OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 16, 2019

प्रथमक्रिकेट् टेस्ट् - भारतस्य विजयः एकेन इन्निङ्सेन १३० धावनाङ्‌कैश्च।
     इन्टोर्> बङ्ग्लादेशं एकेन इन्निङ्सेन १३० धावनाङ्‌कैश्च पराजित्य भारतदलं परम्परायां १-० इति आधिपत्यं प्रापयत्। प्रथमटेस्ट्क्रीडायाः तृतीये दिने एव भारतदलम् उत्तमं विजयं प्रापयत्। भारतदलेन स्वप्रथमम् इन्निङ्स् गतदिनस्य ४९३/६ इत्यङ्के पर्यवसितम्। भारताय ३४३ धावनाङ्कानाम् आधिपत्यं दत्‍वा द्वितीयेन्निङ्स् क्रीडनमारब्धस्य बङ्‌ग्लादेशदलस्य आरम्भः निराशापूर्णः आसीत्। भारतस्य कन्दुकक्षेपकान् प्रतिरोद्धुं बङ्‌ग्लादेशदले मुश्फिकुर् रहिम् (६४) एक एवासीत्। भारताय षमिः ४ क्रीडकान् निष्कासयत्। अश्विन् ३, उमेष् यादवः २ च क्रीडकान् प्रापयताम्। अनेन विजयेन विश्वटेस्ट्क्रिकेट् परम्परायां भारतदलं प्रथमस्थानं पर्यपालयत्।