OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 9, 2019

जयपुरस्थ संस्कृत विद्यालये "व्याकरण सूत्र-अन्त्याक्षरी" प्रतियोगिता सम्पन्ना।

   जयपुरम्> राजगंगा चेरिटेबल-ट्रस्ट एवं राजकीय-महाराज-वरिष्ठोपाध्याय-संस्कृत-विद्यालय: जयपुरम् इत्यनयो: संयुक्ततत्वावधाने व्याकरण सूत्र-अन्त्याक्षरी प्रतियोगिताया: नवम्बरमासस्य सप्त दिनांके समायोजिता। अस्यां प्रतियोगितायां जयपुरमण्डलस्य छात्रा: आगतवन्त:। मुख्यनिर्णायकत्वेन प्रो. श्री मोहनलालशर्ममहोदया: श्री ईश्वरप्रसादशर्ममहोदया: तथा श्री राजारामशर्ममहोदया: आसन्। कार्यक्रमे मञ्चासीन: मुख्यातिथिरूपेण श्री नाथूलाल सुमनमहोदया:, सारस्वतातिथिरूपेण न्यासस्य संरक्षिका प्रो. राजेश्वरी-भट्टमहोदया:, विशिष्ठातिथिरूपेण प्रो. श्रीकृष्णशर्ममहोदया:, द्वितीयविशिष्ठातिथिरूपेण दिव्य-ज्योति-ट्रस्ट द्वारा संचालित मन्दिरस्य महंत श्री लक्ष्मणदासशर्ममहोदया:, संस्थाप्राचार्य: डॉ. गजानन्दशर्ममहोदया: च आसन्। 
    कार्यक्रमे समागतानाम् अतिथिनां संस्थाप्राचार्य: डॉ. गजानन्दशर्ममहोदया: तथा विद्यालयस्य अध्यापका: स्वागतं कृतवन्त:। प्रतियोगितायां जयपुरस्य त्रयोदशविद्यालयस्य छात्रा: समागताः। प्रतियोगितायां प्रथमं पुरस्कारं ३१०० रुप्यात्मकम्  राज. महा. वरि. उपा. सं. विद्यालय: जयपुरम् इत्यस्य बालिके (i) यशस्वी पारीक (ii) संजू पांचाल प्राप्तवत्यौ। द्वितीयं पुरस्कारं २१०० रुप्यात्मकम् राज. प्रवे. सं. विद्यालय: विमलपुरा फागी इत्यस्य बालिके (i) पूजा सैन (ii) सुमन सैन प्राप्तवत्यौ। तृतीयं पुरस्कारं ११००  रुप्यात्मकम् राज. वरि. उपा. सं. विद्यालय: कालच्या इत्यस्य छात्रौ (i) कमल कुमार सेपट (ii) प्रकाश सैनी प्राप्तवन्तौ। श्रीकृष्णशर्ममहोदय: उक्तवान् यत् आगामी वर्षे सम्पूर्ण अष्टाध्यायीशास्त्रं कंठस्थीकृत्वा प्रतियोगिता भवेत्। कार्यक्रमस्य अन्ते निर्णायकमण्डलस्य शॉल श्रीफलमाध्यमेन स्वागतं कृतम्। सर्वे जना: संस्कृतभाषाया: प्रचार-प्रसाराय संकल्पं कृतवन्त:।
वार्ताहर: - दीपक शास्त्री जयपुरम्