OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 27, 2016

वैद्यकप्रवेशः - सर्वकारादेशस्य उच्चन्यायालयेन अवष्टम्भनम्।
कोच्ची > केरळे स्वाश्रयमण्डले वैद्यक दन्तक कलालयप्रवेशः सर्वकारेण करिष्यति इति सर्वकारादेशः उच्चन्यायालयेन व्यवस्थाभिः निरस्तः। एताः व्यवस्थाः पालनीयाः -प्रवेशः नीट् इति प्रवेशनपरीक्षायाः आधारे  अर्हतापट्टिकामनुसृत्यैव भवेत्। अावेदनम् अन्तर्जालद्वारा एव स्यात्। आवेदनानां सम्पूर्णवृत्तान्तं प्रवेशनियन्त्रणाय रूपवत्कृतां जेयिंस् समितिं प्रति समर्पणीयम्। आलोकानां -अग्रेसरत्वं - प्रस्तुतसमित्याः अङ्गीकरणीयम्