OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 9, 2019

केरले अतिवृष्टिदुष्प्रभावः अतिरूक्षः - एकादशमरणानि।
वयनाट् जनपदे जातं भूस्खलनम्। 
प्रदेशे महान् भूविच्छेदः। बहुषु जनपदेषु प्रलयसमानस्थितिः। 
कोच्ची > केरलेन दृष्टस्य महाप्रलयदुरन्तस्य संवत्सरे प्राप्यमाणे पुनरपि अतिवृष्टिदुष्प्रभावेन महान्तः नाशनष्टाः। विविधेषु जनपदेषु , विशिष्य उत्तरकेरले, दश मरणानि प्रस्तुतानि।
  वयनाट् जनपदे मेप्पाटि पुत्तुमला सानुप्रदेशे महत्भूस्खलनं सञ्जातम्। सप्तत्यधिकानि गृहाणि - कर्मकराणां 'पाटि'नामकं   भवनयूथं- निपतितानि विशीर्णानि च। पञ्चाशदधिकाः जनाः अप्रत्यक्षाः अभवन्।
  विमाननिलयः पिहितः। कोच्ची अन्ताराष्ट्रविमाननिलयस्य 'टाक्सि'मार्गः वृष्टिजले निमग्नः इत्यतः निलयः अचिरं पिहितः। विमानसेवनानि मार्गान्तरेण कारयिष्यति।
  एरणाकुलं, इटुक्की , पालक्काट्, मलप्पुरं जनपदेषु अपि भूस्खलनानि जातानि। अनुवर्तमानाम् अतिवृष्टिं विगणय्य रक्षाप्रवर्तनानि संयोजितानि सन्ति।
  १२ जनपदानां विद्यालयेषु अद्य अनध्यायदिनत्वेन प्रख्यापितम्। विश्वविद्यालयानां पि एस् सि संस्थायाः च सर्वाः परीक्षाश्च परिवर्तिताः। सर्वेषु जनपदेषु अतिजाग्रतानिर्देशः कृतः।
  मुख्यमन्त्रिणा स्थितिगतयः अवलोकिताः। केरलस्य मुख्यमन्त्री पिणरायि विजयः दुरितनिवारणसंस्थाकार्यालयं प्राप्य अधिकृतैः सह चर्चित्वा स्थितिगतीनाम् अवलोकनं कृतवान् । १३,००० जनाः इदानीं विविधेषु समाश्वासशिबिरेषु प्राप्ताः इति तेन निगदितम्।