OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 16, 2023

 प्राकृतभाषाविभागद्वारा आयोजिता व्याख्यानशृङ्खला

     नवदेहलीस्थ-श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य प्राकृतभाषाविभागेन जूनमासस्य द्वयोः दिवसयोः विशिष्टव्याख्यानानामायोजनं कृतम्। यत्र जूनमासस्य 09-तमे दिनाङ्के शुक्रवासरे विश्वविद्यालयस्य सारस्वतसाधनासदनस्य वाचस्पतिसभागारे प्राकृतभाषायाः द्वयोः विदुषोः ऑनलाइन-ऑफलाइन-माध्यमेन व्याख्यानमभूत्। तत्र 'प्राकृतभाषाओं का विकासक्रम' इतिविषयमधिकृत्य प्रथमं व्याख्यानं प्रो.जगतरामभट्टाचार्यद्वारा प्रदत्तम्। यस्मिन् प्राकृतभाषाणामितिहासः विकासश्च बहुप्रमाणैः सह तथ्यतः व्याख्यातम्। तथा च द्वितीयं व्याख्यानं डॉ.सुमतकुमारजैनमहोदयेन 'प्राकृतभाषा और साहित्य का महत्त्व एवं उनकी उपयोगिता' इतिविषयमाधृत्य व्याख्यानं दत्तम्।

तत्र बहुपक्षीयप्राकृत-साहित्यस्य वैशिष्ट्यं साम्प्रतिकसन्दर्भेषु तस्य उपयोगिता च व्याख्यातवान्। प्राकृतिकभाषाविभागेन अन्यं व्याख्यानं जूनमासस्य १२-तमे दिनाङ्के सोमवासरे विभागाध्यक्षस्य कक्षे आयोजितम्। तत्र केन्द्रीयसंस्कृतविश्वविद्यालयस्य लखनऊपरिसरस्य भूतपूर्वनिदेशकः सम्प्रति भोगीलाललेहरचन्दप्राच्यसंशोधनसंस्थानस्य निदेशकः प्रो.विजयकुमारजैनमहोदयः 'पालिभाषा एवं प्राकृतभाषाओं का अन्तःसम्बन्ध' इतिविषयमधिकृत्य मार्मिकं व्याख्यानं प्रदत्तवान्। कार्यक्रमस्य अध्यक्षता विभागाध्यक्ष-प्रो.सुदीपकुमारजैनद्वारा कृता, तत्र

   सः स्वपक्षतः विदुषां मालाभिः, शालैः, श्रिफल-समर्पणेन च हार्दिकं स्वागतं कृतवान् तथा च स्वस्य आध्यक्ष्यीयवक्तव्ये व्याख्यानानां महत्त्वपूर्णबिन्दून् रेखाङ्कनं कृत्वा तेषां विविधपक्षं व्याख्यातवान्। विभागीयशोधच्छात्रेण श्रीरूपमदासेन मङ्गलाचरणं प्रो.कल्पनाजैनमहाभागया धन्यवादज्ञापनं शोधच्छात्रया च कु.बबलीद्वारा सञ्चालनं सम्पादितम्। अस्मिन् कार्यक्रमे प्रो.वीरसागरजैनोऽपि प्राकृतभाषाविषये स्वविचारं प्रकटयित्वा समागतानां ज्ञानं समृद्धं कृतवान्। कार्यक्रमे विश्वविद्यालयस्य अन्ये प्राध्यापकाः शोधच्छात्राश्च उपस्थिताः आसन्।