OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 30, 2021

 संस्कृतस्य जागरणं संस्कृतशिक्षकैः स्वायत्तीकर्तुं शक्यते इति डोः टि डि सुनीतिदेवी

 पालक्काट्> संस्कृतम् अक्कादमिक आयोगस्य दायित्वे पालक्काट् जनपदस्तरीय  संस्कृतमासाचरणसमापनसभा समायोजिता।   संस्कृतस्य जागरणं संस्कृतशिक्षकैः स्वायत्तीकर्तुं शक्यते इति संस्कृतस्य विशेषाधिकारिणी  डोः टि डि सुनीतिदेवीमहाभागा स्वीयोद्घाटन-भाषणेऽब्रवीत् ।  संस्कृतकथनेनैव संस्कृताध्ययनस्य अध्यापनस्य च आवश्यकतां समाजस्य पुरतः सगौरवं उपस्थापयितुं शक्नुमः इति पण्डितरत्नं डोः पि के माधवन्  महाभागोऽवदत्। पालक्काट् डि डि इ श्री कृष्णन् महोदयः कार्यक्रमे अध्यक्षपदमलङ्कृतवान्। डि जि इ श्री जीवन् बाबू ऐ ए एस् महोदयः सन्देशमदात्। अक्कादमिक कौण्सिल्  राज्यस्तरीय कार्यदर्शी एस् श्रीकुमार् महोदयः सन्देशमदात्।

संस्कृत-पटकथाकृत् डोः श्री महेष् बाबू एस् एन् महोदयः विशिष्टातिथिः आसीत् । जनार्दनमहाशयः जनपदस्तरीय प्रतियोगिता विजेतृणां घोषणां कृतवान्।

पालक्काट् डि इ ओ श्रीमती राजम्मा महाशया, ओट्टप्पालं डि इ ओ श्री षाजिमोन् महाशयः मण्णार्क्काट् डि इ ओ रघूनाथ महाशयः शिक्षकप्रतिनिधिः श्री पि पद्मनाभमहाशयः च आशंसाभाषणं कृतवन्तः। चन्दना पद्यं,वरद गानं, श्रीदेवन् सि अष्टपदीं च आलाप्य मेलनस्य गरिमामवर्धयत्। एं वि नारायणन् कुट्टि महाशयः  श्री एस् भास्करः महोदयः, श्रीमती स्मृती, श्री सैजु जोर्ज इत्येते स्वाभिमतान् प्रकटितवन्तः। १२ उपजनपदेभ्यः संस्कृतशिक्षकाः भागं स्वीकृतवन्तः। उपजनपदस्तरीय शैक्षिकाधिकारिणः अपि भागं स्वीकृतवन्तः।