OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 19, 2019

अफ्गानिस्थाने भीकराक्रमणं - ६३ जनाः हताः। 

काबूल् >  अफ्गानिस्थानस्य राजनगर्यां काबूले विवाहाघोषकार्यक्रमे सम्पन्ने आत्मघातिविस्फोटने ६३ जनाः हताः। १८२ जनाः व्रणिताः अभवन्। राष्ट्रे समीपकाले सम्पन्नेषु भीकराक्रमणेषु बृहत्तमं भवत्येतदिति अधिकृतैरुक्तम्। मृत्युसंख्या वर्धेत इत्यपि सूच्यते। स्फोटनस्य उत्तरदायित्वं इस्लामिक स्टेट् [ऐ एस्] संस्थया स्वीकृतम्।
  इस्लामधर्मस्य षिया विभागस्थानां कस्मिंश्चन विवाहोत्सवे आसीदयं दुरन्तः। सहस्राधिकाः जनाः गतदिने रात्रौ आयोजिते कार्यक्रमे सन्निहिताः आसन्। तत्र पुरुषेभ्यः अतिथिभ्यः सज्जीकृते स्थाने आसीत् आत्मघातिस्फोटनं दुरापन्नम्। राष्ट्रे विद्यमानः सुन्नी - षियाविभागयोः सङ्घर्ष  एव अस्य दुरन्तस्य कारणमिति सूच्यते।