OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 3, 2016

  राष्ट्रस्य यन्त्रशास्त्रबिरुदधारिषु असमर्थानां संख्या अधिका -इ श्रीधरः।  
    अहम्मदाबाद् > राष्ट्रस्य यन्त्रशास्त्रकलालयेभ्यः पठनं पूर्तीकृत्य बहिरागतवत्सु बिरुदधारिषु असमर्थानां संख्या अधिका इति 'मेट्रोमान्'इति नाम्ना विशिष्ट: इ.श्रीधरः।बिरुदं प्राप्तेषु यन्त्रज्ञेषु केवलं २९% एव समर्थाः वर्तन्ते , उपरिपठनेन परिशीलनेन च अपरं २०% बिरुदधारिणामपि सामर्थ्यं वर्द्धयेत् इति तेन सूचितम्।'यन्त्रज्ञानां समाजं प्रति दायित्‍वम्' इत्यस्मिन् विषये प्रभाषणमध्ये एव तेन एवम् अभिप्रेतम्।

 अखिलभारतीयकर्मस्थगनं पूर्णम्। 
नवदहली > केन्द्रसर्वकारस्य कर्मकरविरुद्धान् नयान् प्रति विविधैः कर्मकरसंघै: प्रख्यापितम्‌ २४ घण्टात्मकम् अखिलभारतीयकर्मस्थगनं पूर्णम्। राष्ट्रस्य वित्तकोशाः, सर्वकारकार्यालयाः , विद्यालयाः,कलालयाः, व्यवसायशालाः च प्रवर्तनरहिता: सन्ति। सामान्यगतागतं पूर्णतया स्थगितम्।सर्वत्रापि व्यापारस्थापनानि भोजनालयाः च प्रवर्तनरहिताः सन्ति। केषुचित् राज्येषु अक्रमादिकमपि सञ्जातम्। पश्चिमबंगाले कूच् मध्ये तथा बीहारे च समरानुकूलिनः बस्यानानां नाशनम् अकुर्वन्। बीहारे तथा ओडीषायां भुवनेश्वर् मध्ये च रेल् गतागतं प्रतिरुद्धम्। उत्तरप्रदेशे वाराणस्यां समरानुकूलिनः मार्गोपरोधम् अकुर्वन्। जम्मुकाश्मीरे च कर्मस्थगनं पूर्णमेव। केरलेष्वपि कर्मस्थगनं पूर्णमेव। कुत्रचित् संघर्षः सञ्जात: इति सूचना अस्ति।

आफ्रिक्कन् गजानां संख्या शुष्यति।
न्यूयोर्क्>आफ्रिक्कन् गजाः कुलनाशम् उपयान्तीति वृत्तान्तः। सप्तसंवत्सराभ्यन्तरे गजानां संख्यासु प्रतिशतं त्रिंशत्परिमितानां ह्रासः अभवत्।
    Elephants Without Borders इति संघटनेन त्रिभिः संवत्सरैः कृते "दि ग्रेट् एलफन्ट् सेन्सस्" इति गजसंख्यागणनायाम् एव अयमधिगमः। १८ देशेषु २०१३ डिसंम्बर् मासादारभ्य आकाशमार्गेण कृतेन निरीक्षणेनैव गजगणना चालिता। हवादेशे सम्पन्ने ऐक्यराष्ट्रसभायाः पर्यावरणसंस्थायाः उपवेशने इदं वृत्तान्तपत्रम् अवतारितम्।
 
'विष़िञ्ञम्' नौकाश्रयाय देशीयहरितन्यायसभायाः अनुमतिः।
 नवदहली > 'विष़िञ्ञम्' राष्ट्रान्तरनौकालयपद्धत्यै देशीयहरितन्यायसभायाः सोपाधिका अनुमतिः लब्धा। न्यायाधिपस्य स्वतन्त्रकुमारस्य आध्यक्ष्ये चतुर्णां न्यायाधिपानां समित्या एव अनुमतिः दत्ता। पद्धतिनिर्वहणाय  शास्त्रज्ञानां सप्ताङ्गसमितिः रूपीकरणीया इत्येव प्रधाननिर्देशः। अस्यां समित्‍यां परिस्थितिशास्त्रज्ञ:, सर्वकारप्रतिनिधिः, समुद्रगवेषणविदग्धाः च भवेयु:। अनया समित्या निर्माणपुरोगतिः निरीक्षणीया। षण्मासाभ्यन्तरे पठनं समर्पणीयम्। परिस्थितिनाशनसम्बन्धीनि निर्माणप्रवर्तनानि , समुद्रसम्पदां नाशनसम्बन्धानि प्रवर्तनानि वा मा भवन्तु इत्यपि हरितन्यायसभया निर्दिष्टम्। न्यायालयस्य नूतननिर्देशः स्वागतार्हः इति केरळस्य नौकादिविषयमन्त्रिणा कटकंप्पल्लि रामचन्द्रमहोदयेन उक्तम्।

 गान्धिहत्याप्रस्तावः - स्वमतं व्यवस्थाप्य राहुल्गान्धी।
नवदिल्ली> महात्मागान्धिनः हत्याविषये आर् एस् एस् संघटनां विरुध्य उक्ते प्रस्तावे प्रत्यक्षरं स्थिरमतिः अस्मीति कोण्ग्रस् दलस्य राष्ट्रियोपाध्यक्षः राहुल् गान्धिवर्यः सर्वोच्चन्यायालयं प्रति उक्तवान्। एतद्विषयकापकीर्तिव्यवहारे महाराष्ट्रस्थे भिवण्टी न्यायालये उपधां सम्मुखीकर्तुं सन्नद्धः इति सः विज्ञापितवान्।
     अस्मिन् विषये राहुलं विरुध्य मुम्बई उच्चन्यायालयेन आदेशः दत्तः।  तन्निरोद्धुं राहुलेन सर्वोच्चन्यायालये समर्पिता याचिका अपि तेनैव निराकृता। अतः भिवण्टि न्यायालये साक्षात् गत्वा उपधाम् अभिमुखीकरिष्यति।
    २०१५ संवत्सरे महाराष्ट्रे निर्वाचनसम्मेलने प्रभाषणे कृते  गान्धिहनने आर् एस् एस् संस्थायाः भागभागित्वमस्तीति प्रकारेण राहुलस्य परामर्शः जातः।