OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 1, 2019

यन्त्रयान-नियम परिष्कारः राज्यसभयाऽपि अनुज्ञातः।
   नवदिल्ली> मार्गेषु नियमान् उल्लङ्घ्य यानचालनं संप्रति कुर्वन्तः नूनं दण्डिताः भवेयुः। मार्गापघातान् न्यूनीकर्तुमुद्दिश्य परिष्कृतः यन्त्रयान-चालन-नियमसंहितायै राज्यसभयाऽपि अनुज्ञा कल्पिता। नियमपत्रस्य अवतारण-समये १०८ सभाजनाः अनुकूलतया मतदानं कृतवन्तः। १३ सभावासिनः एव विप्रतिपत्तिं प्रकाशितवन्तः।
   यान-चालनानुज्ञापत्रं विना यानं चालयति चेत् ५००० रूप्यकाणि दण्डनधनरूपेण दातव्यानि। लघुवयस्कानां चालने तेषां रक्षाकर्तृभ्यः वर्षत्रयाणां काराग्रहवासः एव दण्डनम्। यान दुर्घटनायां क्षतेभ्यः २ लक्षं रूप्यकाणि तथा मृतानां बन्धुजनेभ्यः ५ लक्षं रूप्यकाणि च समाश्वासधनं प्रदातुं नियमपत्रे व्यवस्था अस्ति।