OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 25, 2016

स्कोर्पीन् अन्तर्वाहिनी - सुप्रधानरहस्यानि न बहिरागतानि।
 नवदहली > स्कोर्पीन् अन्तर्वाहिनीनां सुप्रधानरहस्यानां बहिर्गमनं न जातम् इति भारतीयनाविकसेना। विषयोऽयं राष्ट्रसुरक्षासम्बन्धः इत्यतः आभ्यन्तरस्तरे अन्ताराष्ट्रस्तरे च अन्वेषणम् आवश्यकं भवति। फ्रान्स् राष्ट्रेण सह परिपाल्यमानं नयतन्त्रबान्धवम् उपयुज्यैव अन्वेषणं करिष्यतीति नाविकसेनया सूचितम्। विषयोऽयम् अतीव गौरवतया एव फ्रञ्च् सर्वकारेण समीक्ष्यते इति भारतस्थफ्रञ्च् स्थानपतिना सूचितम्। अपि च स्कोर्पीन् अन्तर्वाहिनीनां रहस्यांशानां बहिर्गमनम् इत्यस्मिन् विषये भारतेन फ्रञ्च् आयुधनिर्माणसङ्घस्य विशदीकरणम् अभ्यर्थितम्।

भारतस्य जलान्तर्गामिनौकायाः रहस्यसूचनाः परिस्रवितानि स्म।
नवदिल्ली>भारतस्य अत्यन्ताधुनिकायाः  स्कोर्पीन् नामधेये विख्यातायाः समुद्रान्तर्गामिमहानौकायाः कार्यक्षमासहिताः साङ्केतिकसूचनाः बहिर्गतानीति दि ऒस्त्रेलियन् इति काचन ऒस्त्रेलियन् दिनपत्रिका।
     भारतस्य प्रतिरोधरहस्यानि परिस्रवितानि इति विषये रक्षामन्त्री मनोहर परीक्करः वृत्तान्तकथनपत्राय आदिशत्।
परिस्रवितानि रहस्यानि एतानीति उच्यते - नौकां प्रति सूचनास्वीकारतरङ्गदैर्घ्यस्य मानं , बहिर्गमयतां शब्दतरङ्गानां मानकं, गम्यमाना अगाधता , आक्रमणरीतिः , कार्यक्षमता इत्यादयः।

मृगसंरक्षणफलकवृन्देन श्वानहत्या निषेधः घोषितः।
अनन्दपुरी>वीथ्याम् इतस्ततः अटमानानाम् शुनकानां हननाय राज्यसर्वकारैः घोषितनिर्देशः अनुशासनविरुद्धः  इति देशीयमृगसंरक्षणवृन्देन व्यक्तीकृतः। सर्वकाराणाम् निदेशोयम् सर्वोच्चन्यायालयघोषणस्य लड़्घनमित्यपि समितेरध्यक्षेण डा आर् एम् खर्ब् महाशयेन उक्तम् । सर्वकारैः एषः निर्देशः पुनर्विचिन्तनीयः इत्यपि  तेन सूचितम् ।

देशीयाध्यापकदिने केरळानां मुख्यसचिवः कक्ष्यां प्रचालयिष्यति।
   तिरुवनन्तपुरम् > अस्य वर्षस्य देशीयाध्यापकदिने केरलानां मुख्यसचिवः पिणरायि विजयः कक्ष्यां प्रचालयिष्यति। तिरुवनन्तपुरे अट्टकुलङरा सेन्ट्रल् उच्चविद्यालये एव देशीयाध्यापकदिनस्य  औद्योगिककार्यक्रमः।'जीवितशैली' इत्यस्मिन् विषये भवति मुख्यसचिवस्य कक्ष्याचालनम्। मद्यं, उन्मादकवस्तूनि,धूम्रपानं, आलस्यं,जीवितशैलीरोगाः, अनारोग्यभक्षणक्रमः इत्यादीन् प्रतिरोद्धुं छात्रसमूहस्य शक्तीकरणम् एव मुख्यं लक्ष्यम्। मुख्यसचिवेन सह अन्यैः सचिवैः , सामाजिकैः च एकैकस्मिन् विद्यालये कक्ष्याचालनं करणीयम् इति सचिवानां योगे निश्चितं वर्तते।