OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, February 19, 2021

 विद्युत् नास्ति, जलं नास्ति, शीतेन घनीभूतः टेक्सास् देशः। 

 


 वाषिङ्टण्> यु एस् राष्ट्राणां दक्षिणपूर्व राज्यानि अतिशैत्येन कम्पन्ते। जनानां जीवनं दुस्सहमभवत्। हिमपातेन अतिन्यून-तापमानेन च टेक्सास् प्रदेशस्य स्थितिः अतिकष्टेन अनुवर्तते। सर्वकारेण पूर्वसूचना प्रसारिता अस्ति। २.७ दशलक्षं गृहेषु वैद्युतिः स्थगिता अस्ति। गृहेषु तापवर्धनाय सहायकसुविधायाः प्रवर्तनाय वैद्युतिः अनिवार्या। जलवितरणनालिका भागिकतया स्थगिता वर्तते। २१ जनाः मृताः इति आवेद्यते।