संस्कृतबालसाहित्ये जायन्ते नवकुसुमानि - बलदेवानन्दसागरः।

काश्मीर् अशान्तः - संघट्टने सप्त भीकराः एकः रक्षिपुरुषश्च हताः।
श्रीनगरम् > जम्मुकाश्मीरे पूञ्च् प्रदेशे सुरक्षासेनया त्रयः भीकराः हताः। संघट्टने एकः सुरक्षाभटः अपि मृत्युमुपगतः। कुप्वारा जनपदे नौगं भागे अतिक्रम्य प्रविष्टाः चत्वारःभीकराः सैन्येन
निहताः। पूञ्च् आक्रमणस्य पश्चात् पाकिस्तानः इति काश्मीरस्य
उपमुख्यमन्त्री निर्मल सिंहः आरोपितवान्।
भारतीय-माहम्मदीयानां प्रमुखः जाकिरः वा ?- वेंकैया
नवदेहली >विवादास्पदस्य
इस्लामिकप्रचारकस्य जाकिरनाइकस्य प्रशासनविरूद्धापराधान् अपसारयन्
वेंकैयानायिडूना साश्चर्यमुक्तं यत् धर्मस्य आश्रयमवाप्य किमसौ जाकिरनाइकः
भारतीय माहम्मदीयानां प्रमुखः विद्यते । मुम्बय्यां शनिवासरे
चतुष्पृष्ठात्मकं मुक्तपत्रं विलिख्य नाइकेन पृष्टमासीत् यत् आतंकवादस्य
उपादानमधिगन्तुं तेन किम् कृतम् , आत्मानं विरुद्ध्य
प्रख्यापितानामारोपाणां तार्किकमुत्तरं तेन अभियाचितम् । नाइकस्य आरोपेषु
आपत्तिं विदधानः नायडू अवदत् यत् जनाः अपराधान् विधाय धर्म-जाति- क्षेत्र-
भाषेत्येषाम आश्रये अधिगच्छन्ति येन समर्थनम् अधिगच्छेयुः।
स्टेनिलासवावरिंका यू एस् ओप्पेण् स्पर्धायां पुरुषद्वन्द्वे विजीतः,
पुरुषाणां कृते एकान्तिमविजेता यू एस् ओप्पण् इत्यस्यां स्पर्धायां
स्टेनिलासवावरिंका अनेन अन्तिमचक्रे विगतवर्षस्य विजेता विश्वमानांके
प्रथमस्थानभाजनीभूतश्च नोवाकजोकोविचः निर्णायकद्वन्दवे 6-7,6-4,7-5,6-3
अंकैः पराजितः।