OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, May 11, 2022

रमाकान्तशुक्लः पञ्चत्वे विलीनः। 


नवदिल्ली> संस्कृतजगतः मूर्धन्यः विद्वान् कविश्च आधुनिकसंस्कृतयुगप्रणेता महामहोपाध्यायः आचार्यः रमाकान्तशुक्लः पञ्चत्वे विलीनः। पद्मश्रीः  रमाकान्तशुक्लमहोदययः भाति मे भारतम् काव्यमुखेन भारतस्य प्रत्येकं जनं संस्कृतानुप्राणितम् आपादयितुम् अचेष्टत। तदीयं काव्यमिदं संस्कृतस्य राष्ट्रगीतमिव समाद्रियते ।

 सः मे मासस्य एकादशे दिने रेलमार्गद्वारा दिल्लीतः झारखण्डं प्रति गच्छन् आसीत्। मार्गे अकस्मात् एव अलीगढस्थाने आचार्यप्रवरस्य हृदयगतिः अवरुद्धा। द्व्यशीतिवर्षीयः आचार्यः रमाकान्तशुक्लः पद्मश्रीरिति सम्मानेन अलङ्कृतः आसीत्। सममेव राष्ट्रपतिसम्मानप्रमाणपत्रं समेत्य साहित्यअकादेमीपुरस्कार-सदृशैः अनेकैः पुरस्कारैः सभाजितः आचार्यशुक्लः आधुनिकसंस्कृतकवितायाः युगे राष्ट्रचेतनायाः उदात्तस्वरः आसीत्। भाति मे भारतम् इति गीतस्य प्रणेता, दिल्याः देववाणी-परिषदः संस्थापकः अध्यक्षश्च, अर्वाचीनसंस्कृतस्य यशस्वी सम्पादकः सार्धैकशतादपि अधिकग्रन्थानां सम्पादकः, अखिलभारतीयप्राच्यविद्यासम्मेलनस्य संयोजकः, भारतीय-संस्कृत-पत्रकार-सङ्घस्य अध्यक्षः च अवर्तत। अकस्मान्निधनेन संस्कृतजगति शोकलहरी प्रसृता, संस्कृतजगतः कृते अपूरणीया क्षतिः एषा।