OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 13, 2019

न्यूनतम-राशिः नस्ति- वित्तकोशैः ९७२२ कोटि रूप्यकाणि शुल्करूपेण ग्रहीतानि।
नवदिल्ली> सञ्चितवित्तरेखायां न्यूनावश्यधनराशिः नस्ति इत्यनेन ग्राहकेभ्यः दण्डशुल्कं ग्रहीतुम् अनुज्ञां लब्धवन्तः वित्तकोशाः उपदशकोटि रूप्यकाणि एतावत्पर्यन्तं स्वायत्तीकृतानि। भारतराष्ट्रे विद्यमानाः द्वाविंशति वित्तकोशाः एवं राशिं स्वीकृतवन्तः। षोडशोत्तर द्विसहस्र तमात् (२०१६) एप्रिल् मासात् आरभ्य एकोनविंशत्युत्तर द्विसहस्र-तमं (२०१९) मार्च् मासपर्यन्तं ग्रहीतः दण्ड-शुल्कराशिः भवति अयम्। सामान्येन दरिद्रजनाः   न्यूनतमधनराशिमपि  वित्तलेखे निक्षेप्तु अशक्ताः भवन्ति। जन धन वित्तलेखाः सुवर्णादिकम् अदाय कृषि कार्येभ्यः अपि  धनं प्रदातुम् न प्रभवन्ति। अतः ईदृश-कार्याय सामान्यवित्तलेखाः आवश्यकाः। समाजे आर्थिकस्तरे दारिद्र्यरेखायाः अधोभागे वर्तमानानां दरिद्राणां वित्तलेखात् नियम -बलेन एतावत् धनं बलादाहृतम् इति अस्माभिः ज्ञेयम्।