OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 20, 2021

पञ्चाबे चरणजितसिंह चन्निः नूतनः मुख्यमन्त्री। 

  नवदिल्ली> वर्तमानः मुख्यमन्त्री  अमरीन्द्रसिंहः त्यागपत्रं समर्पितवान् इत्यतः शिक्षामन्त्रिरूपेण परिलसितः चरणजितसिंह चन्निः नूतनमुख्यमन्त्रिरूपेण अद्य शपथवाचनं करोति। गतेषु कतिपयमासेषु पञ्चाबराज्ये अनुवर्तमानस्य राजनैतिककलहस्य परिणतफलमेवैतत्। 

  विधानसभानिर्वाचनाय मासचतुष्टयमेव अवशिष्यते। कोण्ग्रस् दलस्य राज्याध्यक्षः नवज्योतिसिंहसिद्दुः , देशीयसचिवप्रमुखः हरीष् रावतः इत्येताभ्यां सह राज्यपालं बलवारिलाल पुरोहितमुपगम्य चरणजितः  मुख्यमन्त्रिपदाय अधिकाराभ्यर्थनाम् उन्नीतवान्। अद्य एकादशवादने सत्यशपथं कर्तुं राज्यपालः अनुज्ञामदात्।