OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 31, 2017

उत्तरकोरियादेशेनोक्तं २०१८ तमे वर्षे पुन: प्रक्षेप्यास्त्रपरीक्षणं करिष्यति 
पुरुषोत्तमशर्मा
          उत्तरकोरियादेशेन शनिवारे अमेरिकां संचेतयता प्रोक्तं यत्   ‘यावत् संयुक्तराज्यामेरिकाया: तस्य शक्तिशालिबलानां च न्यूक्लियर इति भय: भविष्यन्ति' तावत् उत्तरकोरिया निज प्रक्षेप्यास्त्रपरीक्षणं नैव निराकरिष्यति । 

     कोरियाया: आधिकारिकेन वार्ताभिकरणेन स्पष्टीकृतं यत् आगामि वर्षे अपि तत्रत्यप्रशासनं प्रक्षेप्यास्त्राणां परीक्षणं करिष्यति । अवधेयमस्ति यत्  उत्तरकोरियया सितम्बरमासे सर्वतो शक्तिसम्पन्नपरमाणुपरीक्षणं कृतमासीत् । एतदतिरिच्य जुलाई मासे नवंबरमासे च   समुद्रे त्रीणि परीक्षणानि कृतान्यासन्। तत: परं विविधपाश्चात्यदेशै: तस्मै व्यापारिकप्रतिबंधा: स्थापिता: आसन्, तत: परमपि उत्तरकोरियया स्वीय परमाणुकार्यक्रम: यथावत् प्रवर्तित:। 

           अत: अनुमीयते यत् उत्तरकोरिया निज प्रौद्योगिकीक्षमतामालक्ष्य उत्तेजित: वर्ते अमेरिकया सह युद्धं भविष्यति चेत् असौ तत् निराकरणाय सज्जित: विद्यते ।