OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 13, 2019

महाराष्ट्रे राष्ट्रपतिशासनम्।
    नवदहली> निर्वाचनफलप्रकाशनात्परं नवदशदिनानन्तरमपि शासनविषये अनिश्चितत्वं वर्तमाने महाराष्ट्रे राज्यपालः राष्ट्रपतिशासनाय न्यवेदयत्। राज्यपालस्य भगत् सिंह् कोषियारेः निवेदनं राष्ट्रपतिना अङ्गीकृतं च। शासनसंहितामनुसृत्य महाराष्ट्रे सर्वकारशासनम् अधुना दुष्करमिति राज्यपालः राष्ट्रपतिं न्यवेदयत्। अपि च कुत्सितमार्गेण राष्ट्रियदलानि शासनाय प्रयतन्ते इत्यपि राज्यपालनिवेदने सूचितं वर्तते। भा ज पा, शिवसेना, एन् सि पि इत्यादीनि दलानि सर्वकाररूपीकरणाय राज्यपालेन आमन्त्रितान्यासन्। किन्तु कैरपि परस्परं विश्वासमार्जयितुं न शक्तम्। एतदेव राष्ट्रपतिशासनाय कारणमभवत्। अधुना षट्मासात्मककालपर्यन्तमेव राष्ट्रपतिशासनं स्वीकृतं वर्तते।