OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 6, 2017

महाराष्ट्रे ओखि ताण्डवम्;  केरलम् प्रत्यागन्तुं द्विनवति: जना:।।
             मुम्बै> केरले तमिल्नाडे च तीव्रविनाशकार: ओखि चक्रवातस्य ताण्डवम् महाराष्ट्रे च। तथा च गुजराते सूरत् समीपं वीजमानमेनम् अनुवर्त्य महाराष्ट्रे अतिवृष्टि:। सोमवारे रात्रौ आरब्धा वृष्टि: एतावता न शमनं गता। ओखिवातस्य पश्चात्तले मुम्बै मध्ये समीपमण्डलेषु च शिक्षा संस्थानां कृते विराम: कल्पित:। अमित् षा महोदयस्य नेतृत्वे गुजराते प्रचालनीयानि निर्वाचनप्रचरणानि स्थगितानि।   जाग्रतया महाराष्ट्रम् -चक्रवातेन या कापि गुरुतरावस्था सञ्जाता चेत् तां सम्मुखीकर्तुं सक्रियमार्गै: सह महाराष्ट्रसर्वकार:। यात्रिकाणां नियन्त्रणाय पश्चिमरेलविभाग: अधिककर्मकरान् विन्यसत्। मुम्बै मेट्रोपोलिटन् नगरम्, सिन्धुदुर्गा, ताने, रायगड्, पलसार् इत्येतेषु स्थानेषु विद्यालयानां कलालयानां च विराम: दत्त:। समुद्रतीराणि मा सन्दर्शयेयु: इति जनानां कृते जाग्रतानिर्देशो दत्त:।।