OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 20, 2022

 राजीवगान्धिहत्यापराधी पेररिवालः मोचितः। 



नवदिल्ली> भारतस्य भूतपूर्वप्रधानमन्त्रिणः राजीवगान्धिनः हत्याप्रकरणे जीवपर्यन्तकारागृहवासाय दण्डितः ए जि पेररिवालः ३१ संवत्सराणां कारागृहवासानन्तरं सर्वोच्चन्यायालयस्य आदेशेन विमोचितः। सम्पूर्णनीतिं दृढीकर्तुं सर्वोच्चन्यायालयस्य सविशेषमधिकारं - प्रशासनसंविधानस्य १४२ तमम् अनुच्छेदम् - उपयुज्य एव न्याया. एस् नागेश्वररावस्य अध्यक्षतायाम् अङ्गत्रयात्मकनीतिपीठेन अयं निर्णयः स्वीकृतः। 

  राजीवगान्धिनः हत्याप्रकरणे षष्ठः अपराधी आसीत् पेररिवालः। १९९१ तमे वर्षे तमिळनाडस्थे श्रीपेरुम्पुत्तूरे एल् टि टि ई नामकेन संघेन कृते बोम्बस्फोटने आसीत् राजीवगान्धी हतः। स्फोटके उपयुक्तः विद्युत्कोशः १९वयस्केन  पेररिवालेन आनीतमित्यासीत् तस्योपरि आरोपितः अपराधः। किन्तु विद्युत्कोशः किमर्थमिति  तदानीं तेन अज्ञातमासीदिति प्रकरणान्वेषकेषु अन्यतमेन सि बी ऐ अधिकारिणा ज्ञापितम्। ततः प्रभृति पेररिवालस्य विमोचनाय तस्य माता अर्पुतम्माल् तथा अन्ये मानवाधिकारप्रवर्तकाः च अक्षीणं प्रयत्नं कुर्वन्तः आसन्। 

   पेररिवालं मोचयितुं तमिलनाट्सर्वकारस्य आवेदनं राज्यपालेन अकारणेन विलम्बायितमित्येतदपि सर्वोच्चन्यायालयस्य प्रक्रमस्य कारणमभवत्। किन्तु कोण्ग्रस् दलेन पेररिवालस्य मोचने प्रतिषेधः प्राकट्यत।