OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 15, 2022

 खत्तर् अन्तिमस्पर्धा - अर्जन्टीनायाः प्रतियोगी फ्रान्सः। 

दोहा> खत्तरे विश्वचषकपादकन्दुकक्रीडापरम्परायाः अन्तिमस्पर्धायां अर्जन्टीनां विरुध्य फ्रान्सः खेलिष्यति। गतरात्रौ सम्पन्ने अर्धान्तिमचक्रस्य द्वितीयपादे वीर्य-शौर्ययुक्तं मोरोक्कोदलं प्रत्युत्तररहितेन लक्ष्यकन्दुकद्वयेन पराजित्य एव इदानींतनवीरस्य फ्रान्सदलस्य अन्तिमस्पर्धाप्रवेशः। 

  खेलनस्य पञ्चमे निमिषे तियोफेर्णाण्डस् इत्यनेन प्राप्तेन लक्ष्येण  फ्रान्सस्य उद्देश्यं स्पष्टं कृतम्। मोरोक्को दलेन तेषां सर्वं वीर्यं शौर्यं च बहिर्नीतमपि लक्ष्यप्राप्तौ विफलमभवत्। क्रीडायाः ८० तमे निमिषे मुवानी नामकः फ्रान्सस्य अजय्यताम् 'अष्टबन्धस्थिरं' कृतवान्। 

  रविवासरे रात्रौ ८. ३० वादने लूसेल् क्रीडाङ्कणे अन्तिमयुद्धं सम्पत्स्यति। अनुस्यूततया द्वितीयवारमेव फ्रान्सस्य अन्तिमस्पर्धा।