OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 19, 2021

भारतस्य अमृतमहोत्सवसंबन्धितया संस्कृतप्रेमिभिः किं कर्तव्यम् ?- उच्चयते च.मू कृष्णशास्त्रिणा

 नवदिल्ली> स्वतन्त्रभारतस्य पञ्चसप्ततितमे वर्षे अस्माभिः संस्कृतस्य पञ्चसप्ततिः कार्याणि करणीयानि। इति संस्कृतप्रचारकः च मू कृष्णशास्त्रि वर्येण निर्दिश्यते। तस्य महोदयस्य अभिमतानि समाजमाध्यमेषु प्रसारितं विद्यते।  च मू महोदय: एवं वदति -  संस्थया कर्तुं योग्यानि, जनेन कर्तुं शक्यानि च इति द्विधा चिन्तयितुं शक्यन्ते। संस्थया नाम संस्कृतविश्वविद्यालयेन, संस्कृतमहाविद्यालयेन, संस्कृतप्रचारसङ्घटनेन, संस्कृतप्रचारपरिषदा, संस्कृतविभागेन, संस्कृतानुरागिसंस्थया वा। 
तस्य दशविध निर्देशान् पूर्णतया पठामः
भारतदेशस्य स्वतन्त्रतायाः अमृतमहोत्सवस्य (पञ्चसप्ततितमस्य वर्षस्य) आचरणम् आरब्धम्। एषः कार्यक्रमः पञ्चसप्ततिसप्ताहान् य़ावत् आचरिष्यते। किं संस्कृतज्ञाः वयम् एतम् अवसरत्वेन परिवर्तयितुं शक्नुयाम ? संस्कृतप्रचारोत्सुकानाम् अस्माकं प्रत्येकं प्रसङ्गे नूतनतया चिन्तनस्य अभ्यासः। अतः अत्र अहं महत् किमपि लक्ष्यम् उपस्थापयामि। एतस्य लेखस्य पठनसमये एतत् सर्वं कर्तुं कथं शक्यम् इति कदाचित् भासेत। तथापि कश्चन अत्र एकम् अपि अंशम् करिष्यति चेत् अपि महत् इति मन्ये। किञ्च अद्य कदाचित् कोपि न कुर्यात् चेदपि अद्य उप्यमानं विचारसरणिबीजं दशवर्षाणाम् अनन्तरम् अङ्कुरितं भविष्यति चेदपि तत् महत् एव इति भावयामि।

स्वतन्त्रभारतस्य पञ्चसप्ततितमे वर्षे अस्माभिः संस्कृतस्य पञ्चसप्ततिः कार्याणि करणीयानि। तानि संस्थया कर्तुं योग्यानि, जनेन कर्तुं शक्यानि च इति द्विधा चिन्तयितुं शक्यन्ते। संस्थया नाम संस्कृतविश्वविद्यालयेन, संस्कृतमहाविद्यालयेन, संस्कृतप्रचारसङ्घटनेन, संस्कृतप्रचारपरिषदा, संस्कृतविभागेन, संस्कृतानुरागिसंस्थया वा। जनेन इत्यस्य अभिप्रायः भवति केनचित् एकेन जनेन स्वतन्त्रतया अथवा स्वस्य मित्रैः सह मिलित्वा इति। कतिचन कार्याणि संस्थया अपि, जनेन अपि इति सर्वैः कर्तुं शक्यानि स्युः। अतः यथायोग्यं भावः गृह्यताम्।

यानि कार्याणि चिन्त्येरन् तेषां करणस्य उद्देश्यानि अस्माकं निर्दिष्टानि स्पष्टानि च स्युः। तेषां करणेन संस्कृतशिक्षायाः संस्कृतप्रचारस्य वा वर्तमानानां प्रधानभूतानाम् आवश्यकतानां पूर्त्यर्थं यत्किञ्चित् साहाय्यं भवेत्। एतानि कार्याणि साधयितुं सर्वकारस्य धनसाहाय्यं भवेत् इति मा चिन्त्यताम्। तेन कदाचित् निराशता भवेत्। अतः अस्मद्बलेन, समाजबलेन, दानिनां बलेन वा एव एतानि साधनीयानि इति अस्माकं पूर्वमेव स्पष्टता अस्ति चेत् उत्तमम्।

संस्थया कर्तुं योग्यानि कार्याणि – १) अन्यभाषाभ्यः सरलमानकसंस्कृतेन अनूदितानां पञ्चसप्ततेः कथापुस्तकानां प्रकाशनम् २) वर्तमानजगतः पञ्चसप्ततेः आधुनिकविषयाणां पुस्तकानां सरलमानकसंस्कृतेन अनुवादः स्वतन्त्रलेखनं वा प्रकाशनं च ३) पञ्चसप्ततेः ग्रन्थानां पृथक्तया प्रमाणपत्रीयपाठ्यक्रमत्वेन सरलमानकसंस्कृतमाध्यमेन षाण्मासिकं पाठनम् ४) चितानां पञ्चसप्ततेः संस्कृतोच्चशिक्षायाः छात्राणां प्रशिक्षुता(Internship)योजनां निर्माय Samskrit Knowledge Systems विषयेषु उन्नतशिक्षणसंस्थानेषु कार्यं कर्तुं तेषां प्रेषणस्य योजना ५) पञ्चसप्तत्यां स्थानेषु सम्भाषणशिबिराणाम् आयोजनम् ६) पञ्चसप्ततेः संस्कृतबालकेन्द्राणाम् सञ्चालनम् ७) पञ्चसप्ततेः विशिष्टोद्देशपाठ्यक्रमशिक्षणकेन्द्राणां स्थापनम् ८) पञ्चसप्तत्यां स्थानेषु संस्कृतप्रदर्शिन्याः आयोजनम् ९) पञ्चसप्तत्यां स्थानेषु बालैः संस्कृतकथाकथनस्य कार्यक्रमाः १०) स्वातन्त्र्यान्दोलनस्य पञ्चसप्तत्याः कथानां प्रेरणादायिरूपेण ध्वन्यङ्कनं कृत्वा सामाजिकमाध्यमानां द्वारा प्रसारणम्

जनेन कर्तुं योग्यानि कार्याणि – १) ७५ जनानां संस्कृतभाषाभ्यासकारणम् २) ७५ जनानां सरलमानकसंस्कृतेन लेखनस्य प्रशिक्षणम् ३) ७५ संस्कृतकृतीनां पठनम् ४) संस्कृतभारत्याः पत्राचारशिक्षणयोजनायां ७५ जनानां प्रवेशकारणम् ५) सम्भाषणसन्देशस्य नूतनानां ७५ ग्राहकाणां सङ्ग्रहः ६) संस्कृतकार्याय ७५ सहस्रस्य रूप्यकाणां दानम् – कस्मैचित् गुरुकुलाय, वेदपाठशालायै, संस्कृतभारत्यै, संस्कृतसंवर्धनप्रतिष्ठानाय, अन्यकार्याय वा ७) ७५ पुस्तकानां प्रकाशनाय ७५ सहस्ररूप्यकदातॄणां ७५ प्रायोजकानां संग्रहः ८) स्नातकस्नातकोत्तरकक्ष्यासु अधीयानानां ७५ छात्राणां यत्किञ्चित् विशिष्टं प्रशिक्षणम् ९) सामाजिकमाध्यमेषु संस्कृताध्येतॄणां संस्कृतेन ७५ वीडियोचित्राणां स्थापनम् १०) पाठने प्रचारे वा ७५ नूतनप्रयोगाः।

उपिरितनानि कार्याणि कर्तुं कति संस्थाः जनाः वा शक्नुयुः इति अथवा तेषु कार्येषु कति कार्याणि कर्तुं शक्नुयुः इति वा प्रश्नः न कर्तव्यः। प्रश्नः क्रियते चेत् कति संस्थाः जनाः वा एतादृशं चिन्तनं कर्तुं शक्नुयुः इति कर्तव्यः। प्रश्नः नूतनरूपेण चिन्तनस्य। प्रश्नः बृहद्रूपेण चिन्तनस्य। प्रश्नः महत्तरलक्ष्यस्वीकरणस्य। प्रश्नः असामान्यायाः सिषाधयिषायाः। प्रश्नः अप्रतिहतकार्योत्साहस्य। प्रश्नः प्रत्येकम् अवसरस्य सदुपयोगस्य।

सामान्यतया एतस्य लेखस्य वाचकाः महान्तः जनाः न। अधिकांशाः पाठकाः महान्तः विद्वांसः अपि न। सर्वः अपि पाठकः कश्चन सामान्यः संस्कृतप्रेमी, सामान्यः संस्कृतच्छात्रः, सामान्यः संस्कृतशिक्षकः वा। परन्तु सर्वः अपि संस्कृतप्रचाराग्निगर्भः। सर्वः अपि संस्कृताय अनल्पकार्यचिकीर्षुः। तस्मात् एव पञ्चसप्ततियुक्तस्य लेखस्य एतस्य लेखनाय मम धैर्यम्।

उपरि उक्तानि एव कार्याणि करणीयानि इति अपि मम आग्रहः नास्ति। एतादृशी दृष्टिः भवेत् इति तावदेव तात्पर्यम्। सर्वस्य अपि संस्कृतप्राध्यापकस्य शिक्षकस्य छात्रस्य अनुरागिणः वा सर्वशक्तेः पूर्णोपयोगाय चिन्तनं करणीयम्। सर्वस्य अपि विकासाय अवसरः कल्पनीयः। सर्वस्य अपि सामर्थ्यस्य अभिव्यक्त्यै अवसरः कल्पनीयः। उपरि सूचितायाः कार्यसरण्याः अनुसरणेन सर्वस्य अपि संस्कृतज्ञत्वस्य कार्यकर्तृत्वस्य च इति उभयोः विकासः भवेत्।

संस्कृतक्षेत्रात् बाह्यजगति असाधारणवेगेन अनूह्यमानानि परिवर्तनानि जायमानानि सन्ति। तस्मात् अस्माभिः संस्कृतज्ञैः अस्माकं कार्यवेगः वर्धनीयः। चिन्तनपरिधिः विस्तारणीयः। प्रभाववलयः विशालीकर्तव्यः। कार्यक्षेत्राणि विस्तारणीयानि। संयोजनशक्तयः संवर्धनीयाः च।

एतस्मिन् लेखे बहवः अंशाः उक्ताः। तेषु “एकः अपि अंशः सम्यक् विचारितः सुष्ठु अनुष्ठितः अल्पे काले कामधुक् भवेत्” इति आशां करोमि।