OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 29, 2017

पाकिस्थानेन कुल्भूषणस्य परिवारः अपमानितः; "देशः ऐकमत्येन तिष्ठतु”- सुषमा स्वराज्
लिषा सी. आर्

        नवदिल्ली> देशः ऐकमत्येन कुल्भूषण् जाधवस्य परिवारेण साकं तिष्ठतु इति विदेशकार्यमन्त्रिणी सुषमा स्वराज् महाभागया उक्तम्। पाकिस्थानः कुल्भूषण् यादवस्य परिवारं प्रति मानवबहुमतिं अलंघयत्। अमुं विषयमधिकृत्य भारतस्य प्रतिषेधः पाकिस्थानं प्रति प्रकटितः इति राज्यसभायां सा उक्तवती। जाधवस्य पत्न्याः मातुः च मङ्गलचिह्नानि, पत्न्याः सीमन्तस्थकुंकुमं च मार्जयित्वा विधवारूपेण कुल्भूषणस्य पुरतः अनयताम्। कुलभूषणस्य कुटुम्बस्य अपमानीकरणं पाक्किस्थानस्य लक्ष्यम्। पाक्किस्थानं विरुद्ध्य  प्रतिषेधः करोतु इति पार्ल्मेन्ट् समूहान् सा आह्वानं कृतवती।
 
      कुल्भूषणस्य पत्न्याः पादुके क्यामरा, चिप् इत्यादि उपकरणानि निवेशितः इति पाक्देशस्य आरोपणानि परिहासार्हाणि अयं पादुकं धृत्वा एव ते द्वे विमानमार्गेण यात्रां कृत्वा पाक्देशं गच्छतः। अस्य परिवारं प्रति पाक्देशस्य प्रवृत्तिः मनुष्यत्वरहितेन एव। साडिकायाः स्थाने 'साल्वार् कम्मीस्' धर्तुम् निर्बन्धिता अभवत् जाधवस्य माता। तयोः समीपे स्थितवन्तौ द्वौ पाक् अधिकारिणौ मराठीभाषायां भाषणं कर्तुं अनुज्ञा न दत्तवन्तौ, किन्तु पुनः मराठी भाषायां भाषणं कृतवती इत्यनेन इन्टेर्कोम् प्रवर्तनरहितम् अकुरुताम्। विपक्षदलनेता गुलांनबि आज़ाद् च पाक्देशस्य इदं हीनकृत्यं विमर्शितवान्। तैः देशस्य सर्वाः स्त्रियः। अपमानिताः इत्यपि सः अवदत् अन्ये सर्वे विपक्षदलनेतारः च पाक्देशस्य प्रवृत्तिं प्रति विप्रतिपत्तिं  सभायां उक्तवन्तः।