OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ संस्कृतेन सर्वदा व्यवहर्तुं प्रयतत - जगद्गुरु भारतीतीर्थस्वामिनः। व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 15, 2019


संस्कृतदिनशुभाशयाः -
-संस्कृतं किमर्थम् आवश्यकम् ? केन वा सरल-प्रकारेण एतत् शिक्षितुं शक्यते? 
  
 -डॉ.बलदेवानन्द-सागरः
      संस्कृत-विषये कश्चन मां पृच्छति यत् किमर्थं संस्कृतम् आवश्यकम् ? अथवा साम्प्रतम् एकविंशे शताब्दे संस्कृतस्य किं नाम उपयोगित्वम्? तदा अहन्तु इदमेव उत्तरामि यत् यथा जीवनार्थं जलं श्वसनं चावश्यके भवतः तद्वदेव अस्माकं भारतीयानां सनातन-वैदिक-धर्मावलम्बिनां च कृते संस्कृतानुसरणं संस्कृताङ्गीकरणं संस्कृतावलम्बनं चावश्यकम् |
      विषयेsस्मिन् नात्र मम कश्चन दुराग्रहः | अहन्तु अनुभवाधारेण वदामि | आकाशवाण्यां दूरदर्शने च संस्कृत-वार्ता-प्रसारणनिरते एतावति ४५-वर्षावधिके काले अनेके तादृशाः अनुभवाः अभवन् यत् नाहं संस्कृत-वार्ता-प्रसारकः अभविष्यं चेत् ममास्तित्व
मेव नाभविष्यत् | ‘अस्माकं भारतीयानां सनातन-वैदिक-धर्मावलम्बिनां च कृते संस्कृतानुसरणं...’ इत्यत्र ‘सनातन-वैदिक-धर्मावलम्बिनां’ इति शब्दाः साशयं लिखिताः सन्ति |
      कश्चन एवमपि प्रष्टुं शक्नोति यत् किं ये भारतीयाः न सन्ति वा वैदिक-सनातन-धर्मावलम्बिनो नैव भवन्ति, किं ते जीवितुं वा श्वसितुं वा नैव शक्नुवन्ति? अवश्यम्, नात्र कश्चन सन्देह-लेशोsस्ति | परन्तु येन विधिना वयं भरत-वंशिनः आर्य-श्रेष्ठाः देवपूज्याः जगद्गुरु-पदवी-धारिणः च सन्तः सम्पूर्ण-जगतः शुभाकाङ्क्षिणः च भवन्तः सुदीर्घ-काल-पर्यन्तां विश्वजनीन-यात्रां वा लोक-लोकोत्तर-यात्रां विहितवन्तः, तदेव वैशिष्ट्यम् अस्मदीयम् | अत एव अस्माकं भारतीयानां सनातन-वैदिक-धर्मावलम्बिनां च कृते संस्कृतानुसरणं संस्कृताङ्गीकरणं संस्कृतावलम्बनं चावश्यकम् | 
इतोऽपि अनेकानि अपराणि कारणानि सन्ति यानि अस्मान् तथ्यमिदं दृढतया स्वीकर्तुं प्रेरयन्ति यत् संस्कृतं विना अस्माकम् इतरत् प्रेयः श्रेयः  चाभिज्ञानं नैवास्ति |
      नात्र केवलं संस्कृत-महिम्नो गानम् अभीष्टं मम | अहन्तु केवलं निजानुभवाधारेण विवच्मि | जगति साम्प्रतं स्फुटमिदं तथ्यं यत् महर्षेः पतञ्जलेः अष्टाङ्ग-योगाभ्यासः सर्वेषामपि लाभाय कल्पते, तद्वद् आयुर्वेदानुसरणं समेषामपि कृते लाभप्रदम् | भवेद्वा सः भारतीयो वा भारतीया आहोस्वित् वैदेशिको वा वैदेशिकी | सर्वेषामपि कृते संस्कृताध्ययनं योगायुर्वेदवदेव परमं लाभप्रदम् | 
      संस्कृतमधिकृत्य स्वामिना विवेकानन्देन उक्तमस्ति यत् 
संस्कृतशब्दानां प्रौढिः मधुरिमा अर्थसम्पुष्टिः च अन्यभाषाशब्दानां न 
सन्त्येव इति | बौद्धमतस्य अधःपतनस्य एकं कारणम् अपि तेषां 
संस्कृतावगणनम् एव | राष्ट्रपुरोगतये भरणसारथ्यं कर्तुं संस्कृतज्ञाः एव 
शक्ताः इति | महर्षि-अरविन्द-लोकमान्य-टिळक-स्वामिचिन्मयानन्द-
श्रीरामचन्द्रडोंगरे-मोरारीबापू-रमेशभाई-ओझा-अमृतानन्दमयीत्यादिभिः अनेकैः आचार्यैः अनेकैः वाक्यैः अनेकेषु सन्दर्भेषु च संस्कृताध्ययनस्य अनिवार्यत्वं प्रस्तुतम् | डॉ. मैक्समूलर-गेथे-प्रभृतयः पाश्चात्यविपश्चितः अपि संस्कृताध्ययनस्य महत्वं सुतरां  प्रतिपादितवन्तः| 
      एनां भाषां विना अथर्ववेदतः आरब्धस्य आयुर्वेदस्य सुष्ठु 
अध्ययनम् असाध्यम् | ज्यौतिषे महाशास्त्रे संस्कृतेतरच्छात्राणां 
प्रवेशाधिकारः नास्ति | वेदान्तादिसकलशास्त्राणाम् अध्ययनाय 
संस्कृतमनिवार्यम् | काव्यरसास्वादकैः अवश्यम् अध्येयं भवति संस्कृतम्| 
भाषान्तरानुवादाभ्यां यत् पठनं भवति तत्तु पूर्णास्वादने रसभङ्गहेतुत्वेन 
समुपकल्प्यते | भूभृत् शब्दस्य भूमिं भरति इति शब्दार्थः 
शास्त्रतत्त्वार्थश्च अनुवादे उक्तेन माउण्टेन् [mountain] इति शब्देन 
कथं ज्ञातुं शक्यते ? यया भाषया लिखितं तया एव पठनीयं भवति 
काव्यम् | उत्तमोत्तम-काव्यानि संस्कृते एव सन्ति यानि अपठित्वा 
काव्यास्वादनं पूर्णं न भवति | अतः संस्कृतं काव्यास्वादकैः अपि 
पठनीयम् | भारतेतिहासं ज्ञातुं ये इच्छन्ति तेषां प्रबलं साधनम् एषा एव 
भाषास्ति | तैः वेदेतिहास-पुराणादीनाम् आश्रयः करणीयः। शास्त्रकारैः 
तन्त्रज्ञैः भाषाशास्त्रज्ञैः च संस्कृताध्ययनेन महान् लाभः अधिगम्यते इति 
समुदीरितं नैकत्र | सर्वोपरि व्यक्तित्वविकासेच्छुः यः सोऽपि 
संस्कृताध्ययनशीलः स्यात् ।
      एषः विज्ञानस्य तन्त्रज्ञानस्य च युगः । अस्य महादानं कम्प्यूटर्-यन्त्रम् । तत्रापि अतितरां समुपयोगिनी सहजभाषा संस्कृतभाषा 
एवेति तज्ज्ञानाम् अभिमतम् । महामुनेः पाणिनेः काले तादृशं वा 
किञ्चित् कम्प्यूटरयन्त्रम् आसीत् इति चिन्तनमुद्दीपयति तस्य सूत्रशैली । अहं स्वीयेषु ‘संस्कृतं पठ : आधुनिको भव [Learn Sanskrit : Be 
Modern] – इति शृङ्खला-व्याख्यानेषु पौनःपुनिकं सबलञ्च कथयामि 
यत् महामुनिना पाणिना संस्कृत-व्याकरणं शब्दानुशासनत्वेन व्यापकं 
सुव्यवस्थितं गणितात्मकं वैज्ञानिकम् अनुशासनात्मकं च विधातुम् 
‘अष्टाध्यायी’ति ‘सोफ्टवेयर’-निर्माणं कृतम् |       
      एवं च, संस्कृति-साहित्य-विज्ञान-तन्त्रज्ञानादिषु सर्वत्र विराजमाना 
संस्कृतभाषा स्वाभिमानं स्वाश्रयं स्वराष्ट्रस्नेहं सहिष्णुतां संस्कृतिं 
सम्पत्तिं च सततं सम्वर्द्धयति । अत एव संस्कृतं राष्ट्रस्य प्राणवायुः 
सनातनधर्मस्तु राष्ट्रस्य जीवात्मा चेति कथ्यते । भारतराष्ट्रस्य अस्मिता 
रक्षणीया चेत् संस्कृताध्ययनं हि परमावश्यकम् । महामुनिना 
पतञ्जलिना व्याकरण-महाभाष्ये प्रोक्तम् - "एकः शब्दः सम्यग् ज्ञातः 
सुप्रयुक्तः च स्वर्गे लोके च कामधुक् भवति” इति प्रमाणेनैव 
संस्कृताध्ययनस्य महत्त्वं समुपयोगित्वञ्च सरलतया अवगन्तुं शक्यते |
      साम्प्रतं प्रश्नः समुदेति यत् केन वा सरल-प्रकारेण एतत् शिक्षितुं 
शक्यते? अस्तु, प्राचीना अध्ययन-शैली तु प्रायेण गुरुकुल-पद्धतिरेव 
आसीत् | गच्छता कालेनात्र अनेकविधं परिवर्तनं जातं जीवन-पद्धतौ 
शिक्षा-पद्धतौ च | एवमपि वक्तुं शक्यते यत् साम्प्रतं संस्कृत-शिक्षणं 
पूर्व-कालापेक्षया सरलतरं सञ्जातम् | सामान्यतया संस्कृत-शिक्षणं हि 
पारम्परिक-संस्कृत-पाठशालासु, वैदिक-पाठशालासु, विद्यालयेषु, 
महाविद्यालयेषु, विश्व-विद्यालयेषु च विधीयते एव | परञ्च साम्प्रतिके 
समुन्नते सूचना-प्रविधि-काले सङ्गणक-अन्तर्जाल-माध्यमेन अध्ययन-
अध्यापनयोः परिधिः व्यापकतरः सुगमश्च सम्वृत्तः | वयं साम्प्रतम् 
अनेकविधैः विद्युदाणविकैः [electronic] बह्वायाम-युतैः सञ्चार-
माध्यमैः [multi-media] सामाजिक-सञ्चार-माध्यमैः [social media] 
चापि संस्कृत-शिक्षणं कर्तुं पारयामः | अधुनातनैः समुपायैः [यथा- 
युट्युब्-ह्वाट्स्-अप्-फेसबुक्-ट्विटर्-इन्स्ट्राग्राम्-ऑन्लाइन[सद्यस्कः]-
वेब्साइट्-ब्लॉग-प्रभृति-समुपकरणैः] सरलतया संस्कृतं शिक्षतुं शक्नुमः |               
         
           *****      *****      *****                     
                             
                               -   डॉ.बलदेवानन्द-सागरः                         
                                  दूरभाषः -   ९८१० ५६२२ ७७                       
                      अणुप्रैषः  - baldevanand.sagar@gmail.com