OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 23, 2019

ग्वालियरनगरस्य अनौपचारिकसंस्कृतकेन्द्रेषु शोभायात्रया सह व्यवहारोपयोगिनां वस्तुनां विज्ञानस्य च संस्कृत-प्रदर्शनी जाता

-दीपक वात्स्यः
    ग्वालियर्> मध्यप्रदेशस्य ग्वालियरस्थे कमलाराजे-कन्या-महाविद्यालये २१.०८.१९ दिनाङ्के बुधवासरे प्रात: संस्कृतस्य प्रचारप्रसाराय जनजागरणाय च संस्कृतविभागस्य संस्कृतभारत्या: अनौपचारिक-संस्कृतशिक्षणस्य च  संयुक्तसौजन्येन महाविद्यालये तिलककरणम्, संस्कृत- शोभायात्रा, संस्कृतवस्तुप्रदर्शनी, संस्कृतविज्ञानप्रदर्शनी, संस्कृतपुस्तकविपणि: इत्यादीनि विभिन्नानि कार्याणि सम्पन्नानि। सर्वप्रथमं महाविद्यालयस्य  छात्रा: दिवङ्गतात्मने भूतपूर्व-सी.एम.बाबूलालगौडवर्याय मौनश्रद्धाञ्जलिं समर्पितवत्य:। अनन्तरं तिलककरणेन सह संस्कृतगीतानि  गायन्त्य: बालिका: संस्कृतशोभायात्रायां सोत्साहेन प्रतिभागं कृतवत्य:। शोभायात्रा विभिन्नविभागेभ्यो भूत्वा सर्वेभ्य आमन्त्रणं दत्त्वा प्रदर्शनीस्थलं प्राप्तवती। तत्र अन्यविभागीयै:  प्राध्यापकै: छात्राभिस्सह डा.कृष्णा-जैनवर्या(संस्कृतविभागाध्यक्षा) , डा.उर्मिलासिंहतोमर: , डा.कविता -अग्रवाल:, डा.महेन्द्र-शर्मा (NFSE TEACHER) , अलकेशत्रिपाठी (संस्कृतभारती), डा.कल्पनाशर्मा, डा.आशारावत:, डा.राजूराठौर:, अनौपचारिकसंस्कृतशिक्षक: कृष्णकान्त: पञ्चारिया(बीकानेरी),उर्मिला वर्मा  इत्यादय: प्रदर्शन्या: अवलोकनं कृतवन्त:। सर्वे संस्कृतकार्यं वचसा
प्रशंसितवन्त:।
 प्रदर्शन्यां दैनिकजीवने व्यावहारिक-विभिन्नवस्तुनां नामभि: परिचय: जात:। डा.कृष्णाजैन: संस्कृतं सरलमुक्त्वा प्राध्यापकान् छात्रा: सरलसंस्कृतं पठितुं प्रेरितवती। डा.महेन्द्रशर्मा संस्कृते विज्ञानं प्रदर्शनीद्वारा परिचयं कारयित्वा संस्कृताय प्रेरितवान् । कृष्णकान्त: पञ्चारिया व्यावहारिक-सरल-संस्कृत-पुस्तकानां परिचयं कारयित्वा उक्तवान् राष्ट्रिय-संस्कृत-संस्थानम्  इत्यनया संस्थया कमलाराजे-कन्या-महाविद्यालये ,भाषा-अध्ययनशाला, जीवाजी-विश्वविद्यालये एम.एल.बी. महाविद्यालये, माधव- महाविद्यालये च प्राय: नि:शुल्कं सरलसंस्कृतं पठितुं शक्नुवन्ति। संस्कृतविभाग-संस्कृतभारती- अनौपचारिकसंस्कृतशिक्षणम्  इत्येतेषां पक्षत: कार्यक्रमसंयोजक: कृष्णकान्त: कार्तज्ञ्यं व्याहरितवान्।

   अग्रिमे दिने गुरुवासरे २२.०८.१९ दिनांके एम.एल.बी. महाविद्यालये संस्कृतसप्ताह-समारोपावसरे संस्कृतविभागस्य अनौपचारिक-शिक्षणस्य च सहयोगेन संस्कृत-वस्तु-विज्ञान-प्रदर्शन्या: प्रदर्शनं जातम्। प्राध्यापकै: सह छात्रा: शाकानां, फलानां, पुष्पाणां, पशूनां, पक्षिणामित्यादिनां बहूनां नित्योपयोगिनां वस्तुनां नामानि ज्ञातवन्त:। संस्कृततेतरजना: प्रदर्शनीं दृष्ट्वा संस्कृतपठनाय प्रेरिता: अभवन्। संस्कृतविभागाध्यक्ष: डा.मनीषखैमरियावर्या: संस्कृतं भारतस्य निधिमुक्त्वा प्रत्येकं भारतीयं संस्कृतं पठनीयमिति निवेदितवन्त:।अनौपचारिकसंस्कृतशिक्षक: डा.महेन्द्रशर्मा संस्कृते  निहितान् वैज्ञानिकतथ्यानि प्रकटितवान्। अवसरेऽस्मिन् डा.कुसुमभदौरिया, डा.शशिप्रभा, डा.नीरजावर्मा, डा.अरविन्दशर्मा, कृष्णकान्त:पञ्चारिया (बीकानेरी) इत्यादय: प्रबुद्धा: संस्कृतप्रदर्शनी-मवलोकितवन्त:। सहयोगिशिक्षकेनण कृष्णकान्तेन सर्वेभ्य: धन्यवादज्ञापनं विहितम्।