राज्यस्तरीयसंस्कृतदिनाचरणं कण्णूरे सवैभवं प्राचलत्
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEjkUH4PGE4BcXD7JlqETKz_o4Cj-2gJeckZVxmDMsT3RIhOiL-seUbb3YoPY9HDbBRDRDsHpk2npkzfNjBF-MXbz0GyzAZicVtiNp12drR3fFKjvdl5NW09eyhRmqhZNHLgIis3zdkyVOeN/s320/skt+day1.png)
कण्णूर्> आगस्ट् मासस्य 27 त्यां जिल्ला शिक्षाधिकारिणः कार्यालयात् प्रस्थितया घोषयात्रया एव सम्मेलनस्य आरम्भः जातः । नगरसभाविद्यालयस्य जूबिलीप्रकोष्ठे आयोजितस्य सम्मेलनस्य
उद्घाटनं श्री रामचन्द्रन् कटन्नप्पल्लि( बहुः नौकामुख, पुरावस्तुविभागमन्त्री) महाशयः निरूढवान् । जिल्ला पञ्चायत्त् अध्यक्षः श्री के वी सुमेशः अध्यक्षपदमलड़्कृतवान् । सम्मेलनस्य आमुखभाषणं सर्वकारीयविद्याभ्यासविभागस्य अध्यक्षः श्री के वी मोहनकुमारः(ऐ ए एस्) अकरोत् । चेन्नै संस्कृतभारत्याः कार्यदर्शी श्री श्रीरामः संस्कृतदिनसन्देशं व्याहृतवान् । पण्डितादरणे श्री टी के कृष्णन् नम्ब्यार् महोदयः(विरमितः अध्यापकः भारतीयसंस्कृतमहाविद्यालयः पिलात्तरा) , डा वि गोविन्दन् नम्पूतिरिः (विरमितः शिक्षकाधीशः(प्रोफसर्) कृष्णमेनोन् स्मारकवनिताकलालयः),
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEiXHy7BVCCMJfCbfjsoWGvOqkYO6k4MEcF_-KvQupLRCBz88d9TNJo0Ld-n3bx8RMgMXY4xMVP-xCFArjRe6tn6WUbarXRhpTqu4XflOLz3oCWWyvFty1PCjnDFkE7iO9-hc6PZtOsn7UgW/s320/skt+day3.png)
डा पी मनोहरः (एमेरिटस् प्रोफसर् गवः ब्रण्णन् कलालयः तलश्शेरी), श्री पी विजयः (अध्यक्षः स्कूल् ओफ् इन्ड्यन् आर्किटेक्चर् माहि) एते आदृताः।
संस्कृताध्यापकानां रचनामत्सरेषु सम्मानार्हाणां पुरस्कारदानं श्री आर् एस् षिबु महाशयेन ( उपाध्यक्षः सार्वजनिकविद्याभ्यासकेन्द्र्म्) निरूढम् ।
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhRKl0tZtWTr-qgrHEEVPjEqQpFgs3X2ZFji2WCyi2qJ5aJkpnCKmSFosuVUsih4G3sxVIxQq-6sZDidkzqZBYHD7ROiGo9Um9C9xd4TZPU41VRhK7JhWfhvDpbwYyoXOftOztGbBCL89B8/s320/IMG_20160827_120434.jpg)
श्री सी पी पद्मराजः श्री यु करुणाकरः श्री बालचन्द्रन् मठत्तिल् श्रीमती एम् पी वनजा श्री के एम् कृष्णदासः डा पी पी पुरुषोत्तमः, श्री के वी सुरेन्द्रः, श्रीमती विमा तेक्कुम्बात्त् , श्री सी पी प्रसूनः, श्री के बालचन्द्रः, श्री सुरेषकुमारः, श्री टी के सन्तोषकुमारः, श्री वी जे पी नारायणः च भाषणं कृतवन्तः। संस्कृतसड़्गीतशिल्पं कार्यक्रमस्य माधुर्यं अवर्धयत्।।