OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 18, 2017

H- 1 B Visa पत्रं - अमेरिक्कायां परिग्रहीतृृणां कर्मनिरोधः। 
           वाषिङ्टण् > एछ् - १ बि नामकस्य प्रवेशानुमतिपत्रस्य आधारेण अमेरिक्कायां कर्म कुर्वतां वैदेशिकानां परिग्रहीतॄणामपि कर्म कर्तुमवसरं निरोद्धुं ट्रम्पसर्वकारेण विचिन्त्यते। सहस्रशः भारतीयकर्मकरान् तेषां परिवारानपि  अयं परिष्कारः बाधेत। 
          विदग्धेभ्यः वैदेशिकेभ्यः कर्मकरेभ्यः संवत्सरत्रयं यावत् अमेरिक्कन् संस्थासु कर्मप्रदानयोग्या अनुमतिः भवति  'एछ् - १ बी विसा'। संवत्सरत्रयमपि अनुमतिपत्रं नवीकर्तुं शक्यते। ये एछ् १बि विसायुक्ताः , हरितपत्राय प्रतीक्ष्यमाणाः इत्येतेषां जीवनसहकारिणः एछ् ४ आश्रितविसापत्रद्वारा कर्म कर्तुं २०१५तम संवत्सरादारभ्य अवसरः अस्ति। ओबामावर्येण प्रतिष्ठितमिदमनुशासनमेव डोणाल्ड् ट्रम्प वर्येण निष्कासितप्रायं वर्तते।