OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 24, 2022

 श्रीराघवपुरं - सभायोगस्य १२२९ तमवार्षिकस्य वेदभजनस्य विद्वत्सभायाश्च श्वः शुभारम्भः।

कण्णूर्> केरलस्य कण्णूर् जनपदस्थं चेरुताष़ं श्रीराघवपुरं वलियमतिलकं नामकं स्थानम् आस्थानरूपेण क्रि प ७९३ तमे वर्षे स्थापितस्य वैदिकधर्मसभामण्डलस्य ऐषमः वेदभजनं विद्वत्सभाश्च डिसम्बर् २५, २६, २७, २८ दिनाङ्केषु चेरुताष़स्थे  'कण्णिश्शेरि काव्' मन्दिरे समायोज्यन्ते। ऋग्यजुर्सामवेदानां जपः, यजुर्वेदीयं 'मुरहोमः', संवत्सरीयसभा, विद्वत्सभाः, कला-सांस्कृतिककार्यक्रमाः इत्येते मुख्यकार्यक्रमाः।

  केरलस्य महामन्दिरेषु अन्यतमस्य श्रीराघवपुरं मन्दिरस्य कार्यकर्तृरूपेण वर्तमानैः वेदज्ञैः ४९४ ब्राह्मणपरिवारैः [ऊरालैः] रूपीकृता धार्मिकसंस्था  भवति श्रीराघवपुरं सभायोगः। पुरातनकेरलस्य सागर-समुद्रवंशीयाः एते । सागर ब्राह्मणाः बदरीनाथमन्दिरस्य 'रावल्जी'पदमलङ्कुर्वन्तः सन्ति।  वैदिकधर्मपरिपालनं, परिस्थितिः, संस्कृतिः, शिक्षा, सामाजिकक्षेमः, चरित्रम्( इतिहासः) इत्यादीनां १२ मण्डलानां सुस्थिरविकासाभिवृद्ध्यादयः सभायोगस्यास्य लक्ष्यम्। ७५ संवत्सरेभ्यः पूर्वं यावत् वेदभजनं, विद्वत्सभाश्च अनुवर्तन्ते स्म। २०१८ तमे ट्रस्ट् रूपीकृत्य वैदिकधर्मपालनेन सह  आधुनिककालानुयुक्तेषु  शैक्षिकसामाजिकमूल्यपरिपोषणादिकेष्वपि व्यापरन्नस्ति। 

  डिसम्बर् २५तः २८पर्यन्तं वेदभजनं केरलस्य प्रसिद्धानां वेदाचार्याणां नेतृत्वे सम्पत्स्यते। ऋग्वेदसंहितामुरजपः ब्रह्मश्री मुल्लमंगलं नारायणन् नम्पूतिरिः , ब्रह्मश्री कप्रा नारायणन् नम्पूतिरिः, ब्रह्मश्री पय्यूर् श्रीशङ्कर् नम्पूतिरिः, ब्रह्मश्री पुरलिप्पुरं श्रीधरन् नम्पूतिरिः इत्येतेषां नेतृत्वे प्रचलिष्यन्ति।  यजुर्वेदसंहितामुरहोमाय ब्रह्मश्रीमन्तः पान्ताल् वैदिकः दामोदरन् नम्पूतिरिः, अणिमङ्गलं सुब्रह्मण्यन् नम्पूतिरिः, पेरिक्कमला वाध्यान् केशवन्नम्पूतिरिः च नेतृत्वमावहन्ति। सामवेदसंहिताजपाय ब्रह्मश्रीमन्तौ तोट्टं कृष्णन् नम्पूतिरिः, डो  तोट्टं शिवकरन् नम्पूतिरिः च आचार्यौ भवतः। 

  सर्वेषु दिनेषु विविधविषयानधिकृत्य संगोष्ठ्यश्च प्रचलिष्यन्ति।