OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 17, 2023

 बाह्याकाशे संवर्धितस्य पुष्पस्य चित्रं नासया प्रसारितम्।

   -जगदीश्वरी एम् आर्

    बाह्याकाशे रोपितस्य सस्यस्य प्रफुल्लकुसुमस्य च चित्रं नासया प्रकाशितम्। इन्स्टाग्राम् इति सामाजिक-माध्यमद्वारा आसीत् नासा-संस्थायाः चित्रप्रकाशनम्। अन्तराष्टिये बह्याकाशनिलये 'वेज्जि' नाम सुविधायाः भागतया संवर्धितस्य पुष्पितस्य  स़िन्निय (Zinnia) सस्यस्य मनोहरं चित्रमेव प्रकाशितम्। पुष्पस्य वर्णयुक्तदलानि सस्यस्य हरितवर्णपत्राणि च दृश्यन्ते। अपि च पृष्ठतः आकाशस्य श्यामवर्णः भूमेः विदूरदृश्यं च द्रष्टुं शक्यते। अतिन्यून-गुरुत्वाकर्षणावस्थायां सस्यानां वृद्धिः कथं भविष्यति ? तादृश्यानां भूसस्यानाम् उत्पादनं कथं करणीयम्  इत्यादयः ज्ञातुम्  साहाय्यं करिष्यति इदम् अनुसन्धानम्।  चन्द्र-मङ्गलग्रहयोः दीर्घकालीन-योजनायाः कृते भक्ष्यादीनां बहुमूल्यं स्रोतः प्रदातुं शक्यते अनेन अनुसन्धानेन इति नासया उक्तम्।