमित्याः निर्देशः भारतेन निरस्तः। काश्मीरे संघर्षः पाकिस्तानस्य सृष्टिरिति भारतेन प्रत्युदीरितम्।
        किन्तु पाकिस्तानस्य बलूचिस्ताने प्रचलितं मनुष्याधिकारलंघनं भारतेन समित्याम् उन्नीतम्। पाक् अधीने काश्मीरे जनाः महत्पारतन्त्र्यम् अनुभवन्तीति भारतेनोक्तम्। तथा च भारताधीनकाश्मीर इति पाकिस्तानस्य परामर्शमपि भारतं रूक्षया भाषया व्यमर्शयत्। काश्मीरः भारतस्य अविभाज्यघटक इति भारतेनोक्तम्।

सौम्यावधः - गोविन्दच्चामिनः मृत्युदण्डः निरुद्धः। 
नवदिल्ली > २०११तमे संवत्सरे रेल् याने अतिनिष्ठुरतया बलात्कारेण पीडितायाः अनन्तरं मृत्युं प्राप्तायाः सौम्यायाः हत्याविषये  अपराधिनः गोविन्दच्चामी इत्यस्य मृत्युदण्डः  सर्वोच्चन्यायालयेन निरुद्धः। बलात्कारापराधाय उच्चन्यायालयेन विहितः जीवनपर्यन्तं  कारागारवासः सर्वोच्चनीतिपीठेनापि साधूकृतः।
    अपराधारोपितेनैव हननं कृतमिति उपपादयितुं सर्वकाराभिभाषकेण न साधितमिति त्रयाङ्गनीतिपीठेन निरीक्षितम्।

Thursday, September 15, 2016

भीकरान् विरुध्य- भारत-अफ्गानयोः सन्धि:।
 नवदेहली > भारतस्य प्रधानमन्त्रिणा मोदिवर्येण सह अफ्गानस्य राष्ट्रपतिना अषरफ् गनिना कृतायां चर्चायामेव अयं निश्चयः जातः। भीकरान् विरुध्य प्रवर्तनानि संयुक्ततया आयोजयतुमेव निश्चितवन्तौ । भीकराणां संरक्षणं आतङ्कवादिनां पोषणं च ये कुर्वन्तः सन्ति ते प्रतिनिवर्तनीयाः इति नेतारौ प्रचोदितौ। प्राथमिकसौविध्यविकासः, स्वास्थ्यं, कृषिः, ऊर्जं, शिक्षा, स्त्रीशक्तीकरणम् एतेषु विषयेषु अफ्गानेन सह भारतस्य साह्यम् उक्तवान् मोदिवर्यः।

अधित्यकायाम् अशान्तिः अनुवर्तते।
श्रीनगरं > जम्मु-काश्मीरे जनसञ्चय-रक्षिपुरुषवृन्दयोः संघर्षे लाघवं न जातम्। तयोर्मिथः संग्रामे पुरुषद्वयं मृतम्।अनेन सार्धैकमासाभ्यन्तरे सुरक्षासेनया सह संघर्षे हतानां संख्या ७८ अभवत्। इदानीं  नैकेषु जनपदेषु निरोधनाज्ञा प्रख्यापिता।

 केरळतःअप्रत्यक्षाः ऐ एस् प्राप्तवन्तः- ऐ एन् ए स्थिरीकरणम्।
नवदिल्ली > गतजूण् मासे केरलतः अप्रत्यक्षाः २२ जनाः इस्लामिक् स्टेट् नामिकायाः भीकरसंस्थायाः अफ्गानिस्थानस्थं शक्तिकेन्द्रं  प्राप्तवन्तः इति ऐ एन् ए संस्थया स्थिरीकृतम्। इरान् मार्गेण एव ते अफ्गानिस्थानं प्रापयन्नित्यपि स्पष्टीकृतम्।
      ऐ एस् बन्धमारोप्य यास्मिन् मुहम्मद् साहिद् नामिका युवती मासैकस्मात् पूर्वं गृहीत्री आसीत्। एतां प्रति कृतेन परिपृच्छनेनैव तेषाम् अफ्गानिस्थानप्राप्तिः स्पष्टीकृता।

Wednesday, September 14, 2016

 अखिले विश्वे केरळाः श्रावणमहोत्सवः आघुष्यन्ते।

अनन्तपुरी>अद्य केरळानां श्रावण महोत्सवः। विश्वस्य कोणे कोणे केरळाः श्रावण-सग्ध्या सह केरळैः अयं महोत्सवः आघुष्यते। नूतनानि वस्त्राणि धृत्‍वा परम्परानुसारेण अनुष्ठानेन च महोत्‍सवं अविस्मरणं कुर्वन्ति। पुराणप्रसिद्धः महाबलिः नाम असुर चक्रवर्ती केरळानपालयत्। सः झदा नीं प्रतिसंवत्सरं स्वप्रजां द्रष्टुम् आच्छति इति जनानां विश्वासः।

  
 विश्वस्य प्रथमं शीर्षसन्निवेशनशस्त्रक्रिया आगामीसंवत्सरे।
न्यूयोर्क्> भुवनस्य प्रप्रथमायै शिरस्सन्निवेशनशस्त्रविद्यायै उन्मुखः भवति, इट्टलीयः नाडीव्यूहशल्यतन्त्रज्ञः (Neurosurgeon) डो. सर्जियो कनावरो। रष्यादेशीयः वलेरी स्फिरिदोनोव् नामकः स्वस्य शिरस्स्थानान्तरणाय सन्नद्धः वर्तते। सङ्गणकयन्त्र-कार्यक्रमविदग्धः (computer programmer) वलेरी "वेर्डिङ् होफ्मान्" इत्याख्येन जनितकरोगेण पीडितः अस्ति। शरीरस्य स्नायवः नाडीकोशाश्च विनश्यन्तः रोगः भवत्येषः। चक्रासन्दमाश्रित्य जीवनं कुर्वतः  तस्य शरीरम् अनुदिनं शुष्यते च। एवं स्थिते स्वशरीरं  निष्कास्य शरीरान्तरस्वीकरणमेव  करणीयमिति तस्य अभिमतम्। मस्तिष्कमरणभूतस्य कस्यचन शरीरे वलेरी स्फिरिदनोवस्य उत्तमाङ्गस्य संस्थापनमेव लक्ष्यम्। एतदर्थं वलेरीशिरोनुयुक्तं शीर्षान्तरम् आवश्यकमस्ति।
      शिरःच्छेदनाय सुतार्या वज्रछुरिका उपयुज्येत।शीर्षसंस्थापनाय सविशेषं बकयन्त्रं , सुषुम्नानाडीनां पुनरेकीकरणाय पोलि एत्लिन् नामकवस्तु, सुषुम्नायाः नाडीव्यूहस्य च प्रवर्तनसुस्थितये इलक्ट्रोड् नामकसूक्ष्मवस्तुविशेषाः च उपयुज्येरन्। शस्त्रक्रियानन्तरं त्रि-चत्वारसाप्ताहिकेषु जीवच्छवरूपेण वर्तेत।शस्त्रक्रियायाः प्रतिशतं नवतिः विजयसाध्यता  डॉ.कनावेरोवर्येण कल्प्यते।

 सीरियादेशे संघर्षविरामः पुनरारब्धः

 सीरियायां  संघर्षविरामः पुनः प्रारब्धः, रष्या-अमेरिकाभ्यां साहमत्यानन्तरं  48 अष्टचत्वारिंशत् घण्टावधिकस्य संघर्षविरामस्य प्रारम्भः अभवत्, अस्योद्देश्यं  सीरियायां राजनैतिकसंकटस्य  समाधानं विद्यते।

सुषमास्वराज-दमित्रीरोगोजिनयोः मेलनम्

 रष्यायाः उपप्रधानमन्त्री दमित्रीरोगोजिनः  विदेशमंत्रीणं सुषमास्वराजं अमिलत् ,संभाषणं च समाचरत्। संभाषणेsस्मिन् विनिर्णीतं यत् भारत-रूसौ प्राविधिक- आर्थिकसहयोग-अंतरप्रशासन- आयोगस्य द्वाविंश सत्रस्य नेतृत्वं करिष्यतः। रष्यायाः राष्ट्रपतिः पुतिनः ब्रिक्सशिखरसम्मेलनाय अक्तूबरमासे भारतयात्रां करिष्यति।

 कावेरी जलविवादप्रकरणे कर्नाटकप्रशासनेन प्रधानमंत्रिणः हस्तक्षेपः अभियाचितः |
बेंग्लुरू> बेंग्लुरू नगरे मन्त्रिमण्डलस्य आपदुपवेशनानन्तरम् मुख्यमंत्री सिद्धरमय्य: घोषणेयं कृतवान् यत् राज्यप्रशासनं उच्चतमन्यायालयस्य निर्देशान् पालयिष्यति , अपि च  विधिव्यवस्थायाः उल्लंघनकर्तृन् विरुद्ध्य कार्याचरणं करिष्यति । प्रधानमंत्री नरेंद्रमोदी शांतिसंधारणाय तमिलनाडू- कर्नाटकयोः जनान् अध्यार्थयत्।  हिंसाचरणे दुःखम् प्रकटयन् अवोचत् यत् हिंसा कस्यापि समस्याया: समाधानं नैवास्ति केन्द्रीयसूचनाप्रसारणमंत्री एम वेंकैयानायडू वार्ताप्रसारणकाले  संयम निर्वहणाय निरदिशत्। बेंगलुरूनगरस्य कतिचित् स्थलेषु संचाररोधादेशः प्रवृत्तः। केंद्रप्रशासनेन तमिलनाडु कर्नाटकाभ्यां शांतिव्यवस्थायै यथासंभवसाहाय्यं समाश्वासितम्  अपि च कर्नाटके आरएएफ इति  विशेषापराधनिरोधीअर्धसैनिकबलं सन्नद्धम्

Tuesday, September 13, 2016

वार्तामुक्तकानिl
चण्डीगढ् > हरियाणा मुख्यमन्णः मनोहरलाल खट्टरस्य सुरक्षाभटः भुषुण्डिशुचीकरणमध्ये गोलकास्त्रेण आहतः।
लख्नौ >यू एस्- भारतयोः संयुक्तसैनिकाभ्यासः श्वः उत्तराखण्डे आरभ्यते। द्विसप्ताहकात्मके परिशीलने पञ्चशतं सैनिकाः भागभागित्वं वहन्ति।
लख्नौ >भ्रष्टाचारारोपणमनुसृत्य उत्तरप्रदेशे द्वौ मन्त्रिणौ मुख्यमन्त्रिणा अखिलेष् यादवेन निष्कासितौ। खनिविभागस्य गायत्री प्रजापतिः, पञ्चायत् राज् विभागस्यराजकिशोरः इत्येतौ एव निष्सितौ।
प्रोफ. जि.गङ्गाधरन् नायर् आद्रियते।
कोच्ची> संस्कृतभाषापण्डितः विश्वसंस्कृतप्रतिष्ठानस्य भूतपूर्वाध्यक्षः प्रोफ. जि. गङ्गाधरन् नायर् वर्याय शिष्यसमूहस्य संस्कृतानुरागिणां च "सप्ततिप्रणामः"।कालटी संस्कृतविश्वविद्यालयस्य सिन्डिकेट् सदस्यः, सम्प्रतिवार्तायाः मुख्योपदेष्टारेषु अन्यतमः गङ्गाधरमहोदयः सप्ततिं प्रविशन्नस्ति! ओक्टोबर् द्वितीये दिने तृप्पूणित्तुरा लायं कूत्तम्पलाड्कणे विश्वसंस्कृतप्रतिष्ठानस्य तथा अमृतभारति विद्यापीठस्य च नेतृत्वे संस्कृताध्यापक-विद्यार्थिसंगमः भविष्यति। सांस्कृतिककार्यक्रमाश्च भविष्यन्ति।
       एतदर्थं वाष़ूर् आश्रममठाधिपतिनः प्रज्ञानन्दतीर्थपादस्वामिनः मुख्यरक्षाकर्तृत्वे १०१ संख्यात्मकः स्वागतसङ्घः रूपवत्कृतः।

तमिष् राज्यजनानां संरक्षणमुद्दिश्य कर्णाटक- मुख्यमन्त्रिणे जयललितायाः लेखम्।
चेन्नै > कर्णाटकराज्यस्य मुख्यमन्त्रिणे सिद्ध रामय्यायै लेखं प्रेषितवती। तमिष़जनाः वृथामर्दिताः भवन्तिन्ति इति तया आरोपितः। द्वयोः राज्य योः मुख्यमन्त्रिभ्यां सह केन्द्र-अभ्यन्त्र मन्त्री राजनाथ सिंहः दूरवाणी द्वारा चर्चामकरोतत् कावेरी नदीजल विषये कर्णाटक राज्ये आक्रमणानि जायमानानि सन्ति। तमिष़् राज्ये पञ्चीकृतयानानि अग्निसात्कुर्वन्ति। तमिष़् जनानां आपणेषु च आक्रमणमकुर्वन् । केन्द्रसर्वकारः संघर्षमण्डलेषु सेनां विन्यस्य सुस्थितये यत्नं कुर्वन्नस्ति।
कावेरिविषये कर्णाटके कलापः, भुषुण्डिप्रयोगे एको हतः। 
बंगलुरु - कावेरीनदीजलं तमिल् नाट् राज्याय निर्गमयितव्यम् इति सर्वोच्चन्यायालयस्य आदेशं विरुध्य कर्णाटके सम्पन्नं हट्टतालमनुबन्ध्य कलापः समजायत। कलापकारिणः तमिल् नाट् राज्यस्थस्य के पि एन् ट्रावल्स्, एस् आर् एस् ट्रावल्स्  नामकस्थापनयोः  उपशतं बस्यानानि अग्निसात्कृतवन्तः। प्रक्षोभकारिणः निर्मार्जयितुं आरक्षकैः कृते भुषुण्डिप्रयोगे एकः  मृतः। कर्णाटकमुख्यमन्त्रिणः सिद्धरामय्यस्य गृहं प्रति अक्रमः जातः!

Monday, September 12, 2016


संस्कृतबालसाहित्ये जायन्ते नवकुसुमानि - बलदेवानन्दसागरः
नवदेहली> संस्कृतसाहित्यं तथा बालसाहित्यम् अपि इदानीं वर्धमानं भवतः इति वरिष्ठ-संस्कृतवार्तावतारकेण बलदेवानन्दसासागरेण उक्तम्।   श्री अरबिन्दो फ़ौन्टेशन्  द्वारा आयोजितायां संगोष्ठयां अतिथि भाषणं कुर्वन् आसीत्  सागरमहोदयः। राष्ट्रिय-संस्कृत-संस्थानस्य कुलपतिः डा. पि एन् शास्त्री वरिष्ठ: अतिथिः आसीत्। संपूर्णानन्द विश्वविद्यालयस्य भूतपूर्वकुलपतिः डा. अभिराजराजेन्द्रमिश्र महोदयः मुख्य भाषणम् अकरोत्। बालसाहितयस्य वर्धनं संस्कृतभाषायाः सुखबोधाय भविष्यति इति मुख्यभाषणे महोदयः अवदत्। अस्मिन् अन्तर्जालयुगे अपि बालकाः कथाश्रवणाय गानश्रवणाय च उत्सुकाः अतः संस्कृतभाषायामपि कथा-कविता श्रवणसन्दर्भः अस्माभिः करणीयः इति महर्षि वाल्मीकि कलाशालायाः प्राध्यापकः डा. प्रभाज्योत् कुलकर्णी महाभागेन उक्तम्। राष्ट्रिय-संस्कृतसंस्थानस्य भूतपूर्व कुलपतिः  राधावल्ल्भ् त्रिपाठी च स्वकीय भाषणे समाजस्य सुस्थितये संस्कृतभाषायाः तथा बालसाहित्यस्य आवश्यकताम् अधिकृत्य सूचितवान्।

 काश्मीर् अशान्तः - संघट्टने सप्त भीकराः एकः रक्षिपुरुषश्च हताः।
श्रीनगरम् > जम्मुकाश्मीरे पूञ्च् प्रदेशे सुरक्षासेनया त्रयः भीकराः हताः। संघट्टने एकः सुरक्षाभटः अपि मृत्युमुपगतः। कुप्वारा जनपदे नौगं भागे अतिक्रम्य प्रविष्टाः चत्वारःभीकराः सैन्येन निहताः। पूञ्च् आक्रमणस्य पश्चात् पाकिस्तानः इति काश्मीरस्य उपमुख्यमन्त्री निर्मल सिंहः आरोपितवान्।

 भारतीय-माहम्मदीयानां प्रमुखः जाकिरः वा ?- वेंकैया
नवदेहली >विवादास्पदस्य  इस्लामिकप्रचारकस्य  जाकिरनाइकस्य प्रशासनविरूद्धापराधान् अपसारयन्  वेंकैयानायिडूना साश्चर्यमुक्तं यत् धर्मस्य आश्रयमवाप्य किमसौ जाकिरनाइकः भारतीय माहम्मदीयानां प्रमुखः विद्यते । मुम्बय्यां शनिवासरे चतुष्पृष्ठात्मकं मुक्तपत्रं विलिख्य नाइकेन पृष्टमासीत् यत् आतंकवादस्य उपादानमधिगन्तुं तेन किम् कृतम् , आत्मानं विरुद्ध्य प्रख्यापितानामारोपाणां तार्किकमुत्तरं तेन अभियाचितम् । नाइकस्य  आरोपेषु आपत्तिं विदधानः नायडू अवदत् यत् जनाः  अपराधान् विधाय धर्म-जाति- क्षेत्र- भाषेत्येषाम आश्रये अधिगच्छन्ति येन  समर्थनम् अधिगच्छेयुः।

 स्टेनिलासवावरिंका यू एस् ओप्पेण् स्पर्धायां पुरुषद्वन्द्वे विजीतः, 
पुरुषाणां कृते एकान्तिमविजेता यू एस् ओप्पण् इत्यस्यां स्पर्धायां स्टेनिलासवावरिंका अनेन अन्तिमचक्रे  विगतवर्षस्य विजेता विश्वमानांके प्रथमस्थानभाजनीभूतश्च नोवाकजोकोविचः निर्णायकद्वन्दवे  6-7,6-4,7-5,6-3 अंकैः पराजितः।

Sunday, September 11, 2016

 ऐ एस् भीकरदलं विरुद्ध्य रष्य- अमेरिक्क्योः सख्यः।
 जनीव> सिरियायाः इस्लामिक भीकरान् विरुद्धयसंयुक्त समराय अमेरिका-रष्यायोः मिथः सख्य व्यवस्था अङ्गीकृता। इस्लामिक् स्टेट्‌, अल् ख्वैद, अल् नुस्र प्रभृतीनां दलानाम् उपरि युयोद्धुं व्योमाक्रमणानि संयुक्तया आयोक्ष्यन्ते।यू एस्‌ विदेश कार्य सेक्रटरी जोण् केरि रष्यायाः विदेश कार्यमन्त्री सेर्जी लाव् रोव् च मिथः जनीवायां कृतायां चर्चायामेव निश्चयः जातः। शत्रुतां विस्मृत्य सोमवासरात् आरभ्य संयुक्त प्रवर्तनस्य आरम्भः भविष्यति इति ताभ्यां प्रख्यापितौ।
२.९ लक्षं जनानां मृत्यूनां तथा जनसंख्यायाः अर्ध भागस्य पलायनस्य कारणभूतः आभ्यन्तरयुद्धस्य च अनेन परिसमाप्तिः भविष्यति। अत्र पञ्च वर्षाणि यावत् आभ्यन्तर कलहः आसीत्।


पारालम्पिक्स् क्रीडायां भारताय सुवर्णपतकम्।

रियो डि जनीरो> ओलिम्पिक्स् समाप्य सप्ताहत्रयानन्तरं रियोमध्ये भारतस्य देशीयगीतं श्रुतम्। न्यूनाङ्गकानां विश्वकायिकमेलायां पारालम्पिक्स् नामिकायां क्रीडायां उत्कूर्दने - हैजम्प् - सुवर्णपतकेन तमिल् नाट् देशीयः मारियप्पन् तङ्कवेलुः भारतस्य अभिमानतारकः अभवत्। पादैकस्य वीर्ये १.८९मी. उत्कूर्दनं कृत्वैव मारियप्पः चरित्रलब्धिं प्राप्तवान्। पारालम्पिक्स् मध्ये सुवर्णपतकप्राप्तः प्रथमः भारतीयः भवति मारियप्पः। उत्तरप्रदेशीयः वरुण सिंहभाट्टी अस्मिन्नर्थे एव कांस्यपतकं प्राप्तवान्।
अद्य अरफा सङ्गमः। 
अरफा >हज्ज् तीर्थाटनस्य श्रेष्ठाचारः अरफासङ्गमः अद्य सम्पद्यते। विंशति लक्षं तीर्थाटकाः एतदर्थं मिनाय् स्थाने सम्मिलन्तः सन्ति।
    हज्ज् तीर्थाटनस्य अात्मा इति अरफासंगमः विशिष्यते। अतः  हज्ज् तीर्थाटनाय प्राप्तान् सर्वान् जनान् अरफां सम्प्रापयितुं अधिकारिणः प्रयत्नं कुर्वन्ति।
  अरफासंगमस्य परेद्युः एव मिनायां जंरा स्थाने प्रसिद्धं पाषाणविक्षेपणं ‌प्रचलति।

Saturday, September 10, 2016

 पाकिस्थानं भीकरतायै अनुकूलराष्ट्म् - यू एस् सेनट्
वाषिङ्‌टण् > राष्ट्रान्तर मण्डलेषु पाकिस्थानं भीकरराष्ट्म्  इति भारतस्य उक्तिः सत्यमिति अङ्गीकृत्य यू एस्‌ सेनट् मध्ये परामर्शः अभवत्। पाकिस्थानम्  आतङ्गवादिनम् उपयुज्य अफ्‌गानिस्थानस्थान् अमेरिकायाः सैनिकान् मारयन्ति तथा अमेरिकायाः धनं भीकरान् प्रतीरोद्धुम् इति व्याजेन स्वीकरोति च । सेनट् अङ्गाः एवं वदन्ति।यदा भीकरान् प्रति आक्रमणंभविष्यति तदा तेषां कृते पाकिस्थानदेशो वैद्यसाह्यं लभते इति रिप्पब्ब्लिक्कन् सेनट् अङ्गः बोब् कोक्करः अवदत्। पाकिस्थानस्य सुरक्षायां लसन्तः 'हखानि भीकराः' एव सैनिकानां वधे अति तत्पराः इति च सः अवदत्।

आन्ध्राप्रदेशे उष्णतरङ्गेण  ७२३ मरणानि।
हैदराबाद् > गतेषु चतुर्षु मासेषु  आन्ध्राप्रदेशराज्ये उष्णतरङ्गेन मृतानां सङ्ख्या ७२३ अभवदिति सर्वकारेण निगदितम्।उपमुख्यमन्त्री एन् चिनराजप्पः विधानसभां न्यवेदयदमुं वृत्तान्तम्। गतसंवत्सरे अस्मिन् विषये मरणसंख्या १३६९ आसीत्।

Friday, September 9, 2016

विक्षेपणे विजयपथं प्राप्तम् 
भारतस्य इन् साट् 3डिआर् -ISRO
भारतस्य नूतनम् उपग्रहं भ्रमणपथं प्राप्तं- स्वाभिमानस्य निमिषः

 दिल्ली विधानसभाविशेषसत्राह्वानम्  उद्देश्यरहितम्  - अजयमाकनः
दिल्ली>दिल्लीप्रदेशस्य कांग्रेसदलाध्यक्षेण अजयमाकनेन पत्रं विलिख्य दिल्लीविधानसभाध्यक्षः अध्यर्थितः यत् यावत न्यायालयीयो निर्णयः नैवायाति तावत्  आपदलस्य विवादितप्रकरणेषु संलिप्तानां सांसदानां विधानसभासत्रे सहभागं मा भवेत्। अपि च तेनोक्तं  प्रथमोsयमवसरः यदा उद्देश्यं विहाय विधानसभाविशेषसत्राह्वानं क्रियते। दिल्ली प्रशासनम् आलोचयन् असौ अवदत यत् डेंगू चिकनगुनिया मलेरिया इत्येतादृशरोगप्रभाविते काले केजरीवालस्य अनुपस्थितिः  चिन्ताकरी  वर्तते ।

दिल्लीविश्वविद्यालये छात्रसंघनिर्वाचनेषु एन-एस-यू-आईएबीवीपी इत्यनयोर्मिथः संघर्षः
दिल्ली>श्वः नवदिल्ल्यां दिल्लीविश्वविद्यालयस्य छात्रसंघनिर्वाचने साफल्यमधिगन्तुम्  एकाजनसभासमायोजिता। यस्यां कॉग्रेसदलस्य अजयमाकनः मुकुलवासनिकः आस्करफर्नाडीजः एन-एस-यू-आई समवायस्य राष्ट्रियाध्यक्षा अम्रिताधवनः सज्जनकुमारश्च जनसभां सम्बोधितवन्तः। स्वीयसम्बोधने अजयमाकनेन केन्दप्ररशासनं कट्वालोचितम्।
सभायाः संयोजकः जगप्रवेशकुमारः समेषामाह्वानां कृतवान् यत् विश्वविद्यालयस्य निर्वाचनेषु भूरिसंख्यायां मतदानं कुर्वन्त्विति।

उच्चतरन्यायालयेन कठोरः आदेशः दत्तः
उच्चतरन्यायालयेन सुपरटेक संस्थां प्रति आदेशः दत्तः यत् भवन्तः जलसमाधीं स्वीकुर्वन्तु अथवा मरणं प्राप्नुवन्तु अस्माकं कः छेदः, गृहक्रेतृणां  (होम बायर्स) धनं प्रत्यर्पणीयमेव भवति-

नवदेहली>उच्चतमन्यायालयेन मंगलवासरे “रियल एस्टेड देवलपर सुपरटेक” इत्यस्य “नोएडा एक्सप्रेस-वे” मध्ये निर्मिते “एमेराल्ड कोर्ट” विषये कठोरः आदेशः दत्तः। 17 गृहक्रेतृभिः निवेशार्थं कृताधारभूतं धनंप्रत्यर्पयितुम् सन्धि व्यवस्ता हस्ताङ्गनसमये निर्माणाधिकारिभिः उक्ता आसीत् - सुपरटेकसंस्थाजनाः जलसमाधीं स्वीकुर्वन्तु अथवा मरणं प्राप्नुवन्तु परञ्च गृहाय निवेशकृतजनानां धनं तु प्रत्यर्पणीयमेव भवति।
उच्चतमन्यायालयेन किमर्थं कठोरदृष्टिः स्वीकृता ?
न्यायाधीशयोः दीपकमिश्रा-आदर्शकुमारगोयलयोः मार्गदर्शने संघटितसमितिजनैः उक्तम् - वयं भवतां आर्थिकी संस्थिति: विषये नास्तयस्माकं समस्या। कतिपयदिनेभ्यः प्रागैव गृहनिर्माणकर्तॄजनैः उक्तमासीत् यत् तेषां पार्श्वे बायर्स जनानां कृते प्रत्यर्पयितुं धनं नास्ति इति। सुपरटैक जनैः अपि उक्तमासीत् यत् भवनस्य कंस्ट्रक्शनकार्यं पूर्णं जातमस्ति।
सुपरटेक इत्यस्य 628 तः 274 गृहक्रेतारः  जनाः तत्समानामन्यां व्यवस्तां याचितवन्तः। 74 जनैः पुनः इन्वेस्टमेंट कृते व्यवस्थां कल्पयितुं याचनाकृता अस्ति। 108 जनैः धनतमप्रत्यर्पणस्य (रिफंड) कृते याचना कृतासीत्। न्यायाधीशैः सुपरटेक संस्थायाः अधिवक्तायाः कृते पृष्टं यत् धनं किमर्थं भवन्तः न प्रत्यर्पयन्ति। न्यायसमितिजनाः उक्तवन्तः चतुर्थसप्ताहाभ्यन्तरे 2015 तः इदानीं पर्यन्तं प्रिंसिपल अमाउंट मध्ये 10% अनुसारेण 17 वायर्स जनानां धनं प्रत्यर्पयन्तु इति।
पण्यवस्तु-सेवनकरविधेयकस्य राष्ट्रपतेः अङ्गीकारः। 
नवदिल्ली - स्वतन्त्रभारतस्य बृहत्तमकरपरिष्करणार्थं केन्द्रसर्वकारेण आनीतं पण्यवस्तु - सेवनकरस्य (जि एस् टि) विधेयकस्य राष्ट्रपतेः अङ्गीकारः लब्धः।
        शासनघटना संशोधनदेयकमित्यतः  राज्येषु अर्धाधिकानां संख्यकानाम् अंगीकारः आवश्यकः आसीत्। १७ राज्यानाम् अनुमतिः लब्धा!
 प्राशासनिकसेवासु दिव्याङ्गजनानां CUT OF इति अहर्ताप्रतिशतांकेपचितिः भविष्यति -झारखण्डस्य मुख्यमन्त्री रघुवरदासः

झारखण्डे सुगम्यभारताभियानमालक्ष्य मंगलवासरे समायोजितायां  जागरूकताकार्यशालायां मुख्यमन्त्रिणा रधुवरदासेन राज्यस्य सप्तलक्ष दिव्यांगजनान् मुख्यधारया सह संयोजनदिशायां पदक्षेपो विहितः, यस्यान्तर्गतं प्राशासनिक सेवाषु  दिव्यांगजनेभ्यः प्रतिशतं त्रयन्मितमारक्षणव्यवस्था वर्तते । तेन  संकेतितं यत् यदि कश्चन अनुसूचितजात्यनुसूचितजनजातिवर्त्यभ्यर्थि त्रिंशदंकैः सह उत्तीर्णतामेष्यति चेत् दिव्यांगेभ्यः   अर्हता प्रतिशतं दशमितं भविष्यति । अपि च सामाजिक न्यायाधिकारिता मंत्रालयस्य निर्देशे झारखंडप्रशासनेन पञ्चाशत् बाधारहितभवननिर्माणसूचिरपि प्रेषिता । राज्ये प्राशासनिक भवनानि डीपीआर इति दिव्यांगानां  सौविध्यानुगुणं निर्मास्यन्ते । दिव्यांगजनानां जीवने हर्षावाप्तये सुगम्यझारखंडनिर्माणाय समाजस्य दृष्टिः परिवर्तनीया इति तेन सबलं प्रतिपादितम्।देशस्य समेपि सार्वजनिक स्थलानि  दिव्यांगानां सौकर्याय भवन्त्विदमेव  सुगम्यभारतस्य परिकल्पनास्ति । अवसरेsस्मिन्  महिलाबालविकाससामाजिकसुरक्षाविभागस्य दृष्टिबाधितस्य संयुक्तसचिवस्य राजेशकुमारसिंहस्य दृष्टि नहीं, दृष्टिकोण चाहिए इति पुस्तकस्य विमोचनमपि सञ्जातम् ।

Thursday, September 8, 2016

सोपानम्-11 Ashwini M S, CRHS Kuttippuzha.
 फिलिप्पीन्स् राष्ट्रपतेः असभ्यवर्षः - ओबामा चर्चायाः निवृत्तः।
मनीला>फिलिप्पीन्स् राष्ट्रपतिः रोट्रिगो ड्यूटेर्सः अमेरिक्कादेशस्य राष्ट्रपतिं बराक् ओबामं असभ्यवर्षेण अवहेलयति स्म इत्यतः तयोः मिथः चर्चा निरस्तेति अमेरिक्कादेशस्य नयतन्त्रविभागाधिकृतैः निगदितम्।
     लावोस् मध्ये आसियान् शिखरोपवेशने तयोः मेलनं पूर्वनिश्चितमासीत्। किन्तु ओबामवर्यस्य लावोस् प्रति प्रस्थानात् पूर्वं ड्यूटेर्स् वर्यः पत्रकारसम्मिलने तेषां प्रश्नानां समाधानरूपेण ओबामम् अनिन्दत्। फिलिप्पिन्स् राष्ट्रस्य मानवाधिकारलङ्घनमधिकृत्य ओबामस्य प्रभाषणं श्रोतुम् आत्मना न सन्नद्ध इत्युक्त्वा ड्यूटेर्सः निन्दावचनेन भर्त्सयन्नासीत्।
   किन्तु ओबामं प्रति निन्दावचने परं  खेदं प्रकटितवान्।


पण्ययानस्य पथभ्रम्शेन कोङकण् मार्गे गतागतस्तम्भनम्।
मङ्गलुरु >कोङ्कणरेल् पथे अङ्कोल-गोकर्णयोर्मध्ये भाण्डकयानस्य पथविभ्रंशेन तेन मार्गेण गतागतं स्तम्भितम्।  ब्रेक् वान् नामकयानभागेन सह पण्यवस्तुसहिते द्वे प्रवहणे एव भ्रंशिते। कोङ्कण-मार्गेण गम्यमानानि कानिचित् यानानि अवलुप्तानि लक्ष्यप्राप्तिरहितानि वा कृतानीति रेल्यानाधिकृतैः उक्तम्।

व्लादिमिर् पुटिनस्य चालकः दुर्घटनायां हतः।
मोस्को >रष्यायाः राष्ट्रपतेः व्लादिमिर् पुतिनस्य औद्योगिकवाहनं दुर्घटनां प्राप्य यानचालकः हतः। पुतिनं प्रति वधोद्यम इति सन्देहः वर्तते।
       राजधान्यां मोस्कोनगरे कुटुसोव्स्कि अवन्यू इत्यस्मिन् स्थाने आसीत् दुर्घटना प्रवृत्ता। पुतिनस्य बि एम् डब्ल्यू कार् यानं प्रति अभिमुखमागतं मेर्सिडस् बन्स् कार् यानं घट्टनं कुर्वदासीत्।  तदा पुतिनः याने नासीत्। तथा च यानान्तरे अपि केवलं चालकश्च। अातुरालयं प्रविष्टः सः मृतप्रायः वर्तते।

Wednesday, September 7, 2016

भारत-चीना बन्धः - मोदी षि चिन् पिङ् महोदयौ मिथः सन्धिः स्वीकृतौ।
 हाङ्चो> भारत-चीनाराष्ट्रयोः उभयकक्षी बन्धः समीचीन दिशायाम् आनेतुं ; राष्ट्रयोः स्वाभिमान-विषयाणि परस्परं बहुमनयन् पुरोगन्तुं धारणां स्वीकृतवन्तौ। जी . २० सम्मेलनस्य मध्ये लब्धायाम् अवकाशवेलायामेव तयोयोः विशेष-मेलनमभवत्। तस्मिन् कालांशे कृतायां चर्चायामेव  ईदृशा धारणा जाता इति चीनायाः नयतन्त्रज्ञः हुवा चुनियाङ्‌ महोदयः अवदत्। गोवायाम् आरब्स्यमानः ब्रिक्स् मेलने अपि एतस्याः अनुबन्धचर्चा भविष्यति। यू एन् मेलनस्यमध्येऽपि इयं चर्चा अनुवर्तिष्यते इति चुनियाङ्‌ महोदयेन उक्तम्।
ई एस् ऐ आर्थिकायसीमा ₹ २१,०००!
नवदिल्ली > राष्ट्रस्थेभ्यः कर्मकरेभ्यः तेषां परिवारेभ्यश्च ई एस् ऐ आनुकूल्यस्य धनोदयसीमा प्रतिमासं एकविंशतिसहस्रं रूप्यकाणीति निश्चितम्! इदानीमेषा पञ्चदशसहस्रं रूप्यकाणि भवति  अयं निश्चयः पञ्चाशत् लक्षं कर्मकरेभ्यः प्रयोजकीभविष्यति! अनेन सह ई एस् ऐ भिषग्वराणां निवृत्तिवयः ६० तः ६५ इति वर्धयितुमपि निश्चितम्!

Tuesday, September 6, 2016

जी 20 सम्मेलने प्रधानमन्त्रिणा मोदिना भणितं दक्षिण एष्देशेषु एकः देशः आतङ्कवादस्य प्रवृद्धप्रवर्तनार्थं प्रयत्नं करोति।
जी 20 देशीयगोष्ट्यां अन्तिमदिने प्रधानमन्त्री नरेन्द्र मोदिना स्व संबोधने नामोच्चारणंविनैव पाकिस्तानस्योपरि लक्ष्यं साधितम्। तैः स्पष्टरुपेणोक्तं यत् दक्षिणएशिया मध्ये एकैव देशः वर्तते यः आतङ्कवादं प्रसारयितुं सर्वत्र स्वप्रतिनिधिः प्रेषयति।तेन अन्ताराष्ट्रिय समुदायं प्रति उक्तं यत् एतादृशदेशानां पृथककरणस्य आवश्यक्ता वरीवर्ति। तेषामुपरि प्रतिबंधोऽपि स्यात्।
स्व संबोधने कृष्णधनस्योपरि तैः उक्तं यत् अस्मिन विषये सर्वकाराणां आचरणं कठोरं स्यात् एवञ्च स्वदेशस्योपयोगः शरणागाहरुपेण न भवेत् तदर्थं प्रयत्नं विधेयं प्रधानमन्त्रिणा एवमपि भणितं यत् विकास एवञ्च सहयोगार्थं अन्ताराष्ट्रिय मुद्राकोषेण सह निरन्तरं वार्तालापादिकं करणीयम्।
मुद्राकोषे गोपनीयता समापयितुं याचना-
प्रधानमन्त्रिणा सदस्यदेशानां कृते उक्तं यत् अधिकाधिक रुपेण मुद्राकोषे गोपनीयत्वं समापत्यर्थं प्रयतनीयम् इति।तेनोक्तं प्रभावपूर्ण वित्तीय संचालनार्थं भ्रष्टाचारसमाप्त्यर्थं च प्रयत्नं विधेयं।
IMF सह निरन्तर संवादावश्यकः-
स्व संबोधने तैः उक्तं यत् अत्यावश्यकं वर्तते आईएमएफ् संस्थया सह निरन्तरः संवादः।बीईपीएस इत्यस्य अनुशंसायाः समर्थनपुरस्सरं सदस्य देशान् उद्दिश्य उक्तं 2017-2018 मध्ये अस्यारम्भः भवतु इति।

जम्मुकाश्मीर् - सर्वपक्षसंघस्य दौत्यं विफलम्। 

श्रीनगरम्म्मु > जम्मुकाश्मीरे शान्तिपुनःस्थापनाय केन्द्रगृहमन्त्रिणः राजनाथसिंहस्य नेतृत्वे प्रस्थितः सर्वपक्षसंघः निराशतया प्रतिनिवृत्तः। अधित्यकायां सङ्घर्षलघूकरणाय शान्तिपुनःस्थापनाय च क्रियात्मकाः निर्देशाः न समर्पिताः।
    उपत्रिंशत् संघटनान् प्रति सर्वपक्षसङ्घः  चर्चाम् अकरोत् तथापि हुरियत् संघटनस्य नेतारः सर्वपक्षसङ्घं सन्द्रष्टुं विमुखतां प्रकटितवन्तः इत्येतत् दौत्यस्य पराजयकारणम्।
मान्द्यं प्रतिरोद्धुं एकीकृतप्रयत्नः आवश्यकः - नरेन्द्रमोदी। 
हाङ्षू >विश्वेन इदानींतनकाले संमुखीकृतम् आर्थिकमान्द्यं प्रतिरोद्धुं लोकराष्ट्राणि संभूय  लक्ष्याधिष्ठितं प्रवर्तनम् आवश्यकमिति भारतप्रधानमन्त्री नरेन्द्रमोदी उक्तवान्। चीनानगरे हाङ्षू नामके जि २० राष्ट्राणाम् उच्चकोटिसम्मेलने भाषमाण आसीत् मोदीवर्यः।
    सम्पद्व्यवस्थाम् उत्तेजयितुं मूलभूतानि परिवर्तनानि अपेक्षितानि। आभ्यन्तरोत्पादनस्य वृद्धिः, आधारसौविध्यविकसनं,  मानववैभवानां प्रकर्षः इत्यादयः आर्थिक व्यवस्थाश्रेष्ठतायै अाश्रयणीयाः मार्गाः इति प्रधानमन्त्रिणा उक्तम्।
   चीनाराष्ट्राध्यक्षेण षि जिङ् पिङ् वर्येण सम्मेलनस्य उद्घाटनं कृतम्। यू एस् प्रथमपौरः बराक् ओबामा, रष्यायाः अध्यक्षः व्लादिमिर् पुतिन् इत्यादयः प्रमुखाः राष्ट्रनेतारः सम्मेलने अस्मिन् भागभाग्त्वं कुर्वन्तः सन्ति।

सर्वत्र संस्कृततरङ्गाः
नवदिल्ली > गतदिने नवदिल्यां राष्ट्रिय-नाट्य-विद्यालयस्य द्वितीयवर्षीय छात्रै: शूद्रकप्रणीतं  मृच्छकटिकम् नाटकम् अभिनीतम्। नाटकमिदं केवलं व्यक्तिगतविषयवर्ति न विद्यते  अपितु तात्कालीन समजस्य शासनव्यवस्थायाः राज्यस्थितेश्च  ज्ञानाय महत्वपूर्णसामग्रीम्  अपि प्रकटयति। विभिन्नाभिः  भावभंगीमाभि: परिपूरितेन नाटकेन समुपस्थितानां जनानां हृदयानि आनंदेन-आप्लावितानि |

गायत्रीमंत्रसर्ववेदसारपुस्तकस्य लोकार्पणं
 ह्यो नवदिल्लीस्थे केरलाभवने गायत्रीमंत्रसर्ववेदसारपुस्तकस्य लोकार्पणं सञ्जातम् । डॉ. इंद्रा बालचंद्रनप्रणीतस्य पुस्तकस्य लोकार्पणकार्यक्रमे राज्यसभासांसदः डॉ.कर्णसिंहः ज्ञानपीठपुरस्कारसभाजितः श्री सत्यव्रतशास्त्री च समुपस्थितौ अवर्तताम् । कार्यक्रमेस्मिन् गायत्रीमंत्रस्य वैश्विकतथ्यानां विषये परिचर्चा अपि विहिता ।

Monday, September 5, 2016

गिलानी पार्श्वे मेलनार्थं गतवतां रिक्तहस्तेन पुनरागमनम्l
गृहमंत्रीराजनाथसिंहस्य नेतृत्वे श्रीनगरं प्रति गतवतः प्रतिनिधिसमूहस्य प्रवाससमये नगरे कार्याबाधः-प्रदर्शनम् च जातम्।
समाचारपत्राणां माध्यमेन ज्ञायते यदा प्रतिनिधिमंडलस्य चतुर्णां नेतॄणां दलं हुर्रियत इत्यस्य सैयद अली शाह गिलानीना सह मिलितुं गतं तदानीं तेन तैः सह मिलितुं अनिच्छा प्रकटिता।
इतः पूर्वं जम्मूकश्मीरराज्यस्य मुख्यमन्त्रीणी महबूबा मुफ्तेः वार्तालापस्य आमन्त्रणमपि अलगाववादी नेतॄणा निराकृतमासीत्। भारताधिकृतकाश्मीरे जुलाई मासे कथित हिज्जबुल मुजाहिद्दीन नायकस्य(commander)बुरहान वानेः मृत्योरनन्तरं विरोधप्रदर्शनानि जायमानानी सन्ति।प्रदर्शनकारीणां सुरक्षाबलैः सह कलहेन ६५ जनाः मृताः।सुरक्षाकैः सह शताधिकाःजनाः आहताः अस्यानन्तरं विपक्षिदलजनैः प्रदर्शनकारिणा सह वार्तालापस्याभियाचना कृता तस्य कारणेनैव राजनाथसिंहस्य आध्यक्षे दलं श्रीनगरंप्रति गतं।दृष्टिबन्ध हुर्रियत नेतृषु मिलितुं सीपीएम महासचिव सीताराम येचुरीः,सीपीआई नेता डी राजाः,जनतादल यू पक्षतः शरदयादवः,आरजेडी पक्षतः जयप्रकाशनारायणः गतः।
स्ववातायनात् सर्वदलीयप्रतिनिधिमण्डलं गिलानीः अद्राक्षीत्।परं सः मेलनार्थंनागच्छत्।
गृहमंत्री राजनाथसिंहस्य नेतृत्वे यत्र सर्वदलीयप्रतिनिधि मंडलमासीत्।तत्र समूह जनाः विभिन्न स्थानीय जनैः सह वार्तालापं कृतवन्तः।समाचारपत्राणां माध्यमेन गिलानी-मीरवाइज एवञ्च जेकेएलएफ नेता यासीनमलिकेन एकस्वरेण मुख्यमन्त्रीण्याः महबुबायाः प्रस्तावः निराकृतः।
एकस्वरेण तैः उक्तं वयं चिन्तने असफलाः जाताः।तस्य प्रतिनिधिमंडलेन सह वार्तालापेन किं सिध्द्यति?इति।

अभिषेक परगाँई
परिक्षापरिषदम् आधारपत्रेण योजनात् 
बिहार राज्यं प्रथमम् राज्यम् जातम्।

बिहारविद्यालयपरीक्षासमीतेः अध्यक्षमहोदयेन आनन्दकिशोरेण भणितं यत् परिक्षासु पारदर्शिता नेतुं तथैव वञ्चनं स्थगयितुं छात्राणां परिषद् (board)परीक्षायाः आवेदनम् आधार पत्रेण सह योजयिष्यते।अस्मिन् क्षेत्रे बिहार राज्यं प्रथमम् राज्यं अभवत।अस्यानन्तरं छात्राणां प्रमाणपत्राणां आधुनिक यन्त्रेण(डाक्यूमेंटस् डिजिटल लाकर) सह योजनं भविष्यतीति। नवम्बर् मासे भविष्यमाणमाध्यमिक(दशम)परिक्षातः एषा व्यवस्था आरप्स्यते।
- अभिषेक परगाँई, नव दिल्ली


ब्रिटेनत:(युक्तराष्ट्रतः) बहिरागमिष्येत् जापानदेशीयसंस्था ।
कोल्क्कत्ता > जापानसर्वकारः ब्रिटेनदेशं संसूचीतं यत्-ब्रेक्सिट् इत्यस्मात् कारनात् जापानदेशीयसंस्था स्वस्य प्रधानकार्यालयः ब्रिटेनतः बहिः स्थानान्तरनं करिष्यतीति। जापानदेशस्य विदेशमन्त्रालयद्वारा प्रस्तुतः एकस्मिन् वृत्ते(रिपोर्ट) कठिनशब्दैः न्यकृतम् - यदि इउरोपीयसंघस्य नियमाः ब्रिटेनमध्ये न प्रयुंक्ते तर्हि जापानदेशीयसंस्था ततः बहिरागमिष्यति इति।वृत्तेस्मिन्(रिपोर्ट)ब्रिटेनस्य टेरिजायां सर्वकारपक्षतः आवेदितं यत् ते आस्थापूर्वकं कार्यं कुर्यादीति।
बीबीसी संवाददाता  लॉरा कून्सबर्गानुसारेण वृत्तोSयं(रिपोर्ट) ब्रिटेनदेशीय प्रधानमन्त्रीणः कार्यालयतः अस्मिन् सप्ताहे प्राप्तम्। आनुमानिक ब्रिटेनमध्ये जापानीसंस्थायां प्रायः १,४०,००० कर्मकराः कार्यं कुर्वन्ति। ब्रिटेनमध्ये नोमुरावित्तकोशः,हिताची,कारयाननिर्माणसंस्था निसान तथा टोयोटा सह अन्य संस्थायाः मुख्यकार्यालयः दीप्यते।
यद्यपि वृत्तेस्मिन् संस्थायाः नामोल्लेखः न कृतं,परन्तु तत्रोक्तं यत्-वृत्तमेतद् ब्रिटेन तथा युरोपियान संघे कार्यरतः काचित् संस्थायाः अनुरोधेन् लिखितमिति।
-ओमप्रकाश पण्डा पश्चिमबंग

Sunday, September 4, 2016

अगतीनाम् अम्बा विशुद्धपदम् अरूढवती,
विश्वासिसमूहः आनन्दनिर्वृतौ।
Mother of Kolkata
वत्तिक्कान्>आभुवनं क्रैस्तवविश्वासिसमूहानां तथा लोकशान्तिम् अभिलषतां लोकसुखमिच्छतां जनानां धन्यमुहूर्तः। भुवने निरालम्बिनां मातरं तेरेसाम्बां  परिशुद्धपदमुन्नीय सेन्ट् पीटेर्स् बसलिक्का देवालयस्य चत्वरे फ्रान्सीस् मार्पाप्पा वर्यस्य विशुद्धपदप्रख्यापनेन लोकाः ईशस्य कारुण्यवर्षम् अनुभूतवन्तः।
     स्थानं सेन्ट् पीटेर्स् बसलिक्कायाः अन्तः। भारतसमयः अपराह्ने द्विवादनम्। सार्वत्रिकसभायाः परमाध्यक्षस्य परिशुद्धपितेति लोकैकवन्द्यस्य फ्रान्सिस् मार्पाप्पावर्यस्य सभाप्रवेशनेन विशुद्धनामकरणकर्माणि आरब्धानि। प्रार्थनानन्तरं कर्दिनालः आञ्चलो अमात्तोवर्यः  मदर् तेरेसां विशुद्धेति प्रख्यापयतु इति मातुः ह्रस्वजीवचरितकथनेन सह  मार्पाप्पां प्रति अभ्यर्थयत। ततः  अमात्तोवर्यस्य सहकार्मिकः फा. ब्रयाल् वर्यः इट्टलीयभाषया सर्वान्विशुद्धान् उद्दिश्य "अस्मभ्यं संप्रार्थ्यताम्" इति प्रार्थयामास!
    अनन्तरं पाप्पावर्यः  ह्रस्वैः वाक्यैः तेरेसामातरं कल्क्कत्तायाः विशुद्धतरेसा इति पुनर्नामकरणमकरोत्। तत्र सन्निहिताः लक्षशः जनाः कार्यक्रमान् सर्वान् दृश्यमाध्यमैः वीक्ष्यमाणाः सर्वे अपि प्रार्थनानिर्भरचित्तैः कृतार्थाः बभूवुः।
    ततः मातुः भौतिकावशिष्टानि मिषनरीस् आफ् चारिटि संस्थायाः अध्यक्षया सिस्टर् क्लयर् वर्यया अल्त्तारामध्ये  समर्पितानि। सार्वत्रिकसभायाः कृतज्ञताम् आञ्जलो अमात्तो वर्यः प्रकाशयामास। तथास्तु इति पाप्पावर्यस्य प्रतिवचनेन विशुद्धप्रख्यापनस्य परिसमाप्तिः।
माता तेरेसा भारतीयानां मनसि सदा विशुद्धा।
मदर् तेरेसा अद्य विशुद्धा भविष्यति। 
वत्तिक्कान् >निस्वानाम् अम्बा मदर् तेरेसा अद्य विशुद्धपदं प्राप्स्यति। वत्तिक्काने सेन्ट् पीटेर्स् देवालयस्य चत्वरे फ्रान्सिस् मार्पाप्पा वर्यस्य कार्मिकत्वे अपराह्ने द्विवादने - भारतसमयः - आरभ्यमाणे दिव्यबलिमध्ये विशुद्धनामकरणं भविष्यति। कोल्कोत्तायाः विशुद्धतेरेसा इति इतःपरं विख्याता भविष्यति।
       कार्यक्रमे भागभागित्वं वोढुं केन्द्रसर्वकारं प्रतिनिधीभूय  विदेशकार्यमन्त्रिण्याः सुषमास्वराज् वर्यायाः नेतृत्वे कश्चन संघः वत्तिक्कानं प्राप्तः। दिल्ली मुख्यमन्त्री अरविन्द केज्रिवालः वंगराज्यस्य मुख्यमन्त्रिणी ममता बनर्जी इत्येतावपि वत्तिक्कानं संप्राप्तौ।

के बाबोः भवने दक्षतावस्कन्दः। 
कोच्ची >अविहितद्रव्यसम्पादनविषये भूतपूर्वकेरलराज्यमन्त्रिणः के बाबुवर्यस्य भवने ,अपत्यानां तथा  बिनामीति विवक्षितपुरुषाणां सहकारिणां  च गृहेष्वपि दक्षतासंस्थायाः आपातः सम्पन्नः। एऱणाकुलं तोटुपुष़ा इत्येतत्प्रदेशस्थयोः पञ्च वासस्थानेषु कारिते आपाते अष्टलक्षं रूप्यकाणि १८० ग्रां परिमितं सुवर्णं च परिदृष्टानि। बाबोः , तस्य पत्न्याः, अपत्यानां च पञ्च बेङ्कलेखाः च स्तोभयते स्म।
    किन्तु एतत्सर्वं राजनैतिकलक्ष्येण कृता प्रतिक्रिया इति बाबु: अवदत्।