OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, June 20, 2023

 महाकवि कालिदासदिवसस्योपलक्ष्ये उज्जयिन्यां  विशिष्टव्याख्यानमायोजितम् ॥

-वार्तासंयोजक: डॉ.दिनेश चौबे 

   उज्जयिनीस्थे महर्षिपाणिनि-संस्कृतवैदिकविश्वविद्यालयस्य संस्कृतसाहित्य-विशिष्टसंस्कृत-विभागस्य तत्त्वावधाने वैक्रमाब्द: २०८० आषाढशुक्ल द्वितीया तदनु विंशतितमेदिनाङ्के मङ्गलवासरे महाकवि-कालिदासदिवस महोत्सवस्योपलक्ष्ये आषाढस्य प्रथमदिवसे महाकवि कालिदासस्य वागर्चनम् इति विषये विशिष्टव्याख्यानम् एवञ्च स्वरचितसंस्कृतकाव्यपाठस्य आयोजनं विश्वविद्यालयस्य  योगेश्वरश्रीकृष्णयोगभवनस्य सभागारे अभूत् ।महाकवि कालिदासस्य जयन्त्यावसरे आयोजिते कार्यक्रमे।  महाकविकालिदासस्य  प्रमुखकृतीनां पाठः विश्वविद्यालयस्य छात्रै: प्रस्तुतम्।



   डॉ. शिवानन्दमिश्र:, सुश्रीपूजागौरमहोदया च्  स्वरचितकाव्यस्य पाठं अकुरुताम् ।  मुख्यवक्तृरुपेण आचार्यावन्दना त्रिपाठीमहोदया,  सेवानिवृत्ताचार्या, शासकीय कन्यास्नात्कोत्तरमहाविद्यालय:,उज्जयिनी आसीत् । महोदया  कालिदासस्य उपमानां वैशिष्ट्यम् रमणीयता, कालिदासस्य नाटकानां प्रारम्भः कथावस्तुविषये  विस्तरेण प्रवोधितवती।

    अध्यक्षरूपेण विश्वविद्यालयस्य माननीयकुलपति: आचार्यविजयकुमार: सीजीमेननवर्य: अध्यक्षीय- उद्बोधने उक्तवान् यत् कालिदासस्य उपमा वैविध्यम् आश्चर्यकरम् अस्ति कविषु कालिदास: विश्वविख्यात: 

    कालिदासस्य अर्थालङ्कारेषु उपमा आनन्दानुभवं जनयति  उपमालङ्कारे कालिदास: विशिष्यते । अतएव उपमा कालिदासस्य  इति उक्तिः प्रसिद्धा अस्ति।कार्यक्रमस्य शुभारम्भः वाग्देव्याः सरस्वत्याः समर्चनेन दीपप्रज्वालनेन वैदिक मङ्गलाचरर्णेन च जातः। तदनु  विश्वविद्यालयस्य कुलगानं  अतिथिनाम् उत्तरीयवस्त्रप्रदानेन, पुष्पमालया च  स्वागतं  जातम्। ततःसाहित्यविभागप्रमुखेन  कार्यक्रमसंयोजकेन च्  डॉ. तुलसीदासपारौहामहोदयेन वाचिकं स्वागतं प्रास्ताविकं भाषणञ्च प्रस्तुतम्।

   अस्मिन् कार्यक्रमे विश्वविद्यालयस्य वेदव्याकरणविभागाध्यक्ष: डॉ. अखिलेशकुमारद्विवेदिमहोदय:, योगविभागप्रमुख: डॉ.उपेन्द्रभार्गव: वेदविभागप्रमुख: डॉ. संकल्पमिश्रवर्य:  सर्वे  आचार्या:, छात्रा:, शोधच्छात्राः कर्मचारिण: अन्यजनाश्च  उपस्थिता: आसन्। कार्यक्रमस्य सञ्चालनं विभागीयाध्यापकेन श्रीमताआयुषदीक्षितेन  आभारप्रदर्शनं ज्योतिषविभाग प्रमुखेन डॉ. शुभम् शर्ममहोदयेन कृतम्। मार्गदर्शनं कुलसचिवस्य डॉ. दिलीपसोनीमहोदयस्य  आसीत्। सहसंयोजका: डॉ.अजयराठी, डॉ.अनिलमुवेळ:, साहित्यविभागीयप्राध्यापकाश्च आसन्। कल्याणमन्त्रेण सह कार्यक्रमस्य समापनं जातम्।